सुश्रुतसंहिता ।
अथ चिकित्सास्थानम् ।
द्वितियोऽध्यायः ।
अथातः सद्योव्रणचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
धन्वन्तरिर्धर्मभृतां वरिष्ठो वाग्विशारदः |
विश्वामित्रसुतं शिष्यमृषिं सुश्रुतमन्वशात् ||३||
नानाधारामुखैः शस्त्रैर्नानास्थाननिपातितैः |
नानारूपा व्रणा ये स्युस्तेषां वक्ष्यामि लक्षणम् ||४||
आयताश्चतुरस्राश्च त्र्यस्रा मण्डलिनस्तथा |
अर्धचन्द्रप्रतीकाशा विशालाः कुटिलास्तथा ||५||
शरावनिम्नमध्याश्च यवमध्यास्तथाऽपरे |
एवम्प्रकाराकृतयो भवन्त्यागन्तवो व्रणाः ||६||
दोषजा वा स्वयं भिन्ना, न तु वैद्यनिमित्तजाः |
भिषग्व्रणाकृतिज्ञो हि न मोहमधिगच्छति ||७||
भृशं दुर्दर्शरूपेषु व्रणेषु विकृतेष्वपि |
अनन्ताकृतिरागन्तुः स भिषग्भिः पुरातनैः ||८||
समासतो लक्षणतः षड्विधः परिकीर्तितः |
छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च ||९||
घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् |
तिरश्चीन ऋजुर्वाऽपि यो व्रणश्चायतो भवेत् ||१०||
गात्रस्य पातनं चापि छिन्नमित्युपदिश्यते |
कुन्तशक्त्यृष्टिखङ्गाग्रविषाणादिभिराशयः ||११||
हतः किञ्चित् स्रवेत्तद्धि भिन्नलक्षणमुच्यते |
स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च ||१२||
हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते |
तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते ||१३||
मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति |
मूर्च्छाश्वासतृडाध्मानमभक्तच्छन्द एव च ||१४||
विण्मूत्रवातसङ्गश्च स्वेदास्रावोऽक्षिरक्तता |
लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च ||१५||
हृच्छूलं पार्श्वयोश्चापिविशेषं चात्र मे शृणु |
आमाशयस्थे रुधिरे रुधिरं छर्दयेत् पुनः ||१६||
आध्मानमतिमात्रं च शूलं च भृशदारुणम् |
पक्वाशयगते चापि रुजो गौरवमेव च ||१७||
शीतता चाप्यधो नाभेः खेभ्यो रक्तस्य चागमः |
अभिन्नेऽप्याशयेऽन्त्राणां खैः सूक्ष्मैरन्त्रपूरणम् ||१८||
पिहितास्ये घटे यद्वल्लक्ष्यते तस्य गौरवम् |
सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वाशयाद्विना ||१९||
उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत् |
नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् ||२०||
विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिनिर्दिशेत् |
प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम् ||२१||
सास्थि तत् पिच्चितं विद्यान्मज्जरक्तपरिप्लुतम् |
विगतत्वग्यदङ्गं हि सङ्घर्षादन्यथाऽपि वा ||२२||
उषास्रावान्वितं तत्तु घृष्टमित्युपदिश्यते |
छिन्ने भिन्ने तथा विद्धे क्षते वाऽसृगतिस्रवेत् ||२३||
रक्तक्षयाद्रुजस्तत्र करोति पवनो भृशम् |
स्नेहपानं हितं तत्र तत्सेको विहितस्तथा ||२४||
