सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
सप्तदशोऽध्यायः ।
अथातो दृष्टिगतरोगप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
त्रयः साध्यास्त्रयोऽसाध्या याप्याः षट् च भवन्ति हि |
तत्रैकस्य प्रतीकारः कीर्तितो धूमदर्शिनः ||३||
दृष्टौ पित्तविदग्धायां विदग्धायां कफेन च |
पित्तश्लेष्महरं कुर्याद्विधिं शस्त्रक्षतादृते ||४||
नस्यसेकाञ्जनालेपपुटपाकैः सतर्पणैः |
आद्ये तु त्रैफलं पेयं सर्पिस्त्रैवृतमुत्तरे ||५||
तैल्वकं चोभयोः पथ्यं केवलं जीर्णमेव वा |
गैरिकं सैन्धवं कृष्णा गोदन्तस्य मषी तथा ||६||
गोमांसं मरिचं बीजं शिरीषस्य मनःशिला |
वृन्तं कपित्थान्मधुना स्वयङ्गुप्ताफलानि च ||७||
चत्वार एते योगाः स्युरुभयोरञ्जने हिताः |
कुब्जकाशोकशालाम्रप्रियङ्गुनलिनोत्पलैः ||८||
पुष्पैर्हरेणुकृष्णाह्वापथ्यामलकसंयुतैः |
सर्पिर्मधुयुतैश्चूर्णैर्वेणुनाड्यामवस्थितैः ||९||
अञ्जयेद् द्वावपि भिषक् पित्तश्लेष्मविभावितौ |
आम्रजम्बूद्भवं पुष्पं तद्रसेन हरेणुकाम् ||१०||
पिष्ट्वा क्षौद्राज्यसंयुक्तं प्रयोज्यमथवाऽञ्जनम् |
नलिनोत्पलकिञ्जल्कगैरिकैर्गोशकृद्रसैः ||११||
गुडिकाञ्जनमेतद्वा दिनरात्र्यन्धयोर्हितम् |
रसाञ्जनरसक्षौद्रतालीशस्वर्णगैरिकम् ||१२||
गोशकृद्रससंयुक्तं पित्तोपहतदृष्टये |
शीतं सौवीरकं वाऽपि पिष्ट्वाऽथ रसभावितम् ||१३||
कूर्मपित्तेन मतिमान् भावयेद्रौहितेन वा |
चूर्णाञ्जनमिदं नित्यं प्रयोज्यं पित्तशान्तये ||१४||
काशमरीपुष्पमधुकदार्वीरोध्ररसाञ्जनैः |
सक्षौद्रमञ्जनं तद्वद्धितमत्रामये सदा ||१५||
स्रोतोजं सैन्धवं कृष्णां रेणुकां चापि पेषयेत् |
अजामूत्रेण ता वर्त्यः क्षणदान्ध्याञ्जने हिताः ||१६||
कालानुसारिवां कृष्णां नागरं मधुकं तथा |
तालीशपत्रं क्षणदे गाङ्गेयं च यकृद्रसे ||१७||
कृतास्ता वर्तयः पिष्टाश्छायाशुष्काः सुखावहाः |
मनःशिलाभयाव्योषबलाकालानुसारिवाः ||१८||
सफेना वर्तयः पिष्टाश्छागक्षीरसमन्विताः |
गोमूत्रपित्तमदिरायकृद्धात्रीरसे पचेत् ||१९||
क्षुद्राञ्जनं रसेनान्यद्यकृतस्त्रैफलेऽपि वा |
गोमूत्राज्यार्णवमलपिप्पलीक्षौद्रकट्फलैः ||२०||
सैन्धवोपहितं युञ्ज्यान्निहितं वेणुगह्वरे |
मेदो यकृद्धृतं चाजं पिप्पल्यः सैन्धवं मधु ||२१||
रसमामलकाच्चापि पक्वं सम्यङ्निधापयेत् |
