चरक संहिता
सूत्रस्थान ।
तृतीयोऽध्यायः ।
अथात आरग्वधीयमध्यायं व्याख्यास्यामः ॥१॥
इति ह स्माह भगवानात्रेयः ॥२॥
आरग्वधः सैडगजः करञ्जो
वासा गुडूची मदनं हरिद्रे ।
श्र्याह्वः सुराह्वः खदिरो धवश्च
निम्बो विडङ्गं करवीरकत्वक् ॥३॥
ग्रन्थिश्च भौर्जो लशुनः शिरीषः
सलोमशो गुग्गुलुकृष्णगन्धे ।
फणिज्झको वत्सकसप्तपर्णो
पीलूनि कुष्ठं सुमनः प्रवालाः ॥४॥
वचाहरेणुस्त्रिवृता निकुम्भो
भल्लातकं गैरिकमञ्जनं च ।
मनःशिलाले गृहधूम एला
काशीसलोध्रार्जुनमुस्तसर्जाः ॥५॥
इत्यर्धरूपैर्विहिताः षडेते
गोपित्तपीताः पुनरेव पिष्टाः
सिध्दाः परं सर्षपतैलयुक्ता-
श्चूर्णप्रदेहा भिषजा प्रयोज्याः ॥६॥
कुष्ठानि कृच्छ्राणि नवं किलासं
सुरेशलुप्तं किटिभं सदद्रु ।
भगन्दरार्शांस्यपचीं सपामां
हन्युः प्रयुक्तास्त्वचिरान्नराणाम् ॥७॥
कुष्ठं हरिद्रे सुरसं पटोलं
निम्बाश्वगन्धे सुरदारुशिग्रू ।
ससर्षपं तुम्बुरुधान्यवन्यं
चण्डां च चूर्णानि समानि कुर्यात् ॥८॥
तैस्तक्रपिष्टैः प्रथमं शरीरं
तैलाक्तमुद्वर्तयितुं यतेत ।
तेनास्यकण्डूः पिडकाः सकोठाः
कुष्ठानि शोफाश्च शमं व्रजन्ति ॥९॥
कुष्ठामृतासङ्गकटङ्कटेरी-
कासीसकम्पिल्लकमुस्तलोध्राः ।
सौगन्धिकं सर्जरसो विडङ्गं
मनःशिलाले करवीरकत्वक् ॥१०॥
तैलाक्तगात्रस्य कृतानि चूर्णा-
न्येतानि दद्यादवचूर्णनार्थम् ।
दद्रूः सकण्डूः किटिभानि पामा
विचर्चिका चैव तथैति शान्तिम् ॥११॥
मनःशिलाले मरिचानि तैल-
मार्क पयः कुष्ठहरः प्रदेहः ।
तुत्थं विडङ्गं मरिचानि कुष्ठं
लोध्रं च तद्वत् समनःशिलं स्यात् ॥१२॥
रसाञ्जनं सप्रपुनाडबीजं
युक्तं कपित्थस्य रसेन लेपः ।
करञ्जबीजैडगजं सकुष्ठं
गोमूत्रपिष्टं च परः प्रदेहः ॥१३॥
उभे हरिद्रे कुटजस्य बीजं
करञ्जबीजं सुमनः प्रवालान् ।
त्वचं समध्यां हयमारकस्य
लेपं तिलक्षारयुतं विदध्यात् ॥१४॥
मनःशिला त्वक् कुटजात् सकुष्ठात्
सलोमशः सैडगजः करञ्जः ।
ग्रन्थिश्च भौर्जः करवीरमूलं
चूर्णानि साध्यानि तुषोदकेन ॥१५॥
पलाशनिर्दाहरसेन चापि
कर्षोद्धृतान्याढकसंमितेन ।
दर्वीप्रलेपं प्रवदन्ति लेप-
मेतं पर कुष्ठनिसूदनाय ॥१६॥
पर्णानि पिष्ट्वा चतुरङ्गुलस्य
तक्रेण पर्णान्यथ काकमाच्याः ।
तैलाक्तगात्रस्य नरस्य कुष्ठा-
न्युद्वर्तयेदश्वहनच्छदैश्च ॥१७॥
कोलं कुलत्थाः सुरदारुरास्ना-
माषातसीतैलफलानि कुष्ठम् ।
वचा शताह्वा यवचूर्णमम्ल-
मुष्णानि वातामयिनां प्रदेहः ॥१८॥
आनूपमत्स्यामिषवेसवारै-
रुष्णैः प्रदेहः पवनापहः स्यात् ।
स्नेहैश्च तुर्भिर्दशमूलमिश्रै-
र्गन्धौषधैश्चानिलहः प्रदेहः ॥१९॥
तक्रेण युक्तं यवचूर्णमुष्णं
सक्षारमर्तिं जठरे निहन्यात् ।
कुष्ठं शताह्वां सवचां यवानां
चूर्णं सतैलाम्लमुशन्ति वाते ॥२०॥
उभे शताह्वे मधुकं मधूकं
बलां प्रियालं च कशेरुकं च ।
घृतं विदारीं च सितोपलां च
कुर्यात् प्रदेहं पवने सरक्ते ॥२१॥
रास्ना गुडूची मधुकं बले द्वे
सजीवकं सर्षभकं पयश्च ।
घृतं च सिद्धं मधुशेषयुक्तं
रक्तानिलार्तिं प्रणुदेत् प्रदेहः॥२२॥
वाते सरक्ते सघृतं प्रदेहो
गोधूमचूर्णं छगलीपयश्च ।
नतोत्पलं चन्दनकुष्ठयुक्तं
शिरोरुजायां सघृतं प्रदेहः ॥२३॥
प्रपौण्डरीकं सुरदारु कुष्ठं
यष्ट्याह्वमेला कमलोत्पले च ।
शिरोरुजायां सघृतः प्रदेहो
लोहैरकापद्मकचोरकैश्च ॥२४॥
रास्ना हरिद्रे नलदं शताह्वे
द्वे देवदारुणि सितोपला च ।
जीवन्तिमूलं सघृतं सतैल-
मालेपनं पार्श्वरुजासू कोष्णम् ॥२५॥
शैवालपद्मोत्पलवेत्रतुङ्ग-
प्रपौण्डरीकाण्यमृणाललोध्रम् ।
प्रियङ्गुकालेयकचन्दनानि
निर्वापणः स्यात् सघृतः प्रदेह ॥२६॥
सितालतावेतसपद्मकानि
यष्ट्याह्वमैन्द्री नलिनानि दूर्वा ।
यवासमूलं कुशकाशयोश्च
निर्वापणः स्याज्जलमेरका च ॥२७॥
शैलेयमेलागुरुणी सकुष्ठे
चण्डा नतं त्वक् सुरदारु रास्ना ।
शीतं निहन्यादचिरात् प्रदेहो
विषं शिरीषस्तु ससिन्धुवारः ॥२८॥
शिरीषलामज्जकहेमलोध्रै-
स्त्वग्दोषसंस्वेदहरः प्रघर्षः ।
पत्राम्बुलोध्राभयचन्दनानि
शरीरदौर्गन्ध्यहरः प्रदेहः ॥२९॥
तत्र श्लोकः-
इहात्रिजः सिद्धतमानुवाच
द्वात्रिंशत सिद्धमहर्षिपूज्यः ।
चूर्णप्रदेहान् विविधामयघ्ना-
नारग्वधीये जगतो हितार्थम् ॥३०॥
इत्यगिन्वेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आरग्वधीयो नाम तृतीयोऽध्यायः ॥३॥
Last updated on May 27th, 2021 at 08:48 am