वेशवारैः सकृशरैः सुस्निग्धैश्चोपनाहनम् |
धान्यस्वेदांश्च कुर्वीत स्निग्धान्यालेपनानि च ||२५||
वातघ्नौषधसिद्धैश्च स्नेहैर्बस्तिर्विधीयते |
पिच्चिते च विघृष्टे च नातिस्रवति शोणितम् ||२६||
अगच्छति भृशं तस्मिन् दाहः पाकश्च जायते |
तत्रोष्मणो निग्रहार्थं तथा दाहप्रपाकयोः ||२७||
शीतमालेपनं कार्यं परिषेकश्च शीतलः |
षट्स्वेतेषु यथोक्तेषु छिन्नादिषु समासतः ||२८||
ज्ञेयं समर्पितं सर्वं सद्योव्रणचिकित्सितम् |
अत ऊर्ध्वं प्रवक्ष्यामि छिन्नानां तु चिकित्सितम् ||२९||
ये व्रणा विवृताः केचिच्छिरःपार्श्वावलम्बिनः |
तान् सीव्येद्विधिनोक्तेन बध्नीयाद्गाढमेव च ||३०||
कर्णं स्थानादपहृतं स्थापयित्वा यथास्थितम् |
सीव्येद्यथोक्तं तैलेन स्रोतश्चाभिप्रतर्पयेत् ||३१||
कृकाटिकान्ते छिन्ने तु गच्छत्यपि समीरणे |
सम्यङ्निवेश्य बध्नीयात् सीव्येच्चापि निरन्तरम् ||३२||
आजेन सर्पिषा चैवं परिषेकं तु कारयेत् |
उत्तानोऽन्नं समश्नीयाच्छयीत च सुयन्त्रितः ||३३||
शाखासु पतितांस्तिर्यक् प्रहारान् विवृतान् भृशम् |
सीव्येत् सम्यङ्निवेश्याशु सन्ध्यस्थीन्यनुपूर्वशः ||३४||
बद्ध्वा वेल्लितकेनाशु ततस्तैलेन सेचयेत् |
चर्मणा गोफणाबन्धः कार्यो यो वा हितो भवेत् ||३५||
पृष्ठे व्रणो यस्य भवेदुत्तानं शाययेत्तु तम् |
अतोऽन्यथा चोरसिजे शाययेत् पुरुषं व्रणे ||३६||
छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन बुद्धिमान् |
बध्नीयात् कोशबन्धेन प्राप्तं कार्यं च रोपणम् ||३७||
चन्दनं पद्मकं रोध्रमुत्पलानि प्रियङ्गवः |
हरिद्रा मधुकं चैव पयः स्यादत्र चाष्टमम् ||३८||
तैलमेभिर्विपक्वं तु प्रधानं व्रणरोपणम् |
चन्दनं कर्कटाख्या च सहे मांस्याह्वयाऽमृता ||३९||
हरेणवो मृणालं च त्रिफला पद्मकोत्पले |
त्रयोदशाङ्गं त्रिवृतमेतद्वा पयसाऽन्वितम् ||४०||
तैलं विपक्वं सेकार्थे हितं तु व्रणरोपणे |
अत ऊर्ध्वं प्रवक्ष्यामि भिन्नानां तु चिकित्सितम् ||४१||
भिन्नं नेत्रमकर्मण्यमभिन्नं लम्बते तु यत् |
तन्निवेश्य यथास्थानमव्याविद्धसिरं शनैः ||४२||
पीडयेत् पाणिना सम्यक् पद्मपत्त्रान्तरेण तु |
ततोऽस्य तर्पणं कार्यं नस्यं चानेन सर्पिषा ||४३||
आजं घृतं क्षीरपात्रं मधुकं चोत्पलानि च |
जीवकर्षभकौ चैव पिष्ट्वा सर्पिर्विपाचयेत् ||४४||
सर्वनेत्राभिघाते तु सर्पिरेतत् प्रशस्यते |
उदरान्मेदसो वर्तिर्निर्गता यस्य देहिनः ||४५||
कषायभस्ममृत्कीर्णां बद्ध्वा सूत्रेण सूत्रवित् |
अग्नितप्तेन शस्त्रेण छिन्द्यान्मधुसमायुतम् ||४६||
बद्ध्वा व्रणं सुजीर्णेऽन्ने सर्पिषः पानमिष्यते |
स्नेहपानादृते चापि पयःपानं विधीयते ||४७||
शर्करामधुयष्टिभ्यां लाक्षया वा श्वदंष्ट्रया |
चित्रासमन्वितं चैव रुजादाहविनाशनम् ||४८||
आटोपो मरणं वा स्याच्छूलो वाऽच्छिद्यमानया |
मेदोग्रन्थौ तु यत्तैलं वक्ष्यते तच्च योजयेत् ||४९||
