चरकसंहिता
निदानस्थानम् ।
चतुर्थोऽध्याय: ।
अथात: प्रमेहनिदानं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
त्रिदोषकोपनिमित्ता विंशति: प्रमेहा भवन्तिविकाराश्चापरेऽपरिसंख्येया: । तत्र यथा त्रिदोषप्रकोप: प्रमेहानभिनिर्वर्तयति तथाऽनुव्याख्यास्याम: ॥३॥
इह खलु निदानदोषदूष्यविशेषेभ्यो विकारविघातभावाभावप्रतिविशेषा भवन्ति । यदा ह्येते त्रयो निदानादिविशेषा: परस्परं नानुबध्नन्त्यथवा कालप्रकर्षादबलीयांसोऽथवाऽनुबध्नन्ति न तदा विकाराभिनिर्वृत्ति:, चिराद्वाऽप्यभिनिर्वर्तन्ते, तनवो वा भवन्त्ययथोक्तसर्वलिङ्गा वा, विपर्यये विपरीता:, इति सर्वविकारविघातभावाभावप्रतिविशेषाभिनिर्वृत्तिहेतुर्भवत्युक्त: ॥४॥
तत्रेमे त्रयो निदानादिविशेषा: श्लेष्मनिमित्तानां प्रमेहाणामाश्वभिनिर्वृत्तिकरा भवन्ति, तद्यथा– हायनकयवकचीन- कोद्दालकनैषधेत्कटमुकुन्दकमहाव्रीहिप्रमोदकसुगन्धकानां नवानामतिवेलमतिप्रमाणेन चोपयोग:, तथा सर्पिष्मतां नवहरेणुमाष- सूप्यानां, ग्राम्यानूपौदकानां च मांसानां, शाकतिलपललपिष्टान्नपायसकृशराविलेपीक्षुविकाराणां, क्षीरनवमद्यमन्दकदधिद्रवमधुरतरुण- प्रायाणां चोपयोग:, मृजाव्यायामवर्जनं, स्वप्नशयनासनप्रसङ्ग:, यश्च कश्चिद्विधिरन्योऽपि श्लेष्ममेदोमूत्रसंजनन:, स सर्वो निदानविशेष: ॥५॥
बहुद्रव: श्लेष्मा दोषविशेष: ॥६॥
बह्वबद्धं मेदो मांसं शरीरजक्लेद: शुक्रं शोणितं वसा मज्जा लसीका रसश्चौज:संख्यात इति दूष्य विशेषा: ॥७॥
त्रयाणामेषां निदानादिविशेषाणां सन्निपाते क्षिप्रं श्लेष्मा प्रकोपमापद्यते, प्रागतिभूयस्त्वात्, स प्रकुपित: क्षिप्रमेव शरीरे विसृप्तिं लभते, शरीरशैथिल्यात्, स विसर्पञ् शरीरे मेदसैवादितो मिश्रीभावं गच्छति, मेदसश्चैव बह्वबद्धत्वान्मेदसश्च गुणै: समानगुणभूयिष्ठत्वात्, स मेदसा मिश्रीभवन् दूषयत्येनत्, विकृतत्वात्, स विकृतो दुष्टेन मेदसोपहित: शरीरक्लेदमांसाभ्यां संसर्गं गच्छति, क्लेदमांसयोरतिप्रमाणाभिवृद्धत्वात्, स मांसे मांसप्रदोषात् पूतिमांसपिडका: शराविकाकच्छपिकाद्या: संजनयति, अप्रकृतिभूतत्वात्, शरीरक्लेदं पुनर्दूषयन् मूत्रत्वेन परिणमयति, मूत्रवहानां च स्रोतसां वङ्क्षणबस्तिप्रभवाणां मेद:क्लेदोपहितानि गुरूणि मुखान्यासाद्य प्रतिरुध्यते, तत: प्रमेहांस्तेषां स्थैर्यमसाध्यतां वा जनयति, प्रकृतिविकृतिभूतत्वात् ॥८॥
