चरकसंहिता
शारीरस्थानम् ।
द्वितीयोऽध्याय: ।
अथातोऽतुल्यगोत्रीयं शारीरं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
अतुल्यगोत्रस्य रज:क्षयान्ते
रहोविसृष्टं मिथुनीकृतस्य ।
किं स्याच्चतुष्पात्प्रभवं च षड्भ्यो
यत् स्त्रीषु गर्भत्वमुपैति पुंस: ॥३॥
शुक्रं तदस्य प्रवदन्ति धीरा
यद्धीयते गर्भसमुद्भवाय ।
वाय्वग्निभूम्यब्गुणपादवत्तत्
षड्भ्यो रसेभ्य: प्रभवश्च तस्य ॥४॥
संपूर्णदेह: समये सुखं च
गर्भ: कथं केन च जायते स्त्री ।
गर्भं चिराद्विन्दति सप्रजाऽपि
भूत्वाऽथवा नश्यति केन गर्भ: ॥५॥
शुक्रासृगात्माशयकालसंपद्
यस्योपचारश्च हितैस्तथाऽन्नै: ।
गर्भश्च काले च सुखी सुखं च
संजायते संपरिपूर्णदेह: ॥६॥
योनिप्रदोषान्मनसोऽभितापाच्छुक्रासृगाहारविहारदोषात् ।
अकालयोगाद्बलसंक्षयाच्च
गर्भं चिराद्विन्दति सप्रजाऽपि ॥७॥
असृङि्नरुद्धं पवनेन नार्या
गर्भं व्यवस्यन्त्यबुधा: कदाचित् ।
गर्भस्य रूपं हि करोति तस्यास्तदसृगस्रावि विवर्धमानम् ॥८॥
तदग्निसूर्यश्रमशोकरोगैरुष्णान्नपानैरथवा प्रवृत्तम् ।
दृष्ट्वाऽसृगेकं न च गर्भसंज्ञं केचिन्नरा भूतहृतं वदन्ति ॥९॥
ओजोशनानां रजनीचराणामाहारहेतोर्न शरीरमिष्टम् ।
गर्भं हरेयुर्यदि ते न मातुर्लब्धावकाशा न हरेयुरोज: ॥१०॥
कन्यां सुतं वा सहितौ पृथग्वा
सुतौ सुते वा तनयान् बहून् वा ।
कस्मात् प्रसूते सुचिरेण गर्भमेकोऽभिवृद्धिं च यमेऽभ्युपैति ॥११॥
रक्तेन कन्यामधिकेन पुत्रं शुक्रेण तेन द्विविधीकृतेन
बीजेन कन्यां च सुतं च सूते
यथास्वबीजान्यतराधिकेन ॥१२॥
शुक्राधिकं द्वैधमुपैति बीजं यस्या: सुतौ सा सहितौ प्रसूते ।
रक्ताधिकं वा यदि भेदमेति
द्विधा सुते सा सहिते प्रसूते ॥१३॥
भिनत्ति यावद्बहुधा प्रपन्न:
शुक्रार्तवं वायुरतिप्रवृद्ध: ।
तावन्त्यपत्यानि यथाविभागं
कर्मात्मकान्यस्ववशात् प्रसूते ॥१४॥
आहारमाप्नोति यदा न गर्भ:
शोषं समाप्नोति परिस्रुतिं वा ।
तं स्त्री प्रसूते सुचिरेण गर्भं
पुष्टो यदा वर्षगणैरपि स्यात् ॥१५॥
कर्मात्मकत्वाद्विषमांशभेदाच्छुक्रासृजोर्वृद्धिमुपैति कुक्षौ ।
एकोऽधिको न्यूनतरो द्वितीय
एवं यमेऽप्यभ्यधिको विशेष: ॥१६॥
कस्माद् द्विरेता: पवनेन्द्रियो वा
संस्कारवाही नरनारिषण्डौ ।
वक्री तथेर्ष्याभिरति: कथं वा
संजायते वातिकषण्डको वा ॥१७
बीजात् समांशादुपतप्तबीजात्
