चरकसंहिता
निदानस्थानम् ।
प्रथमोऽध्याय: ।
अथातो ज्वरनिदानं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
इह खलु हेतुर्निमित्तमायतनं कर्ता कारणं प्रत्यय: समुत्थानं निदानमित्यनर्थान्तरम् । तत् त्रिविधम् — असात्म्येन्द्रियार्थसंयोग:
प्रज्ञापराध: परिणामश्चेति ॥३॥
अतस्त्रिविधा व्याधय: प्रादुर्भवन्ति-आग्नेया:, सौम्या:, वायव्याश्च, द्विविधाश्चापरे-राजसा:, तामसाश्च ॥४॥
तत्र व्याधिरामयो गद आतङ्को यक्ष्मा ज्वरो विकारो रोग इत्यनर्थान्तरम् ॥५॥
तस्योपलब्धिर्निदानपूर्वरूपलिङ्गोपशयसंप्राप्तित: ॥६॥
तत्र निदानं कारणमित्युक्तमग्रे ॥७॥
पूर्वरूपं प्रागुत्पत्ति लक्षणं व्याधे: ॥८॥
प्रादुर्भूतलक्षणं पुनर्लिङ्गम् । तत्र लिङ्गमाकृतिर्लक्षणं चिह्नं संस्थानं व्यञ्जनं रूपमित्यनर्थान्तरम् ॥९॥
उपशय: पुनर्हेतुव्याधिविपरीतानां विपरीतार्थकारिणां चौषधाहारविहाराणामुपयोग: सुखानुबन्ध: ॥१०॥
संप्राप्तिर्जातिरागतिरित्यनर्थान्तरं व्याधे: ॥११॥
सा संख्याप्राधान्यविधिविकल्पबलकालविशेषैर्भिद्यते ॥(१)॥
संख्या तावद्यथा–अष्टौ ज्वरा:, पञ्च गुल्मा:, सप्त कुष्ठान्येवमादि: ॥(२)॥
प्राधान्यं पुनर्दोषाणां तरतमाभ्यामुपलभ्यते । तत्र द्वयोस्तर:, त्रिषु तम इति ॥(३)॥
विधिर्नाम–द्विविधा व्याधयो निजागन्तुभेदेन, त्रिविधास्त्रिदोषभेदेन चतुर्विधा: साध्यासाध्यमृदुदारुणभेदेन ॥(४)॥
समवेतानां पुनर्दोषाणामंशांशबलविकल्पो विकल्पोऽस्मिन्नर्थे ॥(५)॥
बलकालविशेष: पुनर्व्याधीनामृत्वहोरात्राहारकालविधिविनियतो भवति ॥१२॥
तस्माद्व्याधीन् भिषगनुपहतसत्त्वबुद्धिर्हेत्वादिभिर्भावैर्यथावदनुबुद्ध्येत।
इत्यर्थसंग्रहो निदानस्थानस्योद्दिष्टो भवति । तं विस्तरेणोपदिशन्तो भूयस्तरमतोऽनुव्याख्यास्याम: ॥१४॥
तत्र प्रथमत एव तावदाद्याँल्लोभाभिद्रोहकोपप्रभवानष्टौ व्याधीन्निदानपूर्वेण क्रमेण व्याख्यास्याम:, तथा सूत्रसंग्रहमात्रं चिकित्साया: ।
चिकित्सितेषु चोत्तरकालं यथोपचितविकाराननुव्याख्यास्याम: ॥१५॥
इह खलु ज्वर एवादौ विकाराणामुपदिश्यते, तत्प्रथमत्वाच्छारीराणाम् ॥१६॥
अथ खल्वष्टाभ्य: कारणेभ्यो ज्वर: संजायते मनुष्याणां, तद्यथा-वातात्, पित्तात्, कफात्, वातपित्ताभ्यां, वातकफाभ्यां पित्तकफाभ्यां,
वातपित्तकफेभ्य:, आगन्तोरष्टमात् कारणात् ॥१७॥
तस्य निदानपूर्वरूपलिङ्गोपशयविशेषाननुव्याख्यास्याम: ॥१८॥
रूक्षलघुशीतवमनविरेचनास्थापनशिरोविरेचनातियोगव्यायामवेगसंधारणानशनाभिघातव्यवायोद्वेगशोकशोणितातिषेकजागरणविषमशरीरन्यासेभ्योऽतिसेवितेभ्यो वायु: प्रकोपमापद्यते ॥१९॥