कोशे खदिरनिर्माणे तद्वत् क्षुद्राञ्जनं हितम् ||२२||
हरेणुमगधाजास्थिमज्जैलायकृदन्वितम् |
यकृद्रसेनाञ्जनं वा श्लेष्मोपहतदृष्टये ||२३||
विपाच्य गोधायकृदर्धपाटितं सुपूरितं मागधिकाभिरग्निना |
निषेवितं तद्यकृदञ्जनेन निहन्ति नक्तान्ध्यमसंशयं खलु ||२४||
तथा यकृच्छागभवं हुताशने विपाच्य सम्यङ्मगधासमन्वितम् |
प्रयोजितं पूर्ववदाश्वसंशयं जयेत् क्षपान्ध्यं सकृदञ्जनान्नृणाम् ||२५||
प्लीहा यकृच्चाप्युपभक्षिते उभे प्रकल्प्य शूल्ये घृततैलसंयुते |
ते सार्षपस्नेहसमायुतेऽञ्जनं नक्तान्ध्यमाश्वेव हतः प्रयोजिते ||२६||
नदीजशिम्बीत्रिकटून्यथाञ्जनं मनःशिला द्वे च निशे य(श)कृद्गवाम् |
सचन्दनेयं गुटिकाऽथवाऽञ्जनं प्रशस्यते वै दिवसेष्वपश्यताम् ||२७||
भवन्ति याप्याः खलु ये षडामया हरेदसृक्तेषु सिराविमोक्षणैः |
विरेचयेच्चापि पुराणसर्पिषा विरेचनाङ्गोपहितेन सर्वदा ||२८||
पयोविमिश्रं पवनोद्भवे हितं वदन्ति पञ्चाङ्गुलतैलमेव तु |
भवेद्धृतं त्रैफलमेव शोधनं विशेषतः शोणितपित्तरोगयोः ||२९||
त्रिवृद्विरेकः कफजे प्रशस्यते त्रिदोषजे तैलमुशन्ति तत्कृतम् |
पुराणसर्पिस्तिमिरेषु सर्वशो हितं भवेदायसभाजनस्थितम् ||३०||
हितं च विद्यात्त्रिफलाघृतं सदा कृतं च यन्मेषविषाणनामभिः |
सदाऽवलिह्यात्त्रिफलं सुचूर्णितां घृतप्रगाढां तिमिरेऽथ पित्तजे ||३१||
समीरजे तैलयुतां कफात्मके मधुप्रगाढां विदधीत युक्तितः |
गवां शकृत्क्वाथविपक्वमुत्तमं हितं तु तैलं तिमिरेषु नावनम् ||३२||
हितं घृतं केवल एव पैत्तिके ह्यजाविकं यन्मधुरैर्विपाचितम् |
तैलं स्थिरादौ मधुरे च यद्गणे तथाऽणुतैलं पवनासृगुत्थयोः ||३३||
सहाश्वगन्धातिबलावरीशृतं हितं च नस्ये त्रिवृतं यदीरितम् |
जलोद्भवानूपजमांससंस्कृताद्धृतं विधेयं पयसो यदुत्थितम् ||३४||
ससैन्धवः क्रव्यभुगेणमांसयोर्हितः ससर्पिः समधुः पुटाह्वयः |
वसाऽथ गृध्रोरगताम्रचूडजा सदा प्रशस्ता मधुकान्विताऽञ्जने ||३५||
प्रत्यञ्जनं स्रोतसि यत्समुत्थितं क्रमाद्रसक्षीरघृतेषु भावितम् |
स्थितं दशाहत्रयमेतदञ्जनं कृष्णोरगास्ये कुशसम्प्रवेष्टिते ||३६||
तन्मालतीकोरकसैन्धवायुतं सदाऽञ्जनं स्यात्तिमिरेऽथ रागिणि |
सुभावितं वा पयसा दिनत्रयं काचापहं शास्त्रविदः प्रचक्षते ||३७||
हविर्हितं क्षीरभवं तु पैत्तिके वदन्ति नस्ये मधुरौषधैः कृतम् |