शरीरक्लेदस्तु श्लेष्ममेदोमिश्र: प्रविशन् मूत्राशयं मूत्रत्वमापद्यमान: श्लैष्मिकैरेभिर्दशभिर्गुणैरुपसृज्यते वैषम्ययुक्तै:, तद्यथा– श्वेतशीतमूर्तपिच्छिलाच्छस्निग्धगुरुमधुरसान्द्रप्रसादमन्दै:, तत्र येन गुणेनैकेनानेकेन वा भूयस्तरमुपसृज्यते तत्समाख्यं गौणं नामविशेषं प्राप्नोति ॥९॥
ते तु खल्विमे दश प्रमेहा नामविशेषेण भवन्ति, तद्यथा-उदकमेहश्च, इक्षुवालिकारसमेहश्च, सान्द्रमेहश्च, सान्द्रप्रसादमेहश्च, शुक्लमेहश्च, शुक्रमेहश्च, शीतमेहश्च, सिकतामेहा, शनैर्मेहा, आलालमेहश्चेति ॥१०॥
ते दश प्रमेहा: साध्या: समानगुणमेद:स्थानकत्वात् कफस्य प्राधान्यात् समक्रियत्वाच्च ॥११॥
तत्र श्लोका: श्लेष्मप्रमेहविशेषविज्ञानार्था भवन्ति–॥१२॥
अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम् ।
श्लेष्मकोपान्नरो मूत्रमुदमेही प्रमेहति ॥१३॥
अत्यर्थमधुरं शीतमीषत्पिच्छिलमाविलम् ।
काण्डेक्षुरससङ्काशं श्लेष्मकोपात् प्रमेहति ॥१४॥
यस्य पर्युषितं मूत्रं सान्द्रीभवति भाजने ।
पुरुषं कफकोपेन तमाहु: सान्द्रमेहिनम् ॥१५॥
यस्य संहन्यते मूत्रं किंचित् किंचित् प्रसीदति ।
सान्द्रप्रसादमेहीति तमाहु: श्लेष्मकोपत: ॥१६॥
शुक्लं पिष्टनिभं मूत्रमभीक्ष्णं य: प्रमेहति ।
पुरुषं कफकोपन तमाहु: शुक्लमेहिनम् ॥१७॥
शुक्राभं शुक्रमिश्रं वा मुहुर्मेहति यो नर: ।
शुक्रमेहिनमाहुस्तं पुरुषं श्लेष्मकोपत: ॥१८॥
अत्यर्थमधुरं शीतं मूत्रं मेहति यो भृशम् ।
शीतमेहिनमाहुस्तं पुरुषं श्लेष्मकोपत: ॥१९॥
मूर्तान्मूत्रगतान् दोषानणून्मेहति यो नर: ।
सिकतामेहिनं विद्यात्तं नरं श्लेष्मकोपत: ॥२०॥
मन्दं मन्दमवेगं तु कृच्छ्रं यो मूत्रयेच्छनै: ।
शनैर्मेहिनमाहुस्तं पुरुषं श्लेष्मकोपत: ॥२१॥
तन्तुबद्धमिवालालं पिच्छिलं य: प्रमेहति ।
आलालमेहिनं विद्यात्तं नरं श्लेष्मकोपत: ॥२२॥
इत्येते दश प्रमेहा: श्लेष्मप्रकोपनिमित्ता व्याख्याता भवन्ति ॥२३॥
उष्णाम्ललवणक्षारकटुकाजीर्णभोजनोपसेविनस्तथाऽतितीक्ष्णातपाग्निसंतापश्रमक्रोधविषमाहारोपसेविनश्च तथाविधशरीरस्यैव क्षिप्रं पित्तं प्रकोपमापद्यते, तत्तु प्रकुपितं तयैवानुपूर्व्या प्रमेहानिमान् षट् क्षिप्रतरमभिनिर्वर्तयति ॥२४॥
