सुश्रुतसंहिता ।
अथ कल्पस्थानम् ।
तृतीयोऽध्यायः।
अथातो जङ्गमविषविज्ञानीयं कल्पं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश |
समासेन मया यानि विस्तरस्तेषु वक्ष्यते ||३||
तत्र, दृष्टिनिःश्वासदंष्ट्रानखमूत्रपुरीषशुक्रलालार्तवमुखसन्दंश- विशर्धिततुण्डास्थिपित्तशूकशवानीति ||४||
तत्र, दृष्टिनिःश्वासविषा दिव्याः सर्पाः, भौमास्तु दंष्ट्राविषाः, मार्जारश्ववानरमकरमण्डूकपाकमत्स्यगोधाशम्बूकप्रचलाकगृहगोधिकाचतुष्पादकीटास्तथाऽन्ये दंष्ट्रानखविषाः, चिपिटपिच्चिटककषायवासिकसर्षपकतोटकवर्चःकीटकौण्डिन्यकाः शकृन्मूत्रविषाः, मूषिकाः शुक्रविषाः, लूता लालामूत्रपुरीषमुखसन्दंशनखशुक्रार्तवविषाः, वृश्चिकविश्वम्भरवरटीराजीवमत्स्योच्चिटिङ्गाः समुद्रवृश्चिकाश्चाल(र)विषाः, चित्रशिरःसरावकुर्दिशतदारुकारिमेदकसारिकामुखा मुखसन्दंशविशर्धितमूत्रपुरीषविषाः, मक्षिकाकणभजलायुका मुखसन्दंशविषाः, विषहतास्थि सर्पकण्टकवरटीमत्स्यास्थि चेत्यस्थिविषाणि, शकुलीमत्स्यरक्तराजिवरकी(टी)मत्स्याश्च पित्तविषाः, सूक्ष्मतुण्डोच्चिटिङ्गवरटीशतपदीशूकवलभिकाशृङ्गिभ्रमराः शूकतुण्डविषाः, कीटसर्पदेहा गतासवः शवविषाः; शेषास्त्वनुक्ता मुखसन्दंशविषेष्वेव गणयितव्याः ||५||
भवन्ति चात्र-
राज्ञोऽरिदेशे रिपवस्तृणाम्बुमार्गान्नधूमश्वसनान् विषेण |
सन्दूषयन्त्येभिरतिप्रदुष्टान् विज्ञाय लिङ्गैरभिशोधयेत्तान् ||६||
दुष्टं जलं पिच्छिलमुग्रगन्धि फेनान्वितं राजिभिरावृतं च |
मण्डूकमत्स्यं म्रियते विहङ्गा मत्ताश्च सानूपचरा भ्रमन्ति ||७||
मज्जन्ति ये चात्र नराश्वनागास्ते छर्दिमोहज्वरदाहशोफान् |
ऋ(ग)च्छन्ति तेषामपहृत्य दोषान् दुष्टं जलं शोधयितुं यतेत ||८||
धवाश्वकर्णासनपारिभद्रान् सपाटलान् सिद्धकमोक्षकौ च |
दग्ध्वा सराजद्रुमसोमवल्कांस्तद्भस्म शीतं वितरेत् सरःसु ||९||
भस्माञ्जलिं चापि घटे निधाय विशोधयेदीप्सितमेवमम्भः |
क्षितिप्रदेशं विषदूषितं तु शिलातलं तीर्थमथेरिणं वा ||१०||
स्पृशन्ति गात्रेण तु येन येन गोवाजिनागोष्ट्रखरा नरा वा |
तच्छूनतां यात्यथ दह्यते च विशीर्यते रोमनखं तथैव ||११||
तत्राप्यनन्तां सह सर्वगन्धैः पिष्ट्वा सुराभिर्विनियोज्य मार्गम् |
सिञ्चेत् पयोभिः सुमृदन्वतैस्तं विडङ्गपाठाकटभीजलैर्वा ||१२||
तृणेषु भक्तेषु च दूषितेषु सीदन्ति मूर्च्छन्ति वमन्ति चान्ये |
विड्भेदमृच्छन्त्यथवा म्रियन्ते तेषां चिकित्सां प्रणयेद्यथोक्ताम् ||१३||
विषापहैर्वाऽप्यगदैर्विलिप्य वाद्यानि चित्राण्यपि वादयेत |
तारः सुतारः ससुरेन्द्रगोपः सर्वैश्च तुल्यः कुरुविन्दभागः ||१४||
पित्तेन युक्तः कपिलान्वयेन वाद्यप्रलेपो विहितः प्रशस्तः |
वाद्यस्य शब्देन हि यान्ति नाशं विषाणि घोराण्यपि यानि सन्ति ||१५||
धूमेऽनिले वा विषसम्प्रयुक्ते खगाः श्रमार्ताः प्रपतन्ति भूमौ |
कासप्रतिश्यायशिरोरुजश्च भवन्ति तीव्रा नयनामयाश्च ||१६||
लाक्षाहरिद्रातिविषाभयाब्दहरेणुकैलादलवक्रकुष्ठम् |
प्रियङ्गुकां चाप्यनले निधाय धूमानिलौ चापि विशोधयेत ||१७||
प्रजामिमामात्मयोनेर्ब्रह्मणः सृजतः किल |
अकरोदसुरो विघ्नं कैटभो नाम दर्पितः ||१८||
तस्य क्रुद्धस्य वै वक्त्राद्ब्रह्मणस्तेजसो निधेः |