तत्तर्पणे चैव हितं प्रयोजितं सजाङ्गलस्तेषु च यः पुटाह्वयः ||३८||
रसाञ्जनक्षौद्रसितामनःशिलाः क्षुद्राञ्जनं तन्मधुकेन संयुतम् |
समाञ्जनं वा कनकारोद्भवं सुचूर्णितं श्रेष्ठमुशन्ति तद्विदः ||३९||
भिल्लोटगन्धोदकसेकसेचितं प्रत्यञ्जने चात्र हितं तु तुत्थकम् |
समेषशृङ्गाञ्जनभागसम्मितं जलोद्भवं काचमलं व्यपोहति ||४०||
पलाशरोहीतमधूकजा रसाः क्षौद्रेण युक्ता मदिराग्रमिश्रिताः |
उशीरलोध्रत्रिफलाप्रियङ्गुभिः पचेत्तु नस्यं कफरोगशान्तये ||४१||
विडङ्गपाठाकिणिहीङ्गुदीत्वचः प्रयोजयेद्धूममुशीरसंयुताः |
वनस्पतिक्वाथविपाचितं घृतं हितं हरिद्रानलदे च तर्पणम् ||४२||
समागधो माक्षिकसैन्धवाढ्यः सजाङ्गलः स्यात् पुटपाक एव च |
मनःशिलात्र्यूषणशङ्खमाक्षिकैः ससिन्धुकासीसरसाञ्जनैः क्रियाः ||४३||
हिते च कासीसरसाञ्जने तथा वदन्ति पथ्ये गुडनागरैर्युते |
यदञ्जनं वा बहुशो निषेचितं समूत्रवर्गे त्रिफलोदके शृते ||४४||
निशाचरास्थिस्थितमेतदञ्जनं क्षिपेच्च मासं सलिलेऽस्थिरे पुनः |
मेषस्य पुष्पैर्मधुकेन संयुतं तदञ्जनं सर्वकृते प्रयोजयेत् ||४५||
क्रियाश्च सर्वाः, क्षतजोद्भवे हितः क्रमः परिम्लायिनि चापि पित्तहृत् |
क्रमो हितः स्यन्दहरः प्रयोजितः समीक्ष्य दोषेषु यथास्वमेव च ||४६||
दोषोदये नैव च विप्लतिङ्गते द्रव्याणि नस्यादिषु योजयेद्बुधः |
पुनश्च कल्पेऽञ्जनविस्तरः शुभः प्रवक्ष्यतेऽन्यस्तमपीह योजयेत् ||४७||
घृतं पुराणं त्रिफलां शतावरीं पटोलमुद्गामलकं यवानपि |
निषेवमाणस्य नरस्य यत्नतो भयं सुघोरात्तिमिरान्न विद्यते ||४८||
शतावरीपायस एव केवलस्तथा कृतो वाऽऽमलकेषु पायसः |
प्रभूतसर्पिस्त्रिफलोदकोत्तरो यवौदनो वा तिमिरं व्यपोहति ||४९||
जीवन्तिशाकं सुनिषण्णकं च सतण्डुलीयं वरवास्तुकं च |
चिल्ली तथा मूलकपोतिका च दृष्टेर्हितं शाकुनजाङ्गलं च ||५०||
पटोलकर्कोटककारवेल्लवार्ताकुतर्कारिकरीरजानि |
शाकानि शिग्र्वार्तगलानि चैव हितानी दृष्टेर्घृतसाधितानि ||५१||
विवर्जयेत्सिरामोक्षं तिमिरे रागमागते |
यन्त्रेणोत्पीडितो दोषो निहन्यादाशु दर्शनम् ||५२||
अरागि तिमिरं साध्यमाद्यं पटलमाश्रितम् |
कृच्छ्रं द्वितीये रागि स्यात्तृतीये याप्यमुच्यते ||५३||
रागप्राप्तेष्वपि हितास्तिमिरेषु तथा क्रियाः |