त्वचोऽतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा |
कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्रवान् ||५०||
तत्रान्तर्लोहितं पाण्डुं शीतपादकराननम् |
शीतोच्छ्वासं रक्तनेत्रमानद्धं च विवर्जयेत् ||५१||
आमाशयस्थे रुधिरे वमनं पथ्यमुच्यते |
पक्वाशयस्थे देयं च विरेचनमसंशयम् ||५२||
आस्थापनं च निःस्नेहं कार्यमुष्णैर्विशोधनैः |
यवकोलकुलत्थानां निःस्नेहेन रसेन च ||५३||
भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धवसंयुताम् |
अतिनिःस्रुतरक्तो वा भिन्नकोष्ठः पिबेदसृक् ||५४||
स्वमार्गप्रतिपन्नास्तु यस्य विण्मूत्रमारुताः |
व्युपद्रवः स भिन्नेऽपि कोष्ठे जीवति मानवः ||५५||
अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं नान्यथा भवेत् |
पिपीलिकाशिरोग्रस्तं तदप्येके वदन्ति तु ||५६||
प्रक्षाल्य पयसा दिग्धं तृणशोणितपांशुभिः |
प्रवेशयेत् कृत्तनखो घृतेनाक्तं शनैः शनैः ||५७||
प्रवेशयेत् क्षीरसिक्तं शुष्कमन्त्रं घृताप्लुतम् |
अङ्गुल्याऽभिमृशेत् कण्ठं जलेनोद्वेजयेदपि ||५८||
हस्तपादेषु सङ्गृह्य समुत्थाप्य महाबलाः |
भवत्यन्तःप्रवेशस्तु यथा निर्धुनुयुस्तथा ||५९||
तथाऽन्त्राणि विशन्त्यन्तः स्वां कलां पीडयन्ति च |
व्रणाल्पत्वाद्बहुत्वाद्वा दुष्प्रवेशं भवेत्तु यत् ||६०||
तदापाट्य प्रमाणेन भिषगन्त्रं प्रवेशयेत् |
यथास्थानं निविष्टे च व्रणं सीव्येदतन्द्रितः ||६१||
स्थानादपेतमादत्ते प्राणान् गुपितमेव वा |
वेष्टयित्वा तु पट्टेन घृतसेकं प्रदापयेत् ||६२||
घृतं पिबेत् सुखोष्णं च चित्रातैलसमन्वितम् |
मृदुक्रियार्थं शकृतो वायोश्चाधःप्रवृत्तये ||६३||
ततस्तैलमिदं कुर्याद्रोपणार्थं चिकित्सकः |
त्वचोऽश्वकर्णधवयोर्मोचकीमेषशृङ्गयोः ||६४||
शल्लक्यर्जुनयोश्चापि विदार्याः क्षीरिणां तथा |
बलामूलानि चाहृत्य तैलमेतैर्विपाचयेत् ||६५||
व्रणं संरोपयेत्तेन वर्षमात्रं यतेत च |
पादौ निरस्तमुष्कस्य जलेन प्रोक्ष्य चाक्षिणी ||६६||
प्रवेश्य तुन्नसेवन्या मुष्कौ सीव्येत्ततः परम् |
कार्यो गोफणिकाबन्धः कट्यामावेश्य यन्त्रकम् ||६७||
न कुर्यात् स्नेहसेकं च तेन क्लिद्यति हि व्रणः |
कालानुसार्यागुर्वेलाजातीचन्दनपद्मकैः ||६८||
शिलादार्व्यमृतातुत्थैस्तैलं कुर्वीत रोपणम् |
शिरसोऽपहृते शल्ये बालवर्तिं निवेशयेत् ||६९||
बालवर्त्यामदत्तायां मस्तुलुङ्गं व्रणात् स्रवेत् |
हन्यादेनं ततो वायुस्तस्मादेवमुपाचरेत् ||७०||
व्रणे रोहति चैकैकं शनैर्बालमपक्षिपेत् |
गात्रादपहृतेऽन्यस्मात् स्नेहवर्तिं प्रवेशयेत् ||७१||
कृते निःशोणिते चापि विधिः सद्यःक्षते हितः |
दूरावगाढाः सूक्ष्माः स्युर्ये व्रणास्तान् विशोणितान् ||७२||
कृत्वा सूक्ष्मेण नेत्रेण चक्रतैलेन तर्पयेत् |
समङ्गां रजनीं पद्मां त्रिवर्गं तुत्थमेव च ||७३||
