Skip to content

06. दुन्दुभिस्वनीयकल्पः – कल्प – सु.”

सुश्रुतसंहिता ।

अथ कल्पस्थानम्‌ ।

षष्ठोऽध्यायः ।

अथातो दुन्दुभिस्वनीयं कल्पं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

धवाश्वकर्णशिरीषतिनिशपलाशपिचुमर्दपाटलिपारिभद्रकाम्रोदुम्बरकरहाटकार्जुनककुभसर्ज- कपीतनश्लेष्मातकाङ्कोठामलकप्रग्रहकुटजशमीकपित्थाश्मन्तकार्कचिरबिल्वमहावृक्षारुष्करारलु- मधुकमधुशिग्रुशाकगोजीमूर्वाभूर्जतिल्वकेक्षुरकगोपघोण्टारिमेदानां भस्मान्याहृत्य गवां मूत्रेण क्षारकल्पेन परिस्राव्य विपचेत्, दद्याच्चात्र पिप्पलीमूलतण्डुलीयकवराङ्गचोचमञ्जिष्ठाकरञ्जिकाहस्तिपिप्पलीमरिचविडङ्गगृहधूमानन्ता- सोमसरलाबाह्लीकगुहाकोशाम्रश्वेतसर्षपवरुणलवणप्लक्षनिचुलकवञ्जुलवक्रालवर्धमानपुत्रश्रेणी- सप्तपर्णटुण्टुकैलवालुकनागदन्त्यतिविषाभयाभद्रदारुकुष्ठहरिद्रावचाचूर्णानि लोहानां च समभागानि, ततः क्षारवदागतपाकमवतार्य लोहकुम्भे निदध्यात् ||३||

अनेन दुन्दुभिं लिम्पेत् पताकां तोरणानि च |

श्रवणाद्दर्शनात् स्पर्शात् विषात् सम्प्रतिमुच्यते ||४||

एष क्षारागदो नाम शर्करास्वश्मरीषु च |

अर्शःसु वातगुल्मेषु कासशूलोदरेषु च ||५||

अजीर्णे ग्रहणीदोषे भक्तद्वेषे च दारुणे |

शोफे सर्वसरे चापि देयः श्वासे च दारुणे ||६||

सदा सर्वविषार्तानां सर्वथैवोपयुज्यते |

एष तक्षकमुख्यानामपि दर्पाङ्कुशोऽगदः ||७||

विडङ्गत्रिफलादन्तीभद्रदारुहरेणवः |

तालीशपत्रमञ्जिष्ठाकेशरोत्पलपद्मकम् ||८||

दाडिमं मालतीपुष्पं रजन्यौ सारिवे स्थिरे |

प्रियङ्गुस्तगरं कुष्ठं बृहत्यौ चैलवालुकम् ||९||

सचन्दनगवाक्षीभिरेतैः सिद्धं विषापहम् |

सर्पिः कल्याणकं ह्येतद्ग्रहापस्मारनाशनम् ||१०||

पाण्ड्वामयगरश्वासमन्दाग्निज्वरकासनुत् |

शोषिणामल्पशुक्राणां वन्ध्यानां च प्रशस्यते ||११||

अपामार्गस्य बीजानि शिरीषस्य च माषकान् |

श्वेते द्वे काकमाचीं च गवां मूत्रेण पेषयेत् ||१२||

सर्पिरेतैस्तु संसिद्धं विषसंशमनं परम् |

अमृतं नाम विख्यातमपि सञ्जीवयेन्मृतम् ||१३||

चन्दनागुरुणी कुष्ठं तगरं तिलपर्णिकम् |

प्रपौण्डरीकं नलदं सरलं देवदारु च ||१४||

भद्रश्रियं यवफलां भार्गी नीलीं सुगन्धिकाम् |

कालेयकं पद्मकं च मधुकं नागरं जटाम् ||१५||

पुन्नागैलैलवालूनि गैरिकं ध्यामकं बलाम् |

तोयं सर्जरसं मांसीं शतपुष्पां हरेणुकाम् ||१६||

तालीशपत्रं क्षुद्रैलां प्रियङ्गुं सकुटन्नटम् |

शिलापुष्पं सशैलेयं पत्रं कालानुसारिवाम् ||१७||

कटुत्रिकं शीतशिवं काश्मर्यं कटुरोहिणीम् |

सोमराजीमतिविषां पृथ्विकामिन्द्रवारुणीम् ||१८||

उशीरं वरुणं मुस्तं कुस्तुम्बुरु नखं तथा |

श्वेते हरिद्रे स्थौणेयं लाक्षां च लवणानि च ||१९||

कुमुदोत्पलपद्मानि पुष्पं चापि तथाऽर्कजम् |

चम्पकाशोकसुमनस्तिल्वकप्रसवानि च ||२०||

पाटलीशाल्मलीशैलुशिरीषाणां तथैव च |

कुसुमं तृणमूल्याश्च सुरभीसिन्धुवारजम् ||२१||

धवाश्वकर्णपार्थानां पुष्पाणि तिनिशस्य च |

गुग्गुलुं कुङ्कुमं बिम्बीं सर्पाक्षीं गन्धनाकुलीम् ||२२||

एतत् सम्भृत्य सम्भारं सूक्ष्मचूर्णानि कारयेत् |

गोपित्तमधुसर्पिर्भिर्युक्तं शृङ्गे निधापयेत् ||२३||

भग्नस्कन्धं विवृताक्षं मृत्योर्दंष्ट्रान्तरं गतम् |

अनेनागदमुख्येन मनुष्यं पुनराहरेत् ||२४||

एषोऽग्निकल्पं दुर्वारं क्रुद्धस्यामिततेजसः |

विषं नागपतेर्हन्यात् प्रसभं वासुकेरपि ||२५||

महासुगन्धिनामाऽयं पञ्चाशीत्यङ्गसंयुतः |

राजाऽगदानां सर्वेषां राज्ञो हस्ते भवेत् सदा ||२६||

स्नातानुलिप्तस्तु नृपो भवेत् सर्वजनप्रियः |

भ्राजिष्णुतां च लभते शत्रुमध्यगतोऽपि सन् ||२७||

उष्णवर्ज्यो विधिः कार्यो विषार्तानां विजानता |

मुक्त्वा कीटविषं तद्धि शीतेनाभिप्रवर्धते ||२८||

अन्नपानविधावुक्तमुपधार्य शुभाशुभम् |

शुभं देयं विषार्तेभ्यो विरुद्धेभ्यश्च वारयेत् ||२९||

फाणितं शिग्रुसौवीरमजीर्णाध्यशनं तथा |

वर्जयेच्च समासेन नवधान्यादिकं गणम् ||३०||

दिवास्वप्नं व्यवायं च व्यायामं क्रोधमातपम् |

सुरातिलकुलत्थांश्च वर्जयेद्धि विषातुरः ||३१||

प्रसन्नदोषं प्रकृतिस्थधातुमन्नाभिकाङ्क्षं समसूत्रजिह्वम् |

प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ||३२||

इति सुश्रुतसंहितायां कल्पस्थाने दुन्दुभिस्वनीयकल्पो नाम षष्ठोऽध्यायः ||६||

Last updated on July 8th, 2021 at 10:54 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English