तेषामपि तु खलु पित्तगुणविशेषेणैव नामविशेषा भवन्ति, तद्यथा–क्षारमेहश्च, कालमेहश्च, नीलमेहश्च, लोहितमेहश्च, माञ्जिष्ठमेहश्च, हारिद्रमेहश्चेति ॥२५॥
ते षड्भिरेव क्षाराम्ललवणकटुकविस्रोष्णै: पित्तगुणै: पूर्ववद्युक्ता भवन्ति ॥२६॥
सर्व एव ते याप्या: संसृष्टदोषमेद:स्थानत्वाद्विरुद्धोपक्रमत्वाच्चेति ॥२७॥
तत्र श्लोका: पित्तप्रमेहविशेषविज्ञानार्था भवन्ति–॥२८॥
गन्धवर्णरसस्पर्शैर्यथा क्षारस्तथाविधम् ।
पित्तकोपान्नरो मूत्रं क्षारमेही प्रमेहति ॥२९॥
मसीवर्णजस्रं यो मूत्रमुष्णं प्रमेहति ।
पित्तस्य परिकोपेण तं विद्यात् कालमेहिनम् ॥३०॥
चाषपक्षनिभं मूत्रमम्लं मेहति यो नर: ।
पित्तस्य परिकोपेण तं विद्यान्नीलमेहिनम् ॥३१॥
विस्रं लवणमुष्णं च रक्तं मेहति यो नर: ।
पित्तस्य परिकोपेण तं विद्याद्रक्तमेहिनम् ॥३२॥
मञ्जिष्ठोदकसंकाशं भृशं विस्रं प्रमेहति ।
पित्तस्य परिकोपात्तं विद्यान्माञ्जिष्ठमेहिनम् ॥३३॥
हरिद्रोदकसङ्काशं कटुकं य: प्रमेहति ।
पित्तस्य परिकोपात्तं विद्याद्धारिद्रमेहिनम् ॥३४॥
इत्येते षट् प्रमेहा: पित्तप्रकोपनिमित्ता व्याख्याता भवन्ति ॥३५॥
कषायकटुतिक्तरूक्षलघुशीतव्यवायव्यायामवमनविरेचनास्थापनशिरोविरेचनातियोगसंधारणानशनाभिघातातपोद्वेगशोकशोणितातिषेकजागरणविषमशरीरन्यासानुपसेवमानस्य तथाविधशरीरस्यैव क्षिप्रं वात: प्रकोपमापद्यते ॥३६॥
स प्रकुपितस्तथाविधे शरीरे विसर्पन् यदा वसामादाय मूत्रवहानि स्रोतांसि प्रतिपद्यते तदा वसामेहमभिनिर्वर्तयति, यदा पुनर्मज्जानं मूत्रबस्तावाकर्षति तदा मज्जमेहमभिनिर्वर्तयति, यदा तु लसीकां मूत्राशयेऽभिवहन्मूत्रमनुबन्धं च्योतयति लसीकाति बहुत्वाद्विक्षेपणाच्च वायो: खल्वस्यातिमूत्रप्रवृत्तिसङ्गं करोति, तदा स मत्त इव गज: क्षरत्यजस्रं मूत्रमवेगं, तं हस्तिमेहिनमाचक्षते, ओज: पुनर्मधुरस्वभावं, तद् यदा रौक्ष्याद्वायु: कषायत्वेनाभिसंसृज्य मूत्राशयेऽभिवहति तदा मधुमेहं करोति ॥३७॥
इमाश्चंतुर: प्रमेहान् वातजानसाध्यानाचक्षते भिषज:, महात्ययिकत्वाद्विरुद्धोपक्रमत्वाच्चेति ॥३८॥