स यदा प्रकुपित: प्रविश्यामाशयमूष्मणा सह मिश्रीभूयाद्यमाहारपरिणामधातुं रसनामानमन्ववेत्य रसस्वेदवहानि स्रोतांसि पिधायाग्निमुपहत्य पक्तिस्थानादूष्माणं बहिर्निरस्य केवलं शरीरमनुप्रपद्यते, तदा ज्वरमभिनिर्वर्तयति ॥२०॥
तस्येमानि लिङ्गानि भवन्ति, तद्यथा–विषमारम्भविसर्गित्वम्, ऊष्मणो वैषम्यं, तीव्रतनुभावानवस्थानानि ज्वरस्य,जरणान्ते दिवसान्ते निशान्ते घर्मान्ते वा ज्वरस्याभ्यागमनमभिवृद्धिर्वा, विशेषेण परषारुणवर्णत्वं नखनयनवदनमूत्रपुरीषत्वचामत्यर्थं क्लृप्तीभावश्च, अनेकविधोपमाश्चलाचलाश्च वेदनास्तेषां तेषामङ्गावयवानां, तद्यथा–पादयो: सुप्तता, पिण्डिकयोरुद्वेष्टनं, जानुनो: केवलानां च सन्धीनां विश्लेषणम्, ऊर्वो: साद:, कटीपार्श्वपृष्ठस्कन्धबाह्वंसोरसां च भग्नरुग्णमृदितमथितचटितावपाटितावनुन्नत्वमिव, हन्वोश्चाप्रसिद्धि:, स्वनश्च कर्णयो:, शङ्खयोर्निस्तोद:, कषायास्यता आस्यवैरस्यं वा, मुखतालुकण्ठशोष:, पिपासा, हृदयग्रह:, शुष्कच्छर्दि:, शुष्ककास:, क्षवथूद्गारविनिग्रह:, अन्नरसखेद:, प्रसेकारोचकाविपाका:, विषादजृम्भाविनामवेपथुश्रमभ्रम प्रलापप्रजागररोमहर्षदन्तहर्षा:, उष्णाभिप्रायता, निदानोक्तानामनुपशयो विपरीतोपशयश्चेति वातज्वरस्य लिङ्गानि भवन्ति ॥२१॥
उष्णाम्ललवणक्षारकटुकाजीर्णभोजनेभ्योऽतिसेवितेभ्यस्तथा तीक्ष्णातपाग्निसंतापश्रमक्रोधविषमाहारेभ्यश्च पित्तं प्रकोपमापद्यते ॥२२॥
तद्यदा प्रकुपितमामाशयादूष्माणमुपसृज्याद्यमाहारपरिणामधातुं रसनामानमन्ववेत्य रस स्वेदवहानि स्रोतांसि पिधाय द्रवत्वादग्निमुपहत्य पक्तिस्थानादूष्माणं बहिर्निरस्य प्रपीडयत् केवलं शरीरमनुप्रपद्यते, तदा ज्वरमभिनिर्वर्तयति ॥२३॥
तस्येमानि लिङ्गानि भवन्ति, तद्यथा–युगपदेव केवले शरीरे ज्वरस्याभ्यागमनमभिवृद्धिर्वा भुक्तस्य विदाहकाले मध्यन्दिनेऽर्धरात्रे शरदि वा विशेषेण, कटुकास्यता, घ्राणमुखकण्ठौष्ठतालुपाक:, तृष्णा, मदो, भ्रमो, मूर्च्छा, पित्तच्छर्दनम्, अतीसार:, अन्नद्वेष:, सदनं, खेद:, प्रलाप:, रक्तकोठाभिनिर्वृत्ति: शरीरे, हरितहारिद्रत्वं नखनयनवदनमूत्रपुरीषत्वचाम्, अत्यर्थमूष्मणस्तीव्रभाव:, अतिमात्रं दाह:, शीताभिप्रायता, निदानोक्तानुपशयो विपरीतोपशयश्चेति पित्तज्वरलिङ्गानि भवन्ति ॥२४
स्निग्धगुरुमधुरपिच्छिलशीताम्ललवणदिवास्वप्नहर्षाव्यायामेभ्योऽतिसेवितेभ्य: श्लेष्मा प्रकोपमापद्यते ॥२५॥
