Skip to content

01. Vaatavyaadhi Nidaana – Nidaana – S”

सुश्रुतसंहिता ।

अथ निदानस्थानम्‌ ।

प्रथमोऽध्यायः ।

अथातो वातव्याधिनिदानं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

धन्वन्तरिं धर्मभृतां वरिष्ठममृतोद्भवम् |

चरणावुपसङ्गृह्य सुश्रुतः परिपृच्छति ||३||

वायोः प्रकृतिभूतस्य व्यापन्नस्य च कोपनैः |

स्थानं कर्म च रोगांश्च वद मे वदतां वर ||४||

तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः |

स्वयम्भूरेष भगवान् वायुरित्यभिशब्दितः ||५||

स्वातन्त्र्यान्नित्यभावाच्च सर्वगत्वात्तथैव च |

सर्वेषामेव सर्वात्मा सर्वलोकनमस्कृतः ||६||

स्थित्युत्पत्तिविनाशेषु भूतानामेष कारणम् |

अव्यक्तो व्यक्तकर्मा च रूक्षः शीतो लघुः खरः ||७||

तिर्यग्गो द्विगुणश्चैव रजोबहुल एव च |

अचिन्त्यवीर्यो दोषाणां नेता रोगसमूहराट् ||८||

आशुकारी मुहुश्चारी पक्वाधानगुदालयः |

देहे विचरतस्तस्य लक्षणानि निबोध मे ||९||

दोषधात्वग्निसमतां सम्प्राप्तिं विषयेषु च |

क्रियाणामानुलोम्यं च करोत्यकुपितोऽनिलः ||१०||

(इन्द्रियार्थोपसम्प्राप्तिं दोषधात्वग्न्यवैकृतम्|

क्रियाणामानुलोम्यं च कुर्याद्वायुरदूषितः ||१०||) |

यथाऽग्निः पञ्चधा भिन्नो नामस्थानक्रियामयैः |

भिन्नोऽनिलस्तस्था ह्येको नामस्थानक्रियामयैः ||११||

प्राणोदानौ समानश्च व्यानश्चापान एव च |

स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम् ||१२||

यो वायुर्वक्त्रसञ्चारी स प्राणो नाम देहधृक् |

सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते ||१३||

प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान् |

उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः ||१४||

तेन भाषितगीतादिविशेषोऽभिप्रवर्तते |

ऊर्ध्वजत्रुगतान् रोगान् करोति च विशेषतः ||१५||

आमपक्वाशयचरः समानो वह्निसङ्गतः |

सोऽन्नं पचति तज्जांश्च विशेषान्विविनक्ति हि ||१६||

गुल्माग्निसादातीसारप्रभृतीन् कुरुते गदान् |

कृत्स्नदेहचरो व्यानो रससंवहनोद्यतः ||१७||

स्वेदासृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि |

क्रुद्धश्च कुरुते रोगान् प्रायशः सर्वदेहगान् ||१८||

पक्वाधानालयोऽपानः काले कर्षति चाप्यधः |

समीरणः शकृन्मूत्रं शुक्रगर्भार्तवानि च ||१९||

क्रुद्धश्च कुरुते रोगान् घोरान् बस्तिगुदाश्रयान् |

शुक्रदोषप्रमेहास्तु व्यानापानप्रकोपजाः ||२०||

युगपत् कुपिताश्चापि देहं भिन्द्युरसंशयम् |

अत ऊर्ध्वं प्रवक्ष्यामि नानास्थानान्तराश्रितः ||२१||

बहुशः कुपितो वायुर्विकारान् कुरुते हि यान् |

वायुरामाशये क्रुद्धश्छर्द्यादीन् कुरुते गदान् ||२२||

मोहं मूर्च्छां पिपासां च हृद्ग्रहं पार्श्ववेदनाम् |

पक्वाशयस्थोऽन्त्रकूजं शूलं नाभौ करोति च ||२३||

कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् |

श्रोत्रादिष्विन्द्रियवधं कुर्यात् क्रुद्धः समीरणः ||२४||

वैवर्ण्यं स्फुरणं रौक्ष्यं सुप्तिं चुमुचुमायनम् |

त्वक्स्थो निस्तोदनं कुर्यात् त्वग्भेदं परिपोटनम् ||२५||

व्रणांश्च रक्तगो, ग्रन्थीन् सशूलान् मांससंश्रितः |

तथा मेदःश्रितः कुर्याद्ग्रन्थीन्मन्दरुजोऽव्रणान् ||२६||

कुर्यात् सिरागतः शूलं सिराकुञ्चनपूरणम् |

स्नायुप्राप्तः स्तम्भकम्पौ शूलमाक्षेपणं तथा ||२७||

हन्ति सन्धिगतः सन्धीन् शूलशोफौ करोति च |

अस्थिशोषं प्रभेदं च कुर्याच्छूलं च तच्छ्रितः ||२८||

तथा मज्जगते रुक् च न कदाचित् प्रशाम्यति |

अप्रवृत्तिः प्रवृत्तिर्वा विकृता शुक्रगेऽनिले ||२९||

हस्तपादशिरोधातूंस्तथा सञ्चरति क्रमात् |

व्याप्नुयाद्वाऽखिलं देहं वायुः सर्वगतो नृणाम् ||३०||

स्तम्भनाक्षेपणस्वापशोफशूलानि सर्वगः |

स्थानेषूक्तेषु सम्मिश्रः सम्मिश्राः कुरुते रुजः ||३१||

कुर्यादवयवप्राप्तो मारुतस्त्वमितान् गदान् |

दाहसन्तापमूर्च्छाः स्युर्वायौ पित्तसमन्विते ||३२||

शैत्यशोफगुरुत्वानि तस्मिन्नेव कफावृते |

सूचीभिरिव निस्तोदः स्पर्शद्वेषः प्रसुप्तता ||३३||

शेषाः पित्तविकाराः स्युर्मारुते शोणितान्विते |

प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते ||३४||

दौर्बल्यं सदनं तन्द्रा वैवर्ण्यं च कफावृते |

उदाने पित्तसंयुक्ते मूर्च्छादाहभ्रमक्लमाः ||३५||

अस्वेदहर्षौ मन्दोऽग्निः शीतस्तम्भौ कफावृते |

समाने पित्तसंयुक्ते स्वेददाहौष्ण्यमूर्च्छनम् ||३६||

कफाधिकं च विण्मूत्रं रोमहर्षः कफावृते |

अपाने पित्तसंयुक्ते दाहौष्ण्ये स्यादसृग्दरः ||३७||

अधःकायगुरुत्वं च तस्मिन्नेव कफावृते |

व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः ||३८||

गुरूणि सर्वगात्राणि स्तम्भनं चास्थिपर्वणाम् |

लिङ्गं कफावृते व्याने चेष्टास्तम्भस्तथैव च ||३९||

(प्रायशः सुकुमाराणां मिथ्याऽऽहारविहारिणाम् |

रोगाध्वप्रमदामद्यव्यायामैश्चातिपीडनात् ||४०||

ऋतुसात्म्यविपर्यासात् स्नेहादीनां च विभ्रमात् |

अव्यवाये तथा स्थूले वातरक्तं प्रकुप्यति ||४१||

हस्त्यश्वोष्ट्रैर्गच्छतोऽन्यैश्च वायुः कोपं यातः कारणै सेवितैः स्वैः |

तीक्ष्णोष्णाम्लक्षारशाकादिभोज्यैः सन्तापाद्यैर्भूयसा सेवितैश्च ||४२||

क्षिप्रं रक्तं दुष्टिमायाति तच्च वायोर्मार्गं संरुणद्ध्याशु यातः |

क्रुद्धोऽत्यर्थं मार्गरोधात् स वायुरत्युद्रिक्तं दूषयेद्रक्तमाशु ||४३||

तत् सम्पृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् |

तद्वत् पित्तं दूषितेनासृजाऽऽक्तं श्लेष्मा दुष्टो दूषितेनासृजाऽऽक्तः ||४४||

स्पर्शोद्विग्नौ तोदभेदप्रशोषस्वापोपेतौ वातरक्तेन पादौ |

पित्तासृग्भ्यामुग्रदाहौ भवेतामत्यर्थोष्णौ रक्तशोफौ मृदू च ||४५||

