चरकसंहिता
चिकित्सास्थानम् ।
षष्ठोऽध्याय: ।
अथात: प्रमेहचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
निर्मोहमानानुशयो निराश:
पुनर्वसुर्ज्ञानतपोविशाल: ।
कालेऽग्निवेशाय सहेतुलिङ्गानुवाच मेहाञ्शमनं च तेषाम्॥३॥
आस्यासुखं स्वप्नसुखं दधीनि
ग्राम्यौदकानूपरसा: पयांसि ।
नवान्नपानं गुडवैकृतं च
प्रमेहहेतु: कफकृच्च सर्वम् ॥४॥
मेदश्च मांसं च शरीरजं च
क्लेदं कफो बस्तिगतं प्रदूष्य ।
करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि ॥५॥
क्षीणेषु दोषेष्ववकृष्य बस्तौ
धातून् प्रमेहाननिल: करोति ।
दोषो हि बस्तिं समुपेत्य मूत्रं
संदूष्य मेहाञ्जनयेद्यथास्वम् ॥६॥
साध्या: कफोत्था दश, पित्तजा: षट्
याप्या, न साध्य: पवनाच्चतुष्क: ।
समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते ॥७॥
कफ: सपित्त: पवनश्च दोषा
मेदोऽस्रशुक्राम्बुवसालसीका: ।
मज्जा रसौज: पिशितं च दूष्या:
प्रमेहिणां, विंशतिरेव मेहा: ॥८॥
जलोपमं चेक्षुरसोपमं वा
घनं घनं चोपरि विप्रसन्नम् ।
शुक्लं सशुक्रं शिशिरं शनैर्वा
लालेव वा वालुकया युतं वा ॥९॥
विद्यात् प्रमेहान् कफजान् दशैतान्
क्षारोपमं कालमथापि नीलम् ।
हारिद्रमाञ्जिष्ठमथापि रक्तमेतान् प्रमेहान् षडुशन्ति पित्तात् ॥१०॥
मज्जौजसा वा वसयाऽन्वितं वा
लसीकया वा सततं विबद्धम् ।
चतुर्विधं मूत्रयतीह वाताच्छेषेषु धातुष्वपकर्षितेषु ॥११॥
वर्णं रसं स्पर्शमथापि गन्धं
यथास्वदोषं भजते प्रमेह: ।
श्यावारुणो वातकृत: सशूलो
मज्जादिसाद्गुण्यमुपैत्यसाध्य: ॥१२॥
स्वेदोऽङ्गगन्ध: शिथिलाङ्गता च
शय्यासनस्वप्नसुखे रतिश्च।
हृन्नेत्रजिह्वाश्रवणोपदेहो
घनाङ्गता केशनखातिवृद्धि: ॥१३॥
शीतप्रियत्वं गलतालुशोषो
माधुर्यमास्ये करपाददाह: ।
भविष्यतो मेहगदस्य रूपं
मूत्रेऽभिधावन्ति पिपीलिकाश्च ॥१४॥
स्थूल: प्रमेही बलवानिहैक:
कृशस्तथैक: परिदुर्बलश्च ।
संबृंहणं तत्र कृशस्य कार्यं
संशोधनं दोषबलाधिकस्य ॥१५॥
स्निग्धस्य योगा विविधा: प्रयोज्या:
कल्पोपदिष्टा मलशोधनाय ।
ऊर्ध्वं तथाऽधश्च मलेऽपनीते
मेहेषु संतर्पणमेव कार्यम् ॥१६॥
गुल्म: क्षयो मेहनबस्तिशूलं
मूत्रग्रहश्चाप्यपतर्पणेन ।
प्रमेहिण: स्यु:, परितर्पणानि
कार्याणि तस्य प्रसमीक्ष्य वह्निम् ॥१७॥
संशोधनं नार्हति य: प्रमेही
तस्य क्रिया संशमनी प्रयोज्या ।
मन्था: कषाया यवचूर्णलेहा:
प्रमेहशान्त्यै लघवश्च भक्ष्या: ॥१८॥
ये विष्किरा ये प्रतुदा विहङ्गास्तेषां रसैर्जाङ्गलजैर्मनोज्ञै: ।
यवौदनं रूक्षमथापि वाट्यमद्यात् ससक्तूनपि चाप्यपूपान् ॥१९॥
मुद्नादियूषैरथ तिक्तशाकै:
पुराणशाल्योदनमाददीत ।
दन्तीङ्गुदीतैलयुतं प्रमेही
तथाऽतसीसर्षपतैलयुक्तम् ॥२०॥
सषष्टिकं स्यात्तृणधान्यमन्नं
यवप्रधानस्तु भवेत् प्रमेही ।
यवस्य भक्ष्यान् विविधांस्तथाऽद्यात्
कफप्रमेही मधुसंप्रयुक्तान् ॥२१॥
निशिस्थितानां त्रिफलाकषाये
स्युस्तर्पणा: क्षौद्रयुता यवानाम् ।
तान् सीधुयुक्तान् प्रपिबेत् प्रमेही
