Skip to content

07. Siraavarn`a Vibhakti S`haareera – S`haareera – S”

सुश्रुतसंहिता ।

अथ शारीरस्थानम्‌ ।

सप्तमोऽध्यायः ।

अथातः सिरावर्णविभक्तिशारीरं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

सप्त सिराशतानि भवन्ति; याभिरिदं शरीरमाराम इव जलहारिणीभिः केदार इव च कुल्याभिरुपस्निह्यतेऽनुगृह्यते चाकुञ्चनप्रसारणादिभिर्विशेषैः; द्रुमपत्रसेवनीनामिव तासां प्रतानाः; तासां नाभिर्मूलं, ततश्च प्रसरन्त्यूर्ध्वमधस्तिर्यक् च ||३||

भवतश्चात्र श्लोकौ-

यावत्यस्तु सिराः काये सम्भवन्ति शरीरिणाम् |

नाभ्यां सर्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः ||४||

नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिर्व्युपाश्रिता |

सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः ||५||

तासां मूलसिराश्चत्वारिंशत्; तासां वातवाहिन्यो दश, पित्तवाहिन्यो दश, कफवाहिन्यो दश, दश रक्तवाहिन्यः |

तासां तु वातवाहिनीनां वातस्थानगतानां पञ्चसप्ततिशतं भवति, तावत्य एव पित्तवाहिन्यः पित्तस्थाने, कफवाहिन्यश्च कफस्थाने, रक्तवाहिन्यश्च यकृत्प्लीह्नोः; एवमेतानि सप्त सिराशतानि ||६||

तत्र वातवाहिन्यः सिरा एकस्मिन् सक्थ्नि पञ्चविंशतिः; एतेनेतरसक्थि बाहू च व्याख्यातौ |

विशेषतस्तु कोष्ठे चतुस्त्रिंशत्; तासां गुदमेढ्राश्रिताः श्रोण्यामष्टौ, द्वे द्वे पार्श्वयोः, षट् पृष्ठे, तावत्य एवोदरे, दश वक्षसि |

एकचत्वारिंशज्जत्रुण ऊर्ध्वं; तासां चतुर्दश ग्रीवायां, कर्णयोश्चतस्रः, नव जिह्वायां, षण् नासिकायां, अष्टौ नेत्रयोः, एवमेतत् पञ्चसप्ततिशतं वातवाहिनीनां सिराणां व्याख्यातं भवति |