विडङ्गं कटुकां पथ्यां गुडूचीं सकरञ्जिकाम् |
संहृत्य विपचेत् काले तैलं रोपणमुत्तमम् ||७४||
तालीशं पद्मकं मांसी हरेण्वगुरुचन्दनम् |
हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः ||७५||
पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम् |
क्षते क्षतविधिः कार्यः पिच्चिते भग्नवद्विधिः ||७६||
घृष्टे रुजो निगृह्याशु चूर्णैरुपचरेद्व्रणम् |
विश्लिष्टदेहं पतितं मथितं हतमेव च ||७७||
वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशनम् |
अयमेव विधिः कार्यः क्षीणे मर्महते तथा ||७८||
रोपणे सपरीषेके पाने च व्रणिनां सदा |
तैलं घृतं वा संयोज्यं शरीरर्तूनवेक्ष्य हि ||७९||
घृतानि यानि वक्ष्यामि यत्नतः पित्तविद्रधौ |
सद्योव्रणेषु देयानि तानि वैद्येन जानता ||८०||
सद्यःक्षतव्रणं वैद्यः सशूलं परिषेचयेत् |
सर्पिषा नातिशीतेन बलातैलेन वा पुनः ||८१||
समङ्गां रजनीं पद्मां पथ्यां तुत्थं सुवर्चलाम् |
पद्मकं रोध्रमधुकं विडङ्गानि हरेणुकाम् ||८२||
तालीशपत्रं नलदं चन्दनं पद्मकेशरम् |
मञ्जिष्ठोशीरलाक्षाश्च क्षीरिणां चापि पल्लवान् ||८३||
प्रियालबीजं तिन्दुक्यास्तरुणानि फलानि च |
यथालाभं समाहृत्य तैलमेभिर्विपाचयेत् ||८४||
सद्योव्रणानां सर्वेषामदुष्टानां तु रोपणम् |
कषायमधुराःशीताः क्रियाः स्निग्धाश्च योजयेत् ||८५||
सद्योव्रणानां सप्ताहं पश्चात् पूर्वोक्तमाचरेत् |
दुष्टव्रणेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम् ||८६||
विशोषणं तथाऽऽहारः शोणितस्य च मोक्षणम् |
कषायं राजवृक्षादौ सुरसादौ च धावनम् ||८७||
तयोरेव कषायेण तैलं शोधनमिष्यते |
क्षारकल्पेन वा तैलं क्षारद्रव्येषु साधितम् ||८८||
द्रवन्ती चिरबिल्वश्च दन्ती चित्रकमेव च |
पृथ्वीका निम्बपत्राणि कासीसं तुत्थमेव च ||८९||
त्रिवृत्तेजोवती नीली हरिद्रे सैन्धवं तिलाः |
भूमिकदम्बः सुवहा शुकाख्या लाङ्गलाह्वया ||९०||
नैपाली जालिनी चैव मदयन्ती मृगादनी |
सुधामूर्वार्ककीटारिहरितालकरञ्जिकाः ||९१||
यथोपपत्ति कर्तव्यं तैलमेतैस्तु शोधनम् |
घृतं वा यदि वा प्राप्तं कल्काः संशोधनास्तथा ||९२||
सैन्धवत्रिवृदेरण्डपत्रकल्कस्तु वातिके |
त्रिवृद्धरिद्रामधुककल्कः पैत्ते तिलैर्युतः ||९३||
कफजे तिलतेजोह्वादन्तीस्वर्जिकचित्रकाः |
दुष्टव्रणविधिः कार्यो मेहकुष्ठव्रणेष्वपि ||९४||
षड्विधः प्राक् प्रदिष्टो यः सद्योव्रणविनिश्चयः |
नातः शक्यं परं वक्तुमपि निश्चितवादिभिः ||९५||
उपसर्गैर्निपातैश्च तत्तु पण्डितमानिनः |
केचित् संयोज्य भाषन्ते बहुधा मानगर्विताः ||९६||
बहु तद्भाषितं तेषां षट्स्वेष्वेवावतिष्ठते |
विशेषा इव सामान्ये षट्त्वं तु परमं मतम् ||९७||
इति सुश्रुतसंहितायां चिकित्सास्थाने सद्योव्रणचिकित्सितं नाम द्वितियोऽध्यायः ||२||
Last updated on July 8th, 2021 at 05:44 am