चरकसंहिता
निदानस्थानम् ।
अष्टमोऽध्याय: ।
अथातोऽपस्मारनिदानं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
इह खलु चत्वारोऽपस्मारा भवन्ति वातपित्तकफसन्निपातनिमित्ता: ॥३॥
त एवंविधानां प्राणभृतां क्षिप्रमभिनिर्वर्तन्ते, तद्यथा–रजस्तमोभ्यामुपहतचेतसामुद्भ्रान्तविषमबहुदोषाणां समलविकृतोप- हितान्यशुचीन्यभ्यवहारजातानि वैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां तन्त्रप्रयोगमपि च विषममाचरतामन्याश्च शरीरचेष्टा विषमा: समाचरतामत्युपक्षयाद्वा दोषा: प्रकुपिता रजस्तमोभ्यामुपहतचेतसामन्तरात्मन: श्रेष्ठतममायतनं हृदयमुपसृत्योपरि तिष्ठन्ते, तथेन्द्रियायतनानि च । तत्र चावस्थिता: सन्तो यदा हृदयमिन्द्रियायतनानि चेरिता: कामक्रोधभयलोभमोहहर्षशोकचिन्तोद्वेगादिभि: सहसाऽभिपूरयन्ति, तदा जन्तुरपस्मरति ॥४॥
अपस्मारं पुन: स्मृतिबुद्धिसत्त्वसंप्लवाद्बीभत्सचेष्टमावस्थिकं तम:प्रवेशमाचक्षते ॥५॥
तस्येमानि पूर्वरूपाणि भवन्ति, तद्यथा– भ्रूव्युदास: सततमक्ष्णोर्वैकृतमशब्दश्रवणं लालासिङ्घाणप्रस्रवणमनन्नाभिलषण- मरोचकाविपाकौ हृदयग्रह: कुक्षेराटोपो दौर्बल्यमस्थिभेदोऽङ्गमर्दो मोहस्तमसो दर्शनं मूर्च्छा भ्रमश्चाभीक्ष्णं स्वप्ने च मदनर्तन- व्यधनव्यथनवेपनपतनादीनीति ॥६॥
ततोऽनन्तरमपस्माराभिनिर्वृत्तिरेव ॥७॥
तत्रेदमपस्मारविशेषविज्ञानं भवति, तद्यथा–अभीक्ष्णमपस्मरन्तं, क्षणेन संज्ञां प्रतिलभमानम्, उत्पिण्डिताक्षम्, असाम्ना विलपन्तम्, उद्वमन्तं फेनम्, अतीवाध्मातग्रीवम्, आविद्धशिरस्कं, विषमविनताङ्गुलिम्, अनवस्थितपाणिपादम्, अरुणपरुष- श्यावनखनयनवदनत्वचम्, अनवस्थितचपलपरुषरूक्षरूपदर्शिनं, वातलानुपशयं, विपरीतोपशयं च वातेनापस्मरन्तं विद्यात् ॥(१)॥
अभीक्ष्णमपस्मरन्तं, क्षणेन संज्ञां प्रतिलभमानम्, अवकूजन्तम्, आस्फालयन्तं भूमिं, हरितहारिद्रताम्रनखनयनवदनत्वचं, रुधिरोक्षितोग्रभैरवादीप्तरुषितरूपदर्शिनं, पित्तलानुपशयं, विपरीतोपशयं च पित्तेनापस्मरन्तं विद्यात् ॥(२)॥
चिरादपस्मरन्तं, चिराच्च संज्ञां प्रतिलभमानं, पतन्तम्, अनतिविकृतचेष्टं, लालामुद्वमन्तं, शुक्लनखनयनवदनत्वचं, शुक्लगुरुस्निग्धरूपदर्शिनं, श्लेष्मलानुपशयं, विपरीतोपशयं च श्लेष्मणाऽपस्मरन्तं विद्यात् ॥(३)॥
समवेतसर्वलिङ्गमपस्मारं सान्निपातिकं विद्यात्, तमसाध्यमाचक्षते ॥(४)॥