स्त्रीपुंसलिङ्गी भवति द्विरेता: ।
शुक्राशयं गर्भगतस्य हत्वा
करोति वायु: पवनेन्द्रियत्वम् ॥१८॥
शुक्राशयद्वारविघट्टनेन
संस्कारवाहं कुरुतेऽनिलश्च ।
मन्दाल्पबीजावबलावहर्षौ
क्लीबौ च हेतुर्विकृतिद्वयस्य ॥१९॥
मातुर्व्यवायप्रतिघेन वक्री स्याद्बीजदौर्बल्यतया पितुश्च ।
ईर्ष्याभिभूतावपि मन्दहर्षावीर्ष्यारतेरेव वदन्ति हेतुम् ॥२०॥
वाय्वग्निदोषाद् वृषणौ तु यस्य
नाशं गतौ वातिकषण्डक: स: ।
इत्येवमष्टौ विकृतिप्रकारा:
कर्मात्मकानामुपलक्षणीया: ॥२१॥
गर्भस्य सद्योऽनुगतस्य कुक्षौ
स्त्रीपुंनपुंसामुदरस्थितानाम् ।
किं लक्षणं ? कारणमिष्यते किं
सरूपतां येन च यात्यपत्यम् ॥२२॥
निष्ठीविका गौरवमङ्गसादस्तन्द्राप्रहर्षो हृदये व्यथा च ।
तृप्तिश्च बीजग्रहणं च योन्यां
गर्भस्य सद्योऽनुगतस्य लिङ्गम् ॥२३॥
सव्याङ्गचेष्टा पुरुषार्थिनी स्त्री
स्त्रीस्वप्नपानाशनशीलचेष्टा ।
सव्यात्तगर्भा न च वृत्तगर्भा
सव्यप्रदुग्धा स्त्रियमेव सूते ॥२४॥
पुत्रं त्वतो लिङ्गविपर्ययेण
व्यामिश्रलिङ्गा प्रकृतिं तृतीयाम् ।
गर्भोपपत्तौ तु मन: स्त्रिया यं
जन्तुं व्रजेत्तत्सदृशं प्रसूते ॥२५॥
गर्भस्य चत्वारि चतुर्विधानि
भूतानि मातापितृसंभवानि ।
आहारजान्यात्मकृतानि चैव
सर्वस्य सर्वाणि भवन्ति देहे ॥२६॥
तेषां विशेषाद्बलवन्ति यानि
भवन्ति मातापितृकर्मजानि ।
तानि व्यवस्येत् सदृशत्वहेतुं
सत्त्वं यथानूकमपि व्यवस्येत् ॥२७॥
कस्मात् प्रजां स्त्री विकृतां प्रसूते
हीनाधिकाङ्गीं विकलेन्द्रियां वा ।
देहात् कथं देहमुपैति चान्यमात्मा सदा कैरनुबध्यते च ॥२८॥
बीजात्मकर्माशयकालदोषैर्मातुस्तथाऽऽहारविहारदोषै: ।
कुर्वन्ति दोषा विविधानि दुष्टा:
संस्थानवर्णेन्द्रियवैकृतानि ॥२९॥
वर्षासु काष्ठाश्मघनाम्बुवेगास्तरो: सरित्स्रोतसि संस्थितस्य ।
यथैव कुर्युर्विकृतिं तथैव
गर्भस्य कुक्षौ नियतस्य दोषा: ॥३०॥
भूतैश्चतुर्भि: सहित: सुसूक्ष्मैर्मनोजवो देहमुपैति देहात् ।
कर्मात्मकत्वान्न तु तस्य दृश्यं
दिव्यं विना दर्शनमस्ति रूपम् ॥३१॥
स सर्वग: सर्वशरीरभृच्च
स विश्वकर्मा स च विश्वरूप: ।
स चेतनाधातुरतीन्द्रियश्च
स नित्ययुक् सानुशय: स एव ॥३२॥
रसात्ममातापितृसंभवानि
भूतानि विद्याद्दश षट् च देहे ।
चत्वारि तत्रात्मनि संश्रितानि
स्थितस्तथाऽऽत्मा च चतुर्षु तेषु ॥३३॥
भूतानि मातापितृसंभवानि
रजश्च शुक्रं च वदन्ति गर्भे ।
