चरकसंहिता
इन्द्रियस्थानम् ।
तृतीयोऽध्याय: ।
अथात: परिमर्शनीयमिन्द्रियं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
वर्णे स्वरे च गन्धे च रसे चोक्तं पृथक् पृथक् ।
लिङ्गं मुमूर्षतां सम्यक् स्पर्शेष्वपि निबोधत ॥३॥
स्पर्शप्राधान्येनैवातुरस्यायुष: प्रमाणावशेषं जिज्ञासु: प्रकृतिस्थेन पाणिना शरीरमस्य केवलं स्पृशेत्, परिमर्शयेद्वाऽन्येन । परिमृशता तु खल्वातुरशरीरमिमे भावास्तत्र तत्रावबोद्धव्या भवन्ति । तद्यथा–सततं स्पन्दमानानां शरीरदेशानामस्पन्दनं, नित्योष्मणां शीतीभाव:, मृदूनां दारुणत्वं, श्लक्ष्णानां खरत्वं, सतामसद्भव:, सन्धीनां स्रंसभ्रंशच्यवनानि, मांसशोणितयोर्वीतीभाव:, दारुणत्वं, स्वेदानुबन्ध:, स्तम्भो वा, यच्चान्यदपि किञ्चिदीदृशं स्पर्शानां लक्षणं भृशविकृतमनिमित्तं स्यात् । इति लक्षणं स्पृश्यानां भावानामुक्तं समासेन ॥४॥
तद्व्यासतोऽनुव्याख्यास्याम:–तस्य चेत् परिमृश्यमानं पृथक्त्वेन पादजङ्घोरुस्फिगुदरपार्श्वपृष्ठेषिकापाणिग्रीवाताल्वोष्ठललाटं स्विन्नं शीतं स्तब्धं दारुणं वीतमांसशोणितं वा स्यात्, परासुरयं पुरुषो न चिरात् कालं मरिष्यतीति विद्यात् । तस्य चेत् परिमृश्यमानानि पृथक्त्वेन गुल्फजानुवङ्क्षणगुदवृषणमेढ्रनाभ्यंसस्तनमणिकपर्शुकाहनुनासिकाकर्णाक्षिभ्रूशङ्खादीनि स्रस्तानि व्यस्तानि च्युतानि स्थानेभ्य: स्कन्नानि वा स्यु: परासुरयं पुरुषोऽचिरात् कालं मरिष्यतीति विद्यात् ॥५॥
तथाऽस्योच्छ्वासमन्यादन्तपक्ष्मचक्षु:केशलोमोदरनखाङ्गुलीरालक्षयेत् । तस्य चेदुच्छ्वासोऽतिदीर्घोऽतिह्रस्वो वा स्यात्, परासुरिति विद्यात् । तस्य चेन्मन्ये परिमृश्यमाने न स्पन्देयातां, परासुरिति विद्यात् । तस्य चेद्दन्ता: परिकीर्णा: श्वेता जातशर्करा: स्यु:, परासुरिति विद्यात् । तस्य चेत् पक्ष्माणि जटाबद्धानि स्यु:, परासुरिति विद्यात् । तस्य चेच्चक्षुषी प्रकृतिहीने, विकृतियुक्ते — अत्युत्पिण्डिते, अतिप्रविष्टे, अतिजिह्मे, अतिविषमे, अतिमुक्तबन्धने, अतिप्रस्रुते, सततोन्मिषिते, सततनिमिषिते, निमिषोन्मेषातिप्रवृत्ते, विभ्रान्तदृष्टिके, विपरीतदृष्टिके, हीनदृष्टिके, व्यस्तदृष्टिके, नकुलान्धे, कपोतान्धे, अलातवर्णे, कृष्णपीतनीलश्यावताम्रहरितहारिद्रशुक्लवैकारिकाणां वर्णानामन्यतमेनातिप्लुते वा स्यातां, तदा परासुरिति विद्यात् । अथास्य केशलोमान्यायच्छेत्, तस्य चेत् केशलोमान्यायम्यमानानि प्रलुच्येरन् न चेद्वेदयेयुस्तं परासुरिति विद्यात् । तस्य चेदुदरे सिरा: प्रकाशेरञ् श्यावताम्रनीलहारिद्रशुक्ला वा स्यु:, परासुरिति विद्यात् । तस्य चेन्नखा वीतमांसशोणिता: पक्वजाम्बववर्णा: स्यु:, परासुरिति विद्यात् । अथास्याङ्गुलीरायच्छेत्, तस्य चेदङ्गुलय आयम्यमाना न स्फुटेयु:, परासुरिति विद्यात् ॥६॥
तत्र श्लोक:–
एतान् स्पृश्यान् बहून् भावान् य: स्पृशन्नवबुध्यते ।
आतुरे न स संमोहमायुर्ज्ञानस्य गच्छति ॥७॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते इन्द्रियस्थाने परिमर्शनीयमिन्द्रियं नाम तृतीयो ऽध्यायः ॥३॥
Last updated on June 11th, 2021 at 07:31 am