इति चत्वारोऽपस्मारा व्याख्याता: ॥८॥
तेषामागन्तुरनुबन्धो भवत्येव कदाचित्, तमुत्तरकालमुपदेक्ष्याम: । तस्य विशेषविज्ञानं यथोक्तलिङ्गैर्लिङ्गाधिक्यमदोषलिङ्गानुरूपं च किञ्चित् ॥९॥
हितान्यपस्मारिभ्यस्तीक्ष्णानि संशोधनान्युपशमनानि च यथास्वं, मन्त्रादीनि चागन्तुसंयोगे ॥१०॥
तस्मिन् हि दक्षाध्वरध्वंसे देहिनां नानादिक्षु विद्रवतामभिद्रवणतरणधावनप्लवनलङ्घनाद्यैर्देहविक्षोभणै: पुरा गुल्मोत्पत्तिरभूत, हविष्प्राशात् प्रमेहकुष्ठानां, भयत्रासशोकैरुन्मादानां, विविधभूताशुचिसंस्पर्शादपस्माराणां, ज्वरस्तु खलु महेश्वर- ललाटप्रभव:, तत्संतापाद्रक्तपित्तम्, अतिव्यवायात् पुनर्नक्षत्रराजस्य राजयक्ष्मेति ॥११॥
भवन्ति चात्र–
अपस्मारो हि वातेन पित्तेन च कफेन च ।
चतुर्थ: सन्निपातेन प्रत्याख्येयस्तथाविध: ॥१२॥
साध्यांस्तु भिषज: प्राज्ञा: साधयन्ति समाहिता: ।
तीक्ष्णै: संशोधनैश्चैव यथास्वं शमनैरपि ॥१३॥
यदा दोषनिमित्तस्य भवत्यागन्तुरन्वय: ।
तदा साधारणं कर्म प्रवदन्ति भिषग्विद: ॥१४॥
सर्वरोगविशेषज्ञ: सर्वौषधविशारद: ।
भिषक् सर्वामयान् हन्ति न च मोहं निगच्छति ॥१५॥
इत्येतदखिलेनोक्तं निदानस्थानमुत्तमम् ।
निदानार्थकरो रोगो रोगस्याप्युपलभ्यते ॥१६॥
तद्यथा-ज्वरसंतापाद्रक्तपित्तमुदीर्यते ।
रक्तपित्ताज्ज्वरस्ताभ्यां शोषश्चाप्युपजायते ॥१७॥
प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च ।
अर्शोभ्यो जठरं दु:खं गुल्मश्चाप्युपजायते ॥१८॥
प्रतिश्यायाद्भवेत् कास: कासात् संजायते क्षय: ।
क्षयो रोगस्य हेतुत्वे शोषस्याप्युपलभ्यते ॥१९॥
ते पूर्वं केवला रोगा: पश्चाद्धेत्वर्थकारिण: ।
उभयार्थकरा दृष्टास्तथैवैकार्थकारिण: ॥२०॥
कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति ।
न प्रशाम्यति चाप्यन्यो हेत्वर्थं कुरुतेऽपि च ॥२१॥
एवं कृच्छ्रतमा नॄणां दृश्यन्ते व्याधिसङ्करा: ।
प्रयोगापरिशुद्धत्वात्तथा चान्योन्यसंभवात् ॥२२॥
प्रयोग: शमयेद्व्याधिं योऽन्यमन्यमुदीरयेत् ।
नासौ विशुद्ध:, शुद्धस्तु शमयेद्यो न कोपयेत् ॥२३॥
एको हेतुरनेकस्य तथैकस्यैक एव हि ।
व्याधेरेकस्य चानेको बहूनां बहवोऽपि च ॥२४॥
ज्वरभ्रमप्रलापाद्या दृश्यन्ते रूक्षहेतुजा: ।
रूक्षेणैकेन चाप्येको ज्वर एवोपजायते ॥२५॥