स यदा प्रकुपित: प्रविश्यामाशयमूष्मणा सह मिश्रीभूयाद्यमाहारपरिणामधातुं रसनामानमन्ववेत्य रसस्वेदवहानि स्रोतांसि पिधायाग्निमुपहत्य पक्तिस्थानादूष्माणं बहिर्निरस्य प्रपीडयन् केवलं शरीरमनुप्रपद्यते, तदा ज्वरमभिनिर्वर्तयति ॥२६॥
तस्येमानि लिङ्गानि भवन्ति, तद्यथा–युगपदेव केवले शरीरे ज्वरस्याभ्यागमनमभिवृद्धिर्वा भुक्तमात्रे पूर्वाह्णे पूर्वरात्रे वसन्तकाले वा विशेषेण, गुरुगात्रत्वम्, अनन्नाभिलाष:, श्लेष्मप्रसेक:, मुखमाधुर्यं, हृल्लास:, हृदयोपलेप:, स्तिमितत्वं, छर्दि:, मृद्वग्निता, निद्राधिक्यं, स्तम्भ:, तन्द्रा, कास:, श्वास:, प्रतिश्याय:, शैत्यं, श्वैत्यं च नखनयनवदनमूत्रपुरीषत्वचाम्, अत्यर्थं च शीतपिडका भृशमङ्गेभ्य उत्तिष्ठन्ति, उष्णाभिप्रायता, निदानोक्तानुपशयो विपरीतोपशयश्च, इति (श्लेष्मज्वरलिङ्गानि भवन्ति) ॥२७॥
विषमाशनादनशनादन्नपरिवर्तादृतुव्यापत्तेरसात्म्यगन्धोपघ्राणाद्विषोपहतस्य चोदकस्योपयोगाद्गरेभ्यो गिरीणां चोपेश्लेषात् स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानामयथावत्प्रयोगात् मिथ्यासंसर्जनाद्वा स्त्रीणां च विषमप्रजननात् प्रजातानां च मिथ्योपचाराद् यथोक्तानां च हेतूनां मिश्रीभावाद्यथानिदानं द्वन्द्वानामन्यतम:, सर्वे वा त्रयो दोषा युगपत् प्रकोपमापद्यन्ते, ते प्रकुपितास्तयैवानुपूर्व्या ज्वरमभिनिर्वर्तयन्ति ॥२८॥
तत्र तथोक्तानां ज्वरलिङ्गानां मिश्रीभावविशेषदर्शनाद्द्वान्द्विकमन्यतमं ज्वरं सान्निपातिकं वा विद्यात् ॥२९॥
अभिघाताभिषङ्गाभिचाराभिशापेभ्य आगन्तुर्हि व्यथापूर्वोऽष्टमो ज्वरो भवति । स किंचित्कालमागन्तु: केवलो भूत्वा पश्चाद्दोषैरनुबध्यते । तत्राभिघातजो वायुना दुष्टशोणिताधिष्ठानेन, अभिषङ्गज: पुनर्वातपित्ताभ्याम्, अभिचाराभिशापजौ तु सन्निपातेनानुबध्येते ॥३०॥
स सप्तविधाज्ज्वराद्विशिष्टलिङ्गोपक्रमसमुत्थानत्वाद्विशिष्टो वेदितव्य:, कर्मणा साधारणेन चोपचर्यते । इत्यष्टविधा ज्वरप्रकृतिरुक्ता ॥३१॥
ज्वरस्त्वेक एव संतापलक्षण: । तमेवाभिप्रायविशेषादि्द्वविधमाचक्षते, निजागन्तुविशेषाच्च। तत्र निजं द्विविधं त्रिविधं चतुर्विधं सप्तविधं चाहुर्भिषजो वातादिविकल्पात् ॥३२॥
तस्येमानि पूर्वरूपाणि भवन्ति, तद्यथा–मुखवैरस्यं, गुरुगात्रत्वम्, अनन्नाभिलाष:, चक्षुषोराकुलत्वम्, अश्र्वागमनं, निद्राधिक्यम्, अरति:, जृम्भा, विनाम:, वेपथु:, श्रमभ्रमप्रलापजागरणरोमहर्षदन्तहर्षा:, शब्दशीतवातातपसहत्वासहत्वम्, अरोचकाविपाकौ, दौर्बल्यम्, अङ्गमर्द:, सदनम्, अल्पप्राणता, दीर्घसूत्रता, आलस्यम्, उचितस्य कर्मणो हानि:, प्रतीपता स्वकार्येषु गुरूणां वाक्येष्वभ्यसूया, बालेभ्य: प्रद्वेष:, स्वधर्मेष्वचिन्ता, माल्यानुलेपनभोजनपरिक्लेशनं, मधुरेभ्यश्च भक्षेभ्य: प्रद्वेष:, अम्ललवणकटुकप्रियता च, इति ज्वरस्य पूर्वरूपाणि भवन्ति प्राक्संतापात्, अपि चैनं संतापार्तमनुबध्नन्ति ॥३३॥
