सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
तृतीयोऽध्यायः ।
अथातो वर्त्मगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
पृथग्दोषाः समस्ता वा यदा वर्त्मव्यपाश्रयाः |
सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः ||३||
विवर्ध्य मांसं रक्तं च तदा वर्त्मव्यपाश्रयान् |
विकाराञ्जनयन्त्याशु नामतस्तान्निबोधत ||४||
उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा |
तथाऽर्शोवर्त्म शुष्कार्शस्तथैवाञ्जननामिका ||५||
बहलं वर्त्म यच्चापि व्याधिर्वर्त्मावबन्धकः |
क्लिष्टकर्दमवर्त्माख्यौ श्याववर्त्म तथैव च ||६||
प्रक्लिन्नमपरिक्लिन्नं वर्त्म वातहतं तु यत् |
अर्बुदं निमिषश्चापि शोणितार्शश्च यत् स्मृतम् ||७||
लगणो बिशनामा च पक्ष्मकोपस्तथैव च |
एकविंशतिरित्येते विकारा वर्त्मसंश्रयाः ||८||
नामभिस्ते समुद्दिष्टालक्षणैस्तान् प्रचक्ष्महे |
अभ्यन्तरमुखी बाह्योत्सङ्गेऽधो वर्त्मनश्च या ||९||
विज्ञेयोत्सङ्गिनी नाम तद्रूपपिडकाचिता |
कुम्भीकबीजप्रतिमाः पिडका यास्तु वर्त्मजाः ||१०||
आध्मापयन्ति भिन्ना याः कुम्भीकपिडकास्तु ताः |
स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः |
पिडकाश्च रुजावत्यः पोथक्य इति सञ्ज्ञिताः ||११||
पिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता |
पिडका या खरा स्थूला सा ज्ञेया वर्त्मशर्करा ||१२||
एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः |
सूक्ष्माः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीर्त्यते ||१३||
दीर्घोऽङ्कुरः खरः स्तब्धो दारुणो वर्त्मसम्भवः |
व्याधिरेष समाख्यातः शुष्कार्श इति सञ्ज्ञितः ||१४||
दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा |
मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका ||१५||
वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः |
सवर्णाभिः समाभिश्च विद्याद्बहलवर्त्म तत् ||१६||
कण्डूमताऽल्पतोदेन वर्त्मशोफेन यो नरः |
न समं छादयेदक्षि भवेद्बन्धः स वर्त्मनः ||१७||
मृदल्पवेदनं ताम्रं यद्वर्त्म सममेव च |
अकस्माच्च भवेद्रक्तं क्लिष्टवर्त्म तदादिशेत् ||१८||
क्लिष्टं पुनः पित्तयुतं विदहेच्छोणितं यदा |
तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः ||१९||
यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम् |
दाहकण्डूपरिक्लेदि श्याववर्त्मेति तन्मतम् ||२०||
अरुजं बाह्यतः शूनमन्तः क्लिन्नं स्रवत्यपि |
कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म तदुच्यते ||२१||
यस्य धौतानि धौतानि सम्बध्यन्ते पुनः पुनः |
वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत् ||२२||
विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते |
एतद्वातहतं विद्यात् सरुजं यदि वाऽरुजम् ||२३||
वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम् |
विज्ञेयमर्बुदं पुंसां सरक्तमवलम्बितम् ||२४||
निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः |
चालयत्यति वर्त्मानि निमेषः स गदो मतः ||२५||
छिन्नाश्छिन्ना विवर्धन्ते वर्त्मस्था मृदवोऽङ्कुराः |
दाहकण्डूरुजोपेतास्तेऽर्शः शोणितसम्भवाः ||२६||
अपाकः कठिनः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः |
सकण्डूः पिच्छिलः कोलप्रमाणो लगणस्तु सः ||२७||
शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छिद्रैः समन्वितम् |
बिसमन्तर्जल इव बिसवर्त्मेति तन्मतम् ||२८||
दोषाः पक्ष्माशयगतास्तीक्ष्णाग्राणि खराणि च |
निर्वर्तयन्ति पक्ष्माणि तैर्घुष्टं चाक्षि दूयते ||२९||
उद्धृतैरुद्धृतैः शान्तिः पक्ष्मभिश्चोपजायते |
वातातपानलद्वेषी पक्ष्मकोपः स उच्यते ||३०||
इति सुश्रुतसंहितायामुत्तरतन्त्रे वर्त्मगतरोगविज्ञानीयो नाम तृतीयोऽध्यायः ||३||
Last updated on July 8th, 2021 at 11:11 am