कण्डूमन्तौ श्वेतशीतौ सशोफौ पीनस्तब्धौ श्लेष्मदुष्टे तु रक्ते |

सर्वैर्दुष्टे शोणिते चापि दोषाः स्वं स्वं रूपं पादयोर्दर्शयन्ति ||४६||

प्राग्रूपे शिथिलौ स्विन्नौ शीतलौ सविपर्ययौ |

वैवर्ण्यतोदसुप्तत्वगुरुत्वौषसमन्वितौ ||४७||

पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि |

आखोर्विषमिव क्रुद्धं तद्देहमनुसर्पति ||४८||

आजानुस्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत् |

उपद्रवैश्च यज्जुष्टं प्राणमांसक्षयादिभिः ||४९||

शोणितं तदसाध्यं स्याद्याप्यं संवत्सरोत्थितम् |

यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः ||५०||

तदाक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चरः |

मुहुर्मुहुस्तदाक्षेपादाक्षेपक इति स्मृतः ||५१||

सोऽपतानकसञ्ज्ञो यः पातयत्यन्तराऽन्तरा |

कफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति ||५२||

स दण्डवत् स्तम्भयति कृच्छ्रो दण्डापतानकः |

हनुग्रहस्तदाऽत्यर्थं सोऽन्नं कृच्छ्रान्निषेवते ||५३||

धनुस्तुल्यं नमेद्यस्तु स धनुःस्तम्भसञ्ज्ञकः |

अङ्गुलीगुल्फजठरहृद्वक्षोगलसंश्रितः ||५४||

स्नायुप्रतानमनिलो यदाऽऽक्षिपति वेगवान् |

विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन् ||५५||

अभ्यन्तरं धनुरिव यदा नमति मानवः |

तदाऽस्याभ्यन्तरायामं कुरुते मारुतो बली ||५६||

बाह्यस्नायुप्रतानस्थो बाह्यायामं करोति च |

तमसाध्यं बुधाः प्राहुर्वक्षःकट्यूरुभञ्जनम् ||५७||

कफपित्तान्वितो वायुर्वायुरेव च केवलः |

कुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम् ||५८||

गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः |

अभिघातनिमित्तश्च न सिध्यत्यपतानकः ||५९||

अधोगमाः सतिर्यग्गा धमनीरूर्ध्वदेहगाः |

यदा प्रकुपितोऽत्यर्थं मातरिश्वा प्रपद्यते ||६०||

तदाऽन्यतरपक्षस्य सन्धिबन्धान् विमोक्षयन् |

हन्ति पक्षं तमाहुर्हि पक्षाघातं भिषग्वराः ||६१||

यस्य कृत्स्नं शरीरार्धमकर्मण्यमचेतनम् |

ततः पतत्यसून् वाऽपि त्यजत्यनिलपीडितः ||६२||

शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः |

साध्यमन्येन संसृष्टमसाध्यं क्षयहेतुकम् ||६३||

वायुरूर्ध्वं व्रजेत् स्थानात् कुपितो हृदयं शिरः |

शङ्खौ च पीडयत्यङ्गान्याक्षिपेन्नमयेच्च सः ||६४||

निमीलिताक्षो निश्चेष्टः स्तब्धाक्षो वाऽपि कूजति |

निरुच्छ्वासोऽथवा कृच्छ्रादुच्छ्वस्यान्नष्टचेतनः ||६५||

स्वस्थः स्याद्धृदये मुक्ते ह्यावृते तु प्रमुह्यति |

कफान्वितेन वातेन ज्ञेय एषोऽपतन्त्रकः ||६६||

दिवास्वप्नासनस्थानविवृताध्वनिरीक्षणैः |

मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणाऽऽवृतः ||६७||

(गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये |)

उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि वा |

हसतो जृम्भतो भाराद्विषमाच्छयनादपि ||६८||

शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः |

अर्दयित्वाऽनिलो वक्त्रमर्दितं जनयत्यतः ||६९||

वक्रीभवति वक्त्रार्धं ग्रीवा चाप्यपवर्तते |

शिरश्चलति वाक्सङ्गो नेत्रादीनां च वैकृतम् ||७०||

ग्रीवाचिबुकदन्तानां तस्मिन् पार्श्वे तु वेदना |

यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम् ||७१||

वायुरूर्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः |

तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः ||७२||

क्षीणस्यानिमिषाक्षस्य प्रसक्तं सक्तभाषिणः |

न सिध्यत्यर्दितं बाढं त्रिवर्षं वेपनस्य च ||७३||

पार्ष्णिप्रत्यङ्गुलीनां तु कण्डरा याऽनिलार्दिता |

सक्थ्नः क्षेपं निगृह्णीयाद्गृध्रसीति हि सा स्मृता ||७४||

तलप्रत्यङ्गुलीनां तु कण्डरा बाहुपृष्ठतः |

बाह्वोः कर्मक्षयकरी विश्वाचीति हि सा स्मृता ||७५||

वातशोणितजः शोफो जानुमध्ये महारुजः |

शिरः क्रोष्टुकपूर्वं तु स्थूलः क्रोष्टुकमूर्धवत् ||७६||

वायुः कट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा |

खञ्जस्तदा भवेज्जन्तुः, पङ्गुः सक्थ्नोर्द्वयोर्वधात् ||७७||

प्रक्रामन् वेपते यस्तु खञ्जन्निव च गच्छति |

कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ||७८||

न्यस्ते तु विषमं(मे) पादे रुजः कुर्यात् समीरणः |

वातकण्टक इत्येष विज्ञेयः खडु(ल)काश्रितः ||७९||

पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः |

विशेषतश्चङ्क्रमणात् पाददाहं तमादिशेत् ||८०||

हृष्यतश्चरणौ यस्य भवतश्च प्रसुप्तवत् |

पादहर्षः स विज्ञेयः कफवातप्रकोपजः ||८१||

अंसदेशस्थितो वायुः शोषयित्वांऽसबन्धनम् |

सिराश्चाकुञ्च्य तत्रस्थो जनयत्यवबाहुकम् ||८२||

यदा शब्दवहं स्रोतो वायुरावृत्य तिष्ठति |

शुद्धः श्लेष्मान्वितो वाऽपि बाधिर्यं तेन जायते ||८३||

हनुशङ्खशिरोग्रीवं यस्य भिन्दन्निवानिलः |

कर्णयोः कुरुते शूलं कर्णशूलं तदुच्यते ||८४||

आवृत्य सकफो वायुर्धमनीः शब्दवाहिनीः |

नरान् करोत्यक्रियकान्मूकमिन्मिणगद्गदान् ||८५||

अधो या वेदना याति वर्चोमूत्राशयोत्थिता |

भिन्दतीव गुदोपस्थं सा तूनीत्यभिधीयते ||८६||

गुदोपस्थोत्थिता सैव प्रतिलोमविसर्पिणी |

वेगैः पक्वाशयं याति प्रतितूनीति सा स्मृता ||८७||

साटोपमत्युग्ररुजमाध्मातमुदरं भृशम् |

आध्मानमिति जानीयाद्घोरं वातनिरोधजम् ||८८||

विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम् |

प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम् ||८९||

अष्ठीलावद्घनं ग्रन्थिमूर्ध्वमायतमुन्नतम् |

वाताष्ठीलां विजानीयाद्बहिर्मार्गावरोधिनीम् ||९०||

एनामेव रुजायुक्तां वातविण्मूत्ररोधिनीम् |

प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् ||९१||

इति सुश्रुतसंहितायां निदानस्थाने वातव्याधिनिदानं नाम प्रथमोऽध्यायः ||१||

Last updated on May 31st, 2021 at 05:20 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English