हेतुभिर्बहुभिश्चैको ज्वरो रूक्षादिभिर्भवेत् ।
रूक्षादिभिर्ज्वराद्याश्च व्याधय: संभवन्ति हि ॥२६॥
लिङ्गं चैकमनेकस्य तथैवैकस्य लक्ष्यते ।
बहून्येकस्य च व्याधेर्बहूनां स्युर्बहूनि च ॥२७॥
विषमारम्भमूलानां लिङ्गमेकं ज्वरो मत: ।
ज्वरस्यैकस्य चाप्येक: संतापो लिङ्गमुच्यते ॥२८॥
विषमारम्भमूलैश्च ज्वर एको निरुच्यते ।
लिङ्गैरेतैर्ज्वरश्वासहिक्काद्या: सन्ति चामया: ॥२९॥
एका शान्तिरनेकस्य तथैवैकस्य लक्ष्यते ।
व्याधेरेकस्य चानेका बहूनां बह्व्य एव च ॥३०॥
शान्तिरामाशयोत्थानां व्याधीनां लङ्घनक्रिया ।
ज्वरस्यैकस्य चाप्येका शान्तिर्लङ्घनमुच्यते ॥३१॥
तथा लघ्वशनाद्याश्च ज्वरस्यैकस्य शान्तय: ।
एताश्चैव ज्वरश्वासहिक्कादीनां प्रशान्तय: ॥३२॥
सुखसाध्य: सुखोपाय: कालेनाल्पेन साध्यते ।
साध्यते कृच्छ्रसाध्यस्तु यत्नेन महता चिरात् ॥३३॥
याति नाशेषतां व्याधिरसाध्यो याप्यसंज्ञित: ।
परोऽसाध्य: क्रिया: सर्वा: प्रत्याख्येयोऽतिवर्तते ॥३४॥
नासाध्य: साध्यतां याति साध्यो याति त्वसाध्यताम् ।
पादापचाराद्दैवाद्वा यान्ति भावान्तरं गदा: ॥३५॥
वृद्धिस्थानक्षयावस्थां रोगाणामुपलक्षयेत् ।
सुसूक्ष्मामपि च प्राज्ञो देहाग्निबलचेतसाम् ॥३६॥
व्याध्यवस्थाविशेषान् हि ज्ञात्वा ज्ञात्वा विचक्षण: ।
तस्यां तस्यामवस्थायां चतु:श्रेय: प्रपद्यते ॥३७॥
प्रायस्तिर्यग्गता दोषा: क्लेशयन्त्यातुरांश्चिरम् ।
तेषु न त्वरया कुर्याद्देहाग्निबलवित् क्रियाम् ॥३८॥
प्रयोगै: क्षपयेद्वा तान् सुखं वा कोष्ठमानयेत् ।
ज्ञात्वा कोष्ठप्रपन्नांस्तान् यथासन्नं हरेद्बुधः ॥३९॥
ज्ञानार्थं यानि चोक्तानि व्याधिलिङ्गानि संग्रहे ।
व्याधयस्ते तदात्वे तु लिङ्गानीष्टानि नामया: ॥४०॥
विकार: प्रकृतिश्चैव द्वयं सर्वं समासत: ।
तद्धेतुवशगं हेतोरभावान्नानुवर्तते ॥४१॥
तत्र , श्लोका:–
हेतव: पूर्वरूपाणि रूपाण्युपशयस्तथा ।
संप्राप्ति: पूर्वमुत्पत्ति: सूत्रमात्रं चिकित्सितात् ॥४२॥
ज्वरादीनां विकाराणामष्टानां साध्यता न च ।
पृथगेकैकशश्चोक्ता हेतुलिङ्गोपशान्तय: ॥४३॥
हेतुपर्यायनामानि व्याधीनां लक्षणस्य च ।
निदानस्थानमेतावत् संग्रहेणोपदिश्यते ॥४४॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने अपस्मारनिदानं नामाष्टमोऽध्याय: ।
निदानस्थानं समाप्तम् ।
Last updated on June 4th, 2021 at 01:45 pm