तेषामपि पूर्ववद्गुणविशेषेण नामविशेषा भवन्ति, तद्यथा–वसामेहश्च, मज्जमेहश्च, हस्तिमेहश्च, मधुमेहश्चेति ॥३९॥
तत्र श्लोका वातप्रमेहविशेषविज्ञानार्था भवन्ति–॥४०॥
वसामिश्रं वसाभं वा मुहुर्मेहति यो नर: ।
वसामेहिनमाहुस्तमसाध्यं वातकोपत: ॥४१॥
मज्जानं सह मूत्रेण मुहुर्मेहति यो नर: ।
मज्जमेहिनमाहुस्तमसाध्यं वातकोपत: ॥४२॥
हस्ती मत्त इवाजस्रं मूत्रं क्षरति यो भृशम् ।
हस्तिमेहिनमाहुस्तमसाध्यं वातकोपत: ॥४३॥
कषायमधुरं पाण्डु रूक्षं मेहति यो नर: ।
वातकोपादसाध्यं तं प्रतीयान्मधुमेहिनम् ॥४४॥
इत्येते चत्वार: प्रमेहा वातप्रकोपनिमित्ता व्याख्याता भवन्ति ॥४५॥
एवं त्रिदोषप्रकोपनिमित्ता विंशति: प्रमेहा व्याख्याता भवन्ति ॥४६॥
त्रयस्तु खलु दोषा: प्रकुपिता: प्रमेहानभिनिर्वर्तयिष्यन्त इमानि पूर्वरूपाणि दर्शयन्ति, तद्यथा- जटिलीभावं केशेषु, माधुर्यमास्यस्य, करपादयो: सुप्ततादाहौ, मुखतालुकण्ठशोषं, पिपासाम्, आलस्यं, मलं काये, कायच्छिद्रेषूपदेहं, परिदाहं सुप्ततां चाङ्गेषु, षट्पदपिपीलिकाभिश्च शरीरमूत्राभिसरणं, मूत्रे च मूत्रदोषान्, विस्रं शरीरगन्धं, निद्रां, तन्द्रां च सर्वकालमिति ॥४७॥
उपद्रवास्तु खलु प्रमेहिणां तृष्णातीसारज्वरदाहदौर्बल्यारोचकाविपाका: पूतिमांसपिडकालजीविद्रध्यादयश्च तत्प्रसङ्गाद्भवन्ति ॥४८॥
तत्र साध्यान् प्रमेहान् संशोधनोपशमनैर्यथार्हमुपपादयंश्चिकित्सेदिति ॥४९॥
भवन्ति चात्र–
गृध्नुमभ्यवहार्येषु स्नानचङ्क्रमणद्विषम् ।
प्रमेह: क्षिप्रमभ्येति नीडद्रुममिवाण्डज: ॥५०॥
मन्दोत्साहमतिस्थूलमतिस्निग्धं महाशनम् ।
मृत्यु: प्रमेहरूपेण क्षिप्रमादाय गच्छति ॥५१॥
यस्त्वाहारं शरीरस्य धातुसाम्यकरं नर: ।
सेवते विविधाश्चान्याश्चेष्टा: स सुखमश्नुते ॥५२॥
तत्र श्लोका: —
हेतुर्व्याधिविशेषाणां प्रमेहाणां च कारणम् ।
दोषधातुसमायोगो रूपं विविधमेव च ॥५३॥
दश श्लेष्मकृता यस्मात् प्रमेहा: षट् च पित्तजा: ।
यथा च वायुश्चतुर: प्रमेहान् कुरुते बली ॥५४॥
साध्यासाध्यविशेषाश्च पूर्वरूपाण्युपद्रवा: ।
प्रमेहाणां निदानेऽस्मिन् क्रियासूत्रं च भाषितम् ॥५५॥
इत्याग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने प्रमेहनिदानं नाम चतुर्थोऽध्याय ॥४॥
Last updated on June 4th, 2021 at 11:18 am