प्रायोगिकान्मेहवधार्थमेव ॥२२॥
ये श्लेष्ममेहे विहिता: कषायास्तैर्भावितानां च पृथग्यवानाम् ।
सक्तूनपूपान् सगुडान् सधानान्
भक्ष्यांस्तथाऽन्यान् विविधाश्चं खादेत् ॥२३॥
खराश्वगोहंसपृषद्भृतानां
तथा यवानां विविधाश्च भक्ष्या: ।
देयास्तथा वेणुयवा यवानां
कल्पेन गोधूममयाश्च भक्ष्या: ॥२४॥
संशोधनोल्लेखनलङ्घनानि
काले प्रयुक्तानि कफप्रमेहान् ।
जयन्ति पित्तप्रभवान् विरेक:
संतर्पण: संशमनो विधिश्च ॥२५॥
दार्वीं सुराह्वां त्रिफलां समुस्तां
कषायमुत्क्वाथ्य पिबेत् प्रमेही ।
क्षौद्रेण युक्तामथवा हरिद्रां
पिबेद्रसेनामलकीफलानाम् ॥२६॥
हरीतकीकट्फलमुस्तलोध्रं
पाठाविडङ्गार्जुनधन्वनाश्च ।
उभे हरिद्रे तगरं विडङ्गं
कदम्बशालार्जुनदीप्यकाश्च ॥२७॥
दार्वी विडङ्गं खदिरो धवश्च
सुराह्वकुष्ठागुरुचन्दनानि ।
दार्व्याग्निमन्थौ त्रिफला सपाठा
पाठा च मूर्वा च तथा श्वदंष्ट्रा ॥२८॥
यवान्युशीराण्यभयागुडूचीचव्याभयाचित्रकसप्तपर्णा: ।
पादै: कषाया: कफमेहिनां ते
दशोपदिष्टा मधुसंप्रयुक्ता: ॥२९॥
उशीरलोध्राञ्जनचन्दनानामुशीरमुस्तामलकाभयानाम् ।
पटोलनिम्बामलकामृतानां
मुस्ताभयापद्मकवृक्षकाणाम् ॥३०॥
लोध्राम्बुकालीयकधातकीनां
निम्बार्जुनाम्रातनिशोत्पलानाम् ।
शिरीषसर्जार्जुनकेशराणां
प्रियङ्गुपद्मोत्पलकिंशुकानाम् ॥३१॥
अश्वत्थपाठासनवेतसानां
कटङ्कटेर्युत्पलमुस्तकानाम् ।
पैत्तेषु मेहेषु दश प्रदिष्टा:
पादै: कषाया मधुसंप्रयुक्ता: ॥३२॥
सर्वेषु मेहेषु मतौ तु पूर्वौ
कषाययोगौ विहितास्तु सर्वे ।
मन्थस्य पाने यवभावनायां
स्युर्भोजने पानविधौ पृथक् च ॥३३॥
सिद्धानि तैलानि घृतानि चैव
देयानि मेहेष्वनिलात्मकेषु ।
मेद: कफश्चैव कषाययोगै:
स्नेहैश्च वायु:शममेति तेषाम् ॥३४॥
कम्पिल्लसप्तच्छदशालजानि
बैभीतरौहीतककौटजानि ।
कपित्थपुष्पाणि च चूर्णितानि
क्षौद्रेण लिह्यात् कफपित्तमेही ॥३५॥
पिबेद्रसेनामलकस्य चापि
कल्कीकृतान्यक्षसमानि काले ।
जीर्णे च भुञ्जीत पुराणमन्नं
मेही रसैर्जाङ्गलजैर्मनोज्ञै: ॥३६॥
दृष्ट्वाऽनुबन्धं पवनात् कफस्य
पित्तस्य वा स्नेहविधिर्विकल्प्य: ।
तैलं कफे स्यात् स्वकषायसिद्धं
पित्ते घृतं पित्तहरै: कषायै: ॥३७॥
त्रिकण्टकाश्मन्तकसोमवल्कैर्भल्लातकै: सातिविषै: सलोध्रै: ।
वचापटोलार्जुननिम्बमुस्तैर्हरिद्रया पद्मकदीप्यकैश्च॥३८॥
मञ्जिष्ठया चागुरुचन्दनैश्च
सर्वै: समस्तै: कफवातजेषु ।
मेहेषु तैलं विपचेद्, घृतं तु
पैत्तेषु, मिश्रं त्रिषु लक्षणेषु ॥३९॥
फलत्रिकं दारुनिशां विशालां
मुस्तां च नि:क्वाथ्य निशां सकल्काम् ।
पिबेत् कषायं मधुसंप्रयुक्तं
सर्वप्रमेहेषु समुद्धतेषु ॥४०॥
लोध्रं शटीं पुष्करमूलमेलां
मूर्वां विडङ्गं त्रिफलां यमानीम् ।
चव्यं प्रियङ्गुं क्रमुकं विशालां
किराततिक्तं कटुरोहिणीं च ॥४१॥
भार्ङ्गी नतं चित्रकपिप्पलीनां
मूलं सकुष्ठातिविषं सपाठम् ।
कलिङ्गकान् केशरमिन्द्रसाह्वां
नखं सपत्रं मरिचं प्लवं च ॥४२॥
द्रोणेऽम्भस: कर्षसमानि पक्त्वा