इत्येतान्येकैकशो ज्वरलिङ्गानि व्याख्यातानि भवन्ति विस्तरसमासाभ्याम् ॥३४॥
ज्वरस्तु खलु महेश्वरकोपप्रभव:, सर्वप्राणभृतां प्राणहरो, देहेन्द्रियमनस्तापकर:, प्रज्ञाबलवर्णहर्षोत्साहह्रासकर:, श्रमक्लममोहाहारोपरोधसंजनन:, ज्वरयति शरीराणीति ज्वर:, नान्ये व्याधयस्तथा दारुणा बहूपद्रवा दुश्चिकित्स्याश्च यथाऽयम् । स सर्वरोगाधिपति:, नानातिर्यग्योनिषु च बहुविधै: शब्दैरभिधीयते । सर्वे प्राणभृत: सज्वरा एव जायन्ते सज्वरा एव म्रियन्ते च । स महामोह:, तेनाभिभूता: प्राग्दैहिकं देहिन: कर्म किंचिदपि न स्मरन्ति, सर्वप्राणभृतां च ज्वर एवान्ते प्राणानादत्ते ॥३५॥
तत्र पूर्वरूपदर्शने ज्वरादौ वा हितं लघ्वशनमपतर्पणं वा, ज्वरस्यामाशयसमुत्थत्वात्, तत: कषायपानाभ्यङ्गस्नेहस्वेद- प्रदेहपरिषेकानुलेपनवमनविरेचनास्थापनानुवासनोपशमननस्त:कर्मधूपधूमपानाञ्जनक्षीरभोजनविधानं च यथास्वं युक्त्या प्रयोज्यम् ॥३६॥
जीर्णज्वरेषु तु सर्वेष्वेव सर्पिष: पानं प्रशस्यते यथास्वौषधसिद्धस्य । सर्पिर्हि यथास्वौषधसिद्धस्य, सर्पिर्हि स्नेहाद्वातं शमयति, संस्कारात् कफं, शैत्यात् पित्तमूष्माणं च । तस्माज्जीर्णज्वरेषु सर्वेष्वेव सर्पिर्हितमुदकमिवाग्निप्लुष्टेषु द्रव्येष्विति ॥३७॥
भवन्ति चात्र–
यथा प्रज्वलितं वेश्म परिषिञ्चन्ति वारिणा ।
नरा: शान्तिमभिप्रेत्य तथा जीर्णज्वरे घृतम् ॥३८॥
स्नेहाद्वातं शमयति, शैत्यात् पित्तं नियच्छति ।
घृतं तुल्यगुणं दोषं संस्कारात्तु जयेत् कफम् ॥३९॥
नान्य: स्नेहस्तथा कश्चित् संस्कारमनुवर्तते ।
यथा सर्पिरत: सर्पि: सर्वस्नेहोत्तमं मतम् ॥४०॥
गद्योक्तो य: पुन: श्लोकैरर्थ: समनुगीयते ।
तद्व्यक्तिव्यवसायार्थं द्विरुक्तं तन्न गर्ह्यते ॥४१॥
तत्र श्लोका:–
त्रिविधा नामपर्यायैर्हेतुं पञ्चविधं गदम् ।
गदलक्षणपर्यायान् व्याधे: पञ्चविधं ग्रहम् ॥४२॥
ज्वरमष्टविधं तस्य प्रकृष्टासन्नकारणम् ।
पूर्वरूपं च रूपं च भेषजं संग्रहेण च ॥४३॥
व्याजहार ज्वरस्याग्रे निदाने विगतज्वर: ।
भगवानग्निवेशाय प्रणताय पुनर्वसु: ॥४४॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने ज्वरनिदानं नाम प्रथमोऽध्याय: ॥१॥
Last updated on June 3rd, 2021 at 10:35 am