यापनार्थं यथोद्दिष्टाः सेव्याश्चापि जलौकसः ||५४||
श्लैष्मिके लिङ्गनाशे तु कर्म वक्ष्यामि सिद्धये |
न चेदर्धेन्दुघर्माम्बुबिन्दुमुक्ताकृतिः स्थिरः ||५५||
विषमो वा तनुर्मध्ये राजिमान् वा बहुप्रभः |
दृष्टिस्थो लक्ष्यते दोषः सरुजो वा सलोहितः ||५६||
स्निग्धस्विन्नस्य तस्याथ काले नात्युष्णशीतले |
यन्त्रितस्योपविष्टस्य स्वां नासां पश्यतः समम् ||५७||
मतिमान् शुक्लभागौ द्वौ कृष्णान्मुक्त्वा ह्यपाङ्गतः |
उन्मील्य नयने सम्यक् सिराजालविवर्जिते ||५८||
नाधो नोर्ध्वं न पार्श्वाभ्यां छिद्रे दैवकृते ततः |
शलाकया प्रयत्नेन विश्वस्तं यववक्रया ||५९||
मध्यप्रदेशिन्यङ्गुष्ठस्थिरहस्तगृहीतया |
दक्षिणेन भिषक् सव्यं विध्येत् सव्येन चेतरत् ||६०||
वारिबिन्द्वागमः सम्यग् भवेच्छब्दस्तथा व्यधे |
संसिच्य विद्धमात्रं तु योषित्स्तन्येन कोविदः ||६१||
स्थिरे दोषे चले वाऽपि स्वेदयेदक्षि बाह्यतः |
सम्यक् शलाकां संस्थाप्य भङ्गैरनिलनाशनैः ||६२||
शलाकाग्रेण तु ततो निर्लिखेद्दृष्टिमण्डलम् |
विध्यतो योऽन्यपार्श्वेऽक्ष्णस्तं रुद्ध्वा नासिकापुटम् ||६३||
उच्छिङ्घनेन हर्तव्यो दृष्टिमण्डलगः कफः |
निरभ्र इव घर्मांशुर्यदा दृष्टिः प्रकाशते ||६४||
तदाऽसौ लिखिता सम्यग् ज्ञेया या चापि निर्व्यथा |
(एवं त्वशक्ये निर्हर्तुं दोषे प्रत्यागतेऽपि वा ||६५||
स्नेहाद्यैरुपपन्नस्य व्यधो भूयो विधीयते) |
ततो दृष्टेषु रूपेषु शलाकामाहरेच्छनैः ||६६||
घृतेनाभ्यज्य नयनं वस्त्रपट्टेन वेष्टयेत् |
ततो गृहे निराबाधे शयीतोत्तान एव च ||६७||
उद्गारकासक्षवथुष्ठीवनोत्कम्पनानि च |
तत्कालं नाचरेदूर्ध्वं यन्त्रणा स्नेहपीतवत् ||६८||
त्र्यहात् त्र्यहाच्च धावेत कषायैरनिलापहैः |
वायोर्भयात् त्र्यहादूर्ध्वं स्वेदयेदक्षि पूर्ववत् ||६९||
दशाहमेवं संयम्य हितं दृष्टिप्रसादनम् |
पश्चात्कर्म च सेवेत लघ्वन्नं चापि मात्रया ||७०||
सिराव्यधविधौ पूर्वं नरा ये च विवार्जिताः |
न तेषां नीलिकां विध्येदन्यत्राभिहिताद्भिषक् ||७१||
पूर्यते शोणितेनाक्षि सिरावेधाद्विसर्पता |
तत्र स्त्रीस्तन्ययष्ट्याह्वपक्वं सेके हितं घृतम् ||७२||
अपाङ्गासन्नविद्धे तु शोफशूलाश्रुरक्तताः |
तत्रोपनाहं भ्रूमध्ये कुर्याच्चोष्णाज्यसेचनम् ||७३||
व्यधेनासन्नकृष्णेन रागः कृष्णं च पीड्यते |