आप्याय्यते शुक्रमसृक् च भूतैर्यैस्तानि भूतानि रसोद्भवानि ॥३४॥
भूतानि चत्वारि तु कर्मजानि
यान्यात्मलीनानि विशन्ति गर्भम् ।
स बीजधर्मा ह्यपरापराणि
देहान्तराण्यात्मनि याति याति ॥३५॥
रूपाद्धि रूपप्रभव: प्रसिद्ध:
कर्मात्मकानां मनसो मनस्त: ।
भवन्ति ये त्वाकृतिबुद्धिभेदा
रजस्तमस्तत्र च कर्म हेतु: ॥३६॥
अतीन्द्रियैस्तैरतिसूक्ष्मरूपैरात्मा कदाचिन्न वियुक्तरूप: ।
न कर्मणा नैव मनोमतिभ्यां
न चाप्यहङ्कारविकारदोषै: ॥३७॥
रजस्तमोभ्यां हि मनोऽनुबद्धं
ज्ञानं विना तत्र हि सर्वदोषा: ।
गतिप्रवृत्त्योस्तु निमित्तमुक्तं
मन: सदोषं बलवच्च कर्म ॥३८॥
रोगा: कुत: संशमनं किमेषां
हर्षस्य शोकस्य च किं निमित्तम् ।
शरीरसत्त्वप्रभवा विकारा:
कथं न शान्ता: पुनरापतेयु: ॥३९॥
प्रज्ञापराधो विषमास्तथाऽर्था
हेतुस्तृतीय: परिणामकाल: ।
सर्वामयानां त्रिविधा च शान्तिर्ज्ञानार्थकाला: समयोगयुक्ता: ॥४०॥
धर्म्या: क्रिया हर्षनिमित्तमुक्तास्ततोऽन्यथा शोकवशं नयन्ति ।
शरीरसत्त्वप्रभवास्तु रोगास्तयोरवृत्त्या न भवन्ति भूय: ॥४१॥
रूपस्य सत्त्वस्य च सन्ततिर्या
नोक्तस्तदादिर्नहि सोऽस्ति कश्चित् ।
तयोरवृत्ति: क्रियते पराभ्यां
धृतिस्मृतिभ्यां परया धिया च ॥४२॥
सत्याश्रये वा द्विविधे यथोक्ते
पूर्वं गदेभ्य: प्रतिकर्म नित्यम् ।
जितेन्द्रियं नानुपतन्ति रोगास्तत्कालयुक्तं यदि नास्ति दैवम् ॥४३॥
दैवं पुरा यत् कृतमुच्यते तत्
तत् पौरुषं यत्त्विह कर्म दृष्टम् ।
प्रवृत्तिहेतुर्विषम: स दृष्टो
निवृत्तिहेतुर्हि सम: स एव ॥४४॥
हैमन्तिकं दोषचयं वसन्ते
प्रवाहयन् ग्रैष्मिकमभ्रकाले ।
घनात्यये वार्षिकमाशु सम्यक्
प्राप्नोति रोगानृतुजान्न जातु ॥४५॥
नरो हिताहारविहारसेवी
समीक्ष्यकारी विषयेष्वसक्त: ।
दाता सम: सत्यपर: क्षमावानाप्तोपसेवी च भवत्यरोग: ॥४६॥
मतिर्वच: कर्म सुखानुबन्धं
सत्त्वं विधेयं विशदा च बुद्धि: ।
ज्ञानं तपस्तत्परता च योगे
यस्यास्ति तं नानुपतन्ति रोगा: ॥४७॥
तत्र श्लोक: ।
इहाग्निवेशस्य महार्थयुक्तं
षट्त्रिंशकं प्रश्नगणं महर्षि: ।
अतुल्यगोत्रे भगवान् यथावन्निर्णीतवान् ज्ञानविवर्धनार्थम् ॥४८॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थानेऽतुल्यगोत्रीयं शारीरं नाम
द्वितीयोऽध्याय: ॥२॥
Last updated on June 10th, 2021 at 09:13 am