पूते चतुर्भागजलावशेषे
रसेऽर्धभागं मधुन: प्रदाय
पक्षं निधेयो घृतभाजनस्थ: ॥४३॥
मध्वासवोऽयं कफपित्तमेहान्
क्षिप्रं निहन्याद्द्विपलप्रयोगात् ।
पाण्ड्वामयार्शांस्यरुचिं ग्रहण्या
दोषं किलासं विविधं च कुष्ठम् ॥४४॥
इति मध्वासव: ।
क्वाथ: स एवाष्टपलं च दन्त्या
भल्लातकानां च चतुष्पलं स्यात् ।
सितोपला त्वष्टपला विशेष:
क्षौद्रं च तावत् पृथगासवौ तौ ॥४५॥
सारोदकं वाऽथ कुशोदकं वा
मधूदकं वा त्रिफलारसं वा ।
सीधुं पिबेद्वा निगदं प्रमेही
माध्वीकमग्र्यं चिरसंस्थितं वा ॥४६॥
मांसानि शूल्यानि मृगद्विजानां
खादेद्यवानां विविधांश्च भक्ष्यान् ।
संशोधनारिष्टकषायलेहै:
संतर्पणोत्थाञ् शमयेत् प्रमेहान् ॥४७॥
भृष्टान् यवान् भक्षयत: प्रयोगाच्छुष्कांश्च सक्तून्न भवन्ति मेहा: ।
श्वित्रं कृच्छ्रं कफजं च कुष्ठं
तथैव मुद्नामलकप्रयोगान् ॥४८॥
संतर्पणोत्थेषु गदेषु योगा
मेदस्विनां ये च मयोपदिष्टा: ।
विरूक्षणार्थं कफपित्तजेषु
सिद्धा: प्रमेहेष्वपि ते प्रयोज्या: ॥४९॥
व्यायामयोगैर्विविधै: प्रगाढैरुद्वर्तनै: स्नानजलावसेकै: ।
सेव्यत्वगेलागुरुचन्दनाद्यैर्विलेपनैश्चाशु न सन्ति मेहा: ॥५०॥
क्लेदश्च मेदश्च कफश्च वृद्ध:
प्रमेहहेतु: प्रसमीक्ष्य तस्मात् ।
वैद्येन पूर्वं कफपित्तजेषु
मेहेषु कार्याण्यपतर्पणनि ॥५१॥
या वातमेहान् प्रति पूर्वमुक्ता
वातोल्बणानां विहिता क्रिया सा ।
वायुर्हि मेहेष्वतिकर्शितानां
कुप्यत्यसाध्यान् प्रति नास्ति चिन्ता ॥५२॥
यैर्हेतुभिर्ये प्रभवन्ति मेहास्तेषु प्रमेहेषु न ते निषेव्या: ।
हेतोरसेवा विहिता यथैव
जातस्य रोगस्य भवेच्चिकित्सा ॥५३॥
हारिद्रवर्णं रुधिरं च मूत्रं
विना प्रमेहस्य हि पूर्वरूपै: ।
यो मूत्रयेत्तं न वदेत् प्रमेहं
रक्तस्य पित्तस्य हि स प्रकोप: ॥५४॥
दृष्ट्वा प्रमेहं मधुरं सपिच्छं
मधूपमं स्याद्द्विधो विचार: ।
क्षीणेषु दोषेष्वनिलात्मक: स्यात्
संतर्पणाद्वा कफसंभव: स्यात् ॥५५॥
सपूर्वरूपा: कफपित्तमेहा:
क्रमेण ये वातकृताश्च मेहा: ।
साध्या न ते, पित्तकृतास्तु याप्या:,
साध्यास्तु मेदो यदि न प्रदुष्टम् ॥५६॥
जात: प्रमेही मधुमेहिनो वा
न साध्य उक्त: स हि बीजदोषात् ।
ये चापि केचित् कुलजा विकारा
भवन्ति तांश्च प्रवदन्त्यसाध्यान् ॥५७॥
प्रमेहिणां या: पिडका मयोक्ता
रोगाधिकारे पृथगेव सप्त ।
ता: शल्यविद्भि: कुशलैश्चिकित्स्या:
शस्त्रेण संशोधनरोपणैश्च ॥५८॥
तत्र श्लोका:–
हेतुर्दोषो दूष्यं मेहानां साध्यतानुरूपश्च।
मेही द्विविधस्त्रिविधं भिषग्जितमतिक्षपणदोष: ॥
आद्या यवान्नविकृतिर्मन्था मेहापहा: कषायाश्च ।
तैलघृतलेहयोगा भक्ष्या: प्रवरासवा: सिद्धा: ॥६०॥
व्यायामविधिर्विविध: स्नानान्युद्वर्तनानि गन्धाश्च ।
मेहानां प्रशमार्थं चिकित्सिते दिष्टमेतावत् ॥६१॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने प्रमेहचिकित्सितं नाम षष्ठोऽध्याय: ॥६॥
Last updated on June 18th, 2021 at 11:40 am