एष एव विभागः शेषाणामपि |

विशेषतस्तु पित्तवाहिन्यो नेत्रयोर्दश, कर्णयोर्द्वे; एवं रक्तवहाः कफवहाश्च |

एवमेतानि सप्त सिराशतानि सविभागानि व्याख्यातानि ||७||

भवन्ति चात्र-

क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम् |

करोत्यन्यान् गुणांश्चापि स्वाः सिराः पवनश्चरन् ||८||

यदा तु कुपितो वायुः स्वाः सिराः प्रतिपद्यते |

तदाऽस्य विविधा रोगा जायन्ते वातसम्भवाः ||९||

भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम् |

संसर्पत् स्वाः सिराः पित्तं कुर्याच्चान्यान् गुणानपि ||१०||

यदा प्रकुपितं पित्तं सेवते स्ववहाः सिराः |

तदाऽस्य विविधा रोगा जायन्ते पित्तसम्भवाः ||११||

स्नेहमङ्गेषु सन्धीनां स्थैर्यं बलमुदीर्णताम् |

करोत्यन्यान् गुणांश्चापि बलासः स्वाः सिराश्चरन् ||१२||

यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते |

तदाऽस्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः ||१३||

धातूनां पूरणं वर्णं स्पर्शज्ञानमसंशयम् |

स्वाः सिराः सञ्चरद्रक्तं कुर्याच्चान्यान् गुणानपि ||१४||

यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः |

तदाऽस्य विविधा रोगा जायन्ते रक्तसम्भवाः ||१५||

न हि वातं सिराः काश्चिन्न पित्तं केवलं तथा |

श्लेष्माणं वा वहन्त्येता अतः सर्ववहाः स्मृताः ||१६||

प्रदुष्टानां हि दोषाणां मूर्च्छितानां प्रधावताम् |

ध्रुवमुन्मार्गगमनमतः सर्ववहाः स्मृताः ||१७||

तत्रारुणा वातवहाः पूर्यन्ते वायुना सिराः |

पित्तादुष्णाश्च नीलाश्च, शीता गौर्यः स्थिराः कफात्

असृग्वहास्तु रोहिण्यः सिरा नात्युष्णशीतलाः ||१८||

अत ऊर्ध्वं प्रवक्ष्यामि न विध्येद्याः सिरा भिषक् |

वैकल्यं मरणं चापि व्यधात्तासां ध्रुवं भवेत् ||१९||

सिराशतानि चत्वारि विद्याच्छाखासु बुद्धिमान् |

षट्त्रिंशच्च शतं कोष्ठे चतुःषष्टं च मूर्धनि ||२०||

शाखासु षोडश सिराः कोष्ठे द्वात्रिंशदेव तु |

पञ्चाशज्जत्रुणश्चोर्ध्वमव्यध्याः परिकीर्तिताः ||२१||

तत्र सिराशतमेकस्मिन् सक्थ्नि भवति; तासां जालधरा त्वेका, तिस्रश्चाभ्यन्तराः- तत्रोर्वीसञ्ज्ञे द्वे, लोहिताक्षसञ्ज्ञा चैका, तास्त्वव्यध्याः; एतेनेतरसक्थि बाहू च व्याख्यातौ; एवमशस्त्रकृत्याः षोडश शाखासु |

द्वात्रिंशच्छ्रोण्यां, तासामष्टावशस्त्रकृत्याः- द्वे द्वे विटपयोः, कटीकतरुणयोश्च; अष्टावष्टावेकैकस्मिन् पार्श्वे, तासामेकैकामूर्ध्वगां परिहरेत्, पार्श्वसन्धिगते च द्वे; चतस्रो विंशतिश्च पृष्ठे पृष्ठवंशमुभयतः, तासामूर्ध्वगामिन्यौ द्वे द्वे परिहरेद्बृहतीसिरे; तावत्य एवोदरे, तासां मेढ्रोपरि रोमराजीमुभयतो द्वे द्वे परिहरेत्; चत्वारिंशद्वक्षसि, तासां चतुर्दशाशस्त्रकृत्याः- हृदये द्वे, द्वे द्वे स्तनमूले, स्तनरोहितापलापस्तम्भेषूभयतोऽष्टौ; एवं द्वात्रिंशदशस्त्रकृत्याः पृष्ठोदरोरःसु भवन्ति |

चतुःषष्टं सिराशतं जत्रुण ऊर्ध्वं भवति; तत्र षट्पञ्चाशच्छिरोधरायां, तासामष्टौ चतस्रश्च मर्मसञ्ज्ञाः परिहरेत्, द्वे कृकाटिकयोः, द्वे विधुरयोः, एवं ग्रीवायां षोडशाव्यध्याः; हन्वोरुभयतोऽष्टावष्टौ, तासां तु सन्धिधमन्यौ द्वे द्वे परिहरेत्; षट्त्रिंशज्जिह्वायां, तासामधः षोडशाशस्त्रकृत्याः, रसवहे द्वे, वाग्वहे च द्वे; द्विर्द्वादश नासायां, तासामौपनासिक्यश्चतस्रः परिहरेत्, तासामेव च तालुन्येकां मृदावुद्देशे; अष्टत्रिंशदुभयोर्नेत्रयोः, तासामेकैकामपाङ्गयोः परिहरेत्; कर्णयोर्दश, तासां शब्दवाहिनीमेकैकां परिहरेत्; नासानेत्रगतास्तु ललाटे षष्टिः, तासां केशान्तानुगताश्चतस्र, आवर्तयोरेकैका, स्थपन्यां चैका परिहर्तव्या; शङ्खयोर्दश, तासां शङ्खसन्धिगतामेकैकां परिहरेत्; द्वादश मूर्ध्नि, तासामुत्क्षेपयोर्द्वे परिहरेत्, सीमन्तेष्वेकैकाम्, एकामधिपताविति; एवमशस्त्रकृत्याः पञ्चाशज्जत्रुण ऊर्ध्वमिति ||२२||

भवति चात्र-

व्याप्नुवन्त्यभितो देहं नाभितः प्रसृताः सिराः |

प्रतानाः पद्मिनीकन्दाद्बिसादीनां यथा जलम् ||२३||

इति सुश्रुतसंहितायां शारीरस्थाने सिरावर्णविभक्तिशारीरं

नाम सप्तमोऽध्यायः ||७||

Last updated on June 8th, 2021 at 05:44 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English