सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
सप्तमोऽध्यायः ।
अथातो दृष्टिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
मसूरदलमात्रां तु पञ्चभूतप्रसादजाम् |
खद्योतविस्फुलिङ्गाभामिद्धां तेजोभिरव्ययैः ||३||
आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम् |
शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तकाः ||४||
रोगांस्तदाश्रयान् घोरान् षट् च षट् च प्रचक्ष्महे |
पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम् ||५||
सिराभिरभिसम्प्राप्य विगुऽभ्यन्तरे भृशम् |
प्रथमे पटले दोषो यस्य दृष्टौ व्यवस्थितः ||६||
अव्यक्तानि स रूपाणि सर्वाण्येव प्रपश्यति |
दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते ||७||
मक्षिका मशकान् केशाञ्जालकानि च पश्यति |
मण्डलानि पताकांश्च मरीचीः कुण्डलानि च ||८||
परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि च |
दूरस्थान्यपि रूपाणि मन्यते च समीपतः ||९||
समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात् |
यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति ||१०||
ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते |
महान्त्यपि च रूपाणि च्छादितानीव वाससा ||११||
कर्णनासाक्षियुक्तानि विपरीतानि वीक्षते |
यथादोषं च रज्येत दृष्टिर्दोषे बलीयसि ||१२||
अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते |
पार्श्वस्थिते तथा दोषे पार्श्वस्थानि न पश्यति ||१३||
समन्ततः स्थिते दोषे सङ्कुलानीव पश्यति |
दृष्टिमध्यगते दोषे स एकं मन्यते द्विधा ||१४||
द्विधास्थिते त्रिधा पश्येद्बहुधा चानवस्थिते |
तिमिराख्यः स वै दोषः चतुर्थं पटलं गतः ||१५||
रुणद्धि सर्वतो दृष्टिं लिङ्गनाशः स उच्यते |
तस्मिन्नपि तमोभूते नातिरूढे महागदे ||१६||
चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः |
निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति ||१७||
स एव लिङ्गनाशस्तु नीलिकाकाचसञ्ज्ञितः |
तत्र वातेन रूपाणि भ्रमन्तीव स पश्यति ||१८||
आविलान्यरुणाभानि व्याविद्धानि च मानवः |
पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान् ||१९||
शिखिबर्हविचित्राणि नीलकृष्णानि पश्यति |
कफेन पश्येद्रूपाणि स्निग्धानि च सितानि च ||२०||
गौरचामरगौराणि श्वेताभ्रप्रतिमानि च |
पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसम्प्लवम् ||२१||
सलिलप्लावितानीव परिजाड्यानि मानवः |
तथा रक्तेन रक्तानि तमांसि विविधानि च ||२२||
हरितश्यावकृष्णानि धूमधूम्राणि चेक्षते |
सन्निपातेन चित्राणि विप्लुतानि च पश्यति ||२३||
बहुधा वा द्विधा वाऽपि सर्वाण्येव समन्ततः |
हीनाधिकाङ्गान्यथवा ज्योतींष्यपि च पश्यति ||२४||
पित्तं कुर्यात् परिम्लायि मूर्च्छितं रक्ततेजसा |
पीता दिशस्तथोद्यन्तमादित्यमिव पश्यति ||२५||
विकीर्यमाणान् खद्योतैर्वृक्षांस्तेजोभिरेव च |
वक्ष्यामि षड्विधं रागैर्लिङ्गनाशमतः परम् ||२६||
रागोऽरुणो मारुतजः प्रदिष्टः पित्तात् परिम्लाय्यथवाऽपि नीलः |
कफात् सितः शोणितजस्तु रक्तः समस्तदोषोऽथ विचित्ररूपः ||२७||
रक्तजं मण्डलं दृष्टौ स्थूलकाचानलप्रभम् |
परिम्लायिनि रोगे स्यान्म्लाय्यानीलं च मण्डलम् ||२८||
दोषक्षयात् कदाचित् स्यात्स्वयं तत्र च दर्शनम् |
अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा ||२९||
पित्तान्मण्डलमानीलं कांस्याभं पीतमेव वा |
श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम् ||३०||
चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः |
सङ्कुचत्यातपेऽत्यर्थं छायायां विस्तृतो भवेत् ||३१||
मृद्यमाने च नयने मण्डलं तद्विसर्पति |
प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् ||३२||
दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे |
यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ||३३||
षड् लिङ्गनाशाः षडिमे च रोगा दृष्ट्याश्रयाः षट् च षडेव च स्युः |
तथा नरः पित्तविदग्धदृष्टिः कफेन चान्यस्त्वथ धूमदर्शी ||३४||
यो ह्रस्वजाड्यो(त्यो) नकुलान्धता च गम्भीरसञ्ज्ञा च तथैव दृष्टिः |
पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य नरस्य दृष्टिः ||३५||
पीतानि रूपाणि च मन्यते यः स मानवः पित्तविदग्धदृष्टिः |
प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि वीक्षते च ||३६||
(रात्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत्) |
तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु ||३७||
त्रिषु स्थितोल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य |
दिवा स सूर्यानुगृहीतचक्षुरिक्षेत रूपाणि कफाल्पभावात् ||३८||
शोकज्वरायासशिरोभितापैरभ्याहता यस्य नरस्य दृष्टिः |
सधूमकान् पश्यति सर्वभावांस्तं धूमदर्शीति वदन्ति रोगम् ||३९||
स ह्रस्वजाड्यो दिवसेषु कृच्छ्राद्ध्रस्वानि रूपाणि च येन पश्येत् |
विद्योतते येन नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् ||४०||
चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसञ्ज्ञः |
दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कुच्यतेऽभ्यन्तरतश्च याति ||४१||
रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः |
बाह्यौ पुनर्द्वाविह सम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ||४२||
निमित्ततस्तत्र शिरोभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैश्च |
सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्वराणाम् ||४३||
हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसञ्ज्ञः |
तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः ||४४||
विदीर्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः ||४५||
इत्येते नयनगता मया विकाराः सङ्ख्याताः पृथगिह षट् च सप्ततिश्च |
एतेषां पृथगिह विस्तरेण सर्वं वक्ष्येऽहं तदनु चिकित्सितं यथावत् ||४६||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे
दृष्टिगतरोगविज्ञानीयो नाम सप्तमोऽध्यायः ||७||
Last updated on July 8th, 2021 at 11:28 am