क्रोधो विग्रहवान् भूत्वा निपपातातिदारुणः ||१९||
स तं ददाह गर्जन्तमन्तकाभं महाबलम् |
ततोऽसुरं घातयित्वा तत्तेजोऽवर्धताद्भुतम् ||२०||
ततो विषादो देवानामभवत्तं निरीक्ष्य वै |
विषादजननत्वाच्च विषमित्यभिधीयते ||२१||
ततः सृष्ट्वा प्रजाः शेषं तदा तं क्रोधमीश्वरः |
विन्यस्तवान् स भूतेषु स्थावरेषु चरेषु च ||२२||
यथाऽव्यक्तरसं तोयमन्तरीक्षान्महीगतम् |
तेषु तेषु प्रदेशेषु रसं तं तं नियच्छति ||२३||
एवमेव विषं यद्यद्द्रव्यं व्याप्यावतिष्ठते |
स्वभावादेव तं तस्य रसं समनुवर्तते ||२४||
विषे यस्माद्गुणाः सर्वे तीक्ष्णाः प्रायेण सन्ति हि |
विषं सर्वमतो ज्ञेयं सर्वदोषप्रकोपणम् ||२५||
ते तु वृत्तिं प्रकुपिता जहति स्वां विषार्दिताः |
नोपयाति विषं पाकमतः प्राणान् रुणद्धि च ||२६||
श्लेष्मणाऽऽवृतमार्गत्वादुच्छ्वासोऽस्य निरुध्यते |
विसञ्ज्ञः सति जीवेऽपि तस्मात्तिष्ठति मानवः ||२७||
शुक्रवत् सर्वसर्पाणां विषं सर्वशरीरगम् |
क्रुद्धानामेति चाङ्गेभ्यः शुक्रं निर्मन्थनादिव ||२८||
तेषां बडिशवद्दंष्ट्रास्तासु सज्जति चागतम् |
अनुद्वृत्ता विषं तस्मान्न मुञ्चन्ति च भोगिनः ||२९||
यस्मादत्यर्थमुष्णं च तीक्ष्णं च पठितं विषम् |
अतः सर्वविषेषूक्तः परिषेकस्तु शीतलः ||३०||
मन्दं कीटेषु नात्युष्णं बहुवातकफं विषम् |
अतः कीटविषे चापि स्वेदो न प्रतिषिध्यते ||३१||
कीटैर्दष्टानुग्रविषैः सर्पवत् समुपाचरेत् |
स्वभावादेव तिष्ठेत्तु प्रहारादंशयोर्विषम् ||३२||
व्याप्य सावयवं देहं दिग्धविद्धाहिदष्टयोः |
लौल्याद्विषान्वितं मांसं यः खादेन्मृतमात्रयोः ||३३||
यथाविषं स रोगेण क्लिश्यते म्रियतेऽपि वा |
अतश्चाप्यनयोर्मांसमभक्ष्यं मृतमात्रयोः ||३४||
मुहूर्तात्तदुपादेयं प्रहारादंशवर्जितम् |
सवातं गृहधूमाभं पुरीषं योऽतिसार्यते ||३५||
आध्मातोऽत्यर्थमुष्णास्रो विवर्णः सादपीडितः |
उद्वमत्यथ फेनं च विषपीतं तमादिशेत् ||३६||
न चास्य हृदयं वह्निर्विषजुष्टं दहत्यपि |
तद्धि स्थानं चेतनायाः स्वभावाद्व्याप्य तिष्ठति ||३७||
अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु |
याम्ये सपित्र्ये परिवर्जनीया ऋक्षे नरा मर्मसु ये च दष्टाः ||३८||
दर्वीकराणां विषमाशुघाति सर्वाणि चोष्णे द्विगुणीभवन्ति |
अजीर्णपित्तातपपीडितेषु बालप्रमेहिष्वथ गर्भिणीषु ||३९||
वृद्धातुरक्षीणबुभुक्षितेषु रूक्षेषु भीरुष्वथ दुर्दिनेषु |
शस्त्रक्षते यस्य न रक्तमेति राज्यो लताभिश्च न सम्भवन्ति ||४०||
शीताभिरद्भिश्च न रोमहर्षो विषाभिभूतं परिवर्जयेत्तम् |
जिह्वा सिता यस्य च केशशातो नासावभङ्गश्च सकण्ठभङ्गः ||४१||
कृष्णः सरक्तः श्वयथुश्च दंशे हन्वोः स्थिरत्वं च स वर्जनीयः |
वर्तिर्घना यस्य निरेति वक्त्राद्रक्तं स्रवेदूर्ध्वमधश्च यस्य ||४२||
दंष्ट्रानिपाताः सकलाश्च यस्य तं चापि वैद्यः परिवर्जयेत्तु |
उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाऽप्यथवा विवर्णम् ||४३||
सारिष्टमत्यर्थमवेगिनं च जह्यान्नरं तत्र न कर्म कुर्यात् ||४४||
इति सुश्रुतसंहितायां कल्पस्थाने जङ्गमविषविज्ञानीयो नाम तृतीयोऽध्यायः ||३||
Last updated on July 8th, 2021 at 10:51 am