सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
प्रथमोऽध्यायः ।
अथात औपद्रविकमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अध्यायानां शते विंशे यदुक्तमसकृन्मया |
वक्ष्यामि बहुधा सम्यगुत्तरेऽर्थानिमानिति ||३||
इदानीं तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम् |
निखिलेनोपदिश्यन्ते यत्र रोगाः पृथग्विधाः ||४||
शालाक्यतन्त्राभिहिता विदेहाधिपकीर्तिताः |
ये च विस्तरतो दृष्टाः कुमाराबाधहेतवः ||५||
षट्सु कायचिकित्सासु ये चोक्ताः परमर्षिभिः |
उपसर्गादयो रोगा ये चाप्यागन्तवः स्मृताः ||६||
त्रिषष्टी रससंसर्गाः स्वस्थवृत्तं तथैव च |
युक्तार्था युक्तयश्चैव दोषभेदास्तथैव च ||७||
यत्रोक्ता विविधा अर्था रोगसाधनहेतवः |
महतस्तस्य तन्त्रस्य दुर्गाधस्याम्बुधेरिव ||८||
आदावेवोत्तमाङ्गस्थान् रोगानभिदधाम्यहम् |
सङ्ख्यया लक्षणैश्चापि साध्यासाध्यक्रमेण च ||९||
विद्याद्द्वयङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसम्मितम् |
द्व्यङ्गुलं सर्वतः सार्धं भिषङ्नयनबुद्बुदम् ||१०||
सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम् |
पलं भुवोऽग्नितो रक्तं वातात् कृष्णं सितं जलात् ||११||
आकाशादश्रुमार्गाश्च जायन्ते नेत्रबुद्बुदे |
दृष्टिं चात्र तथा वक्ष्ये यथा ब्रूयाद्विशारदः ||१२||
नेत्रायामत्रिभागं तु कृष्णमण्डलमुच्यते |
कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः ||१३||
मण्डलानि च सन्धींश्च पटलानि च लोचने |
यथाक्रमं विजानीयात् पञ्च षट् च षडेव च ||१४||
पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु |
अनुपूर्वं तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम् ||१५||
पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतोऽपरः |
शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः |
ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः ||१६||
द्वे वर्त्मपटले विद्याच्चत्वार्यन्यानि चाक्षिणि |
जायते तिमिरं येषु व्याधिः परमदारुणः ||१७||
तेजोजलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम् |
मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम् ||१८||
पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते |
सिराणां कण्डराणां च मेदसः कालकस्य च ||१९||
गुणाः कालात् परः श्लेष्मा बन्धनेऽक्ष्णोः सिरायुतः |
सिरानुसारिभिर्दोषैर्विगुणैरूर्ध्वमागतैः ||२०||
जायन्ते नेत्रभागेषु रोगाः परमदारुणाः |
तत्राविलं ससंरम्भमश्रुकण्डूपदेहवत् ||२१||
गुरूषातोदरागाद्यैर्जुष्टं चाव्यक्तलक्षणैः |
सशूलं वर्त्मकोषेषु शूकपूर्णाभमेव च ||२२||
विहन्यमानं रूपे वा क्रियास्वक्षि यथा पुरा |
दृष्ट्वैव धीमान् बुध्येत दोषेणाधिष्ठितं तु तत् ||२३||
तत्र सम्भवमासाद्य यथादोषं भिषग्जितम् |
विदध्यान्नेत्रजा रोगा बलवन्तः स्युरन्यथा ||२४||
सङ्क्षेपतः क्रियायोगो निदानपरिवर्जनम् |
वातादीनां प्रतीघातः प्रोक्तो विस्तरतः पुनः ||२५||
उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च |
प्रसक्तसंरोदनकोपशोकक्लेशाभिघातादतिमैथुनाच्च ||२६||
शुक्तारनालाम्लकुलत्थमाषनिषेवणाद्वेगविनिग्रहाच्च |
स्वेदादथो धूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् |
बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः ||२७||
वाताद्दश तथा पित्तात् कफाच्चैव त्रयोदश |
रक्तात् षोडश विज्ञेयाः सर्वजाः पञ्चविंशतिः ||२८||
तथा बाह्यौ पुनर्द्वौ च रोगाः षट्सप्ततिः स्मृताः |
हताधिमन्थो निमिषो दृष्टिर्गम्भीरिका च या ||२९||
यच्च वातहतं वर्त्म न ते सिध्यन्ति वातजाः |
याप्योऽथ तन्मयः काचः साध्याः स्युःसान्यमारुताः ||३०||
शुष्काक्षिपाकाधीमन्थस्यन्दमारुतपर्ययाः |
असाध्यो ह्रस्वजाड्यो यो जलस्रावश्च पैत्तिकः ||३१||
परिम्लायी च नीलश्च याप्यः काचोऽथ तन्मयः |
अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिका च या ||३२||
दृष्टिः पित्तविदग्धा च धूमदर्शी च सिध्यति |
असाध्यः कफजः स्रावो याप्यः काचश्च तन्मयः ||३३||
अभिष्यन्दोऽधिमन्थश्च बलासग्रथितं च यत् |
दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगण्श्च यः ||३४||
क्रिमिग्रन्थिपरिक्लिन्नवर्त्मशुक्लार्मपिष्टकाः |
श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु ||३५||
रक्तस्रावोऽजकाजातं शोणितार्शोव्रणान्वितम् |
शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्तितः ||३६||
मन्थस्यन्दौ क्लिष्टवर्त्म हर्षोत्पातौ तथैव च |
सिराजाताऽञ्जनाख्या च सिराजालं च यत् स्मृतम् ||३७||
पर्वण्यथाव्रणं शुक्रं शोणितार्मार्जुनश्च यः |
एते साध्या विकारेषु रक्तजेषु भवन्ति हि ||३८||
पूयास्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी |
असाध्याः सर्वजा याप्यः काचः कोपश्च पक्ष्मणः ||३९||
वर्त्मावबन्धो यो व्याधिः सिरासु पिडका च या |
प्रस्तार्यर्माधिमांसार्म स्नाय्वर्मोत्सङ्गिनी च या ||४०||
पूयालसश्चार्बुदं च श्यावकर्दमवर्त्मनी |
तथाऽर्शोवर्त्म शुष्कार्शः शर्करावर्त्म यच्च वै ||४१||
सशोफश्चाप्यशोफश्च पाको बहलवर्त्म च |
अक्लिन्नवर्त्म कुम्भीका बिसवर्त्म च सिध्यति ||४२||
सनिमित्तोऽनिमित्तश्च द्वावसाध्यौ तु बाह्यजौ |
षट्सप्ततिर्विकाराणामेषा सङ्ग्रहकीर्तिता ||४३||
नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः |
शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः ||४४||
सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु |
बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ |
भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः ||४५||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालक्यतन्त्रे औपद्रविको नाम प्रथमोऽध्यायः ||१||
Last updated on July 8th, 2021 at 11:09 am