तत्राधःशोधनं सेकः सर्पिषा रक्तमोक्षणम् ||७४||
अथाप्युपरि विद्धे तु कष्टा रुक् सम्प्रवर्तते |
तत्र कोष्णेन हविषा परिषेकः प्रशस्यते ||७५||
शूलाश्रुरागास्त्वत्यर्थमधोवेधेन पिच्छिलः |
शलाकामनु चास्रावस्तत्र पूर्वचिकित्सितम् ||७६||
रागाश्रुवेदनास्तम्भहर्षाश्चातिविघट्टिते |
स्नेहस्वेदौ हितौ तत्र हितं चाप्यनुवासनम् ||७७||
दोषस्त्वधोऽपकृष्टोऽपि तरुणः पुनरूर्ध्वगः |
कुर्याच्छुक्लारुणं नेत्रं तीव्ररुङ्नष्टदर्शनम् ||७८||
मधुरैस्तत्र सिद्धेन घृतेनाक्ष्णः प्रसेचनम् |
शिरोबस्तिं च तेनैव दद्यान्मांसैश्च भोजनम् ||७९||
दोषस्तु सञ्जातबलो घनः सम्पूर्णमण्डलः |
प्राप्य नश्येच्छलाकाग्रं तन्वभ्रमिव मारुतम् ||८०||
मूर्धाभिघातव्यायामव्यवायवमिमूर्च्छनैः |
दोषः प्रत्येति कोपाच्च विद्धोऽतितरुणश्च यः ||८१||
शलाका कर्कशा शूलं, खरा दोषपरिप्लुतिम् |
व्रणं विशालं स्थूलाग्रा, तीक्ष्णा हिंस्यादनेकधा ||८२||
जलास्रावं तु विषमा, क्रियासङ्गमथास्थिरा |
करोति वर्जिता दोषैस्तस्मादेभिर्हिता भवेत् ||८३||
अष्टाङ्गुलायता मध्ये सूत्रेण परिवेष्टिता |
अङ्गुष्ठपर्वसमिता वक्त्रयोर्मुकुलाकृतिः ||८४||
ताम्रायसी शातकुम्भी शलाका स्यादनिन्दिता |
रागः शोफोऽर्बुदं चोषो बुद्बुदं शूकराक्षिता ||८५||
अधिमन्थादयश्चान्ये रोगाः स्युर्व्यधदोषजाः |
अहिताचारतो वाऽपि यथास्वं तानुपाचरेत् ||८६||
रुजायामक्षिरागे वा योगान् भूयो निबोध मे |
गैरिकं सारिवा दूर्वा यवपिष्टं घृतं पयः ||८७||
सुखालेपः प्रयोज्योऽयं वेदनारागशान्तये |
मृदुभृष्टैस्तिलैर्वाऽपि सिद्धार्थकसमायुतैः ||८८||
मातुलुङ्गरसोपेतैः सुखालेपस्तदर्थकृत् |
पयस्यासारिवापत्रमञ्जिष्ठामधुकैरपि ||८९||
अजाक्षीरान्वितैर्लेपः सुखोष्णः पथ्य उच्यते |
दारुपद्मकशुण्ठीभिरेवमेव कृतोऽपि वा ||९०||
द्राक्षामधुककुष्ठैर्वा तद्वत् सैन्धवसंयुतैः |
रोध्रसैन्धवमृद्वीकामधुकैर्वाऽप्यजापयः ||९१||
शृतं सेके प्रयोक्तव्यं रुजारागनिवारणम् |
मधुकोत्पलकुष्ठैर्वा द्राक्षालाक्षासितायुतैः |
ससैन्धवैः शृतं क्षीरं रुजारागनिबर्हणम् ||९२||
शतावरीपृथक्पर्णीमुस्तामलकपद्मकैः |
साजक्षीरैः शृतं सर्पिर्दाहशूलनिबर्हणम् ||९३||
वातघ्नसिद्धे पयसि सिद्धं सर्पिश्चतुर्गुणे |
काकोल्यादिप्रतीवापं तद्युञ्ज्यात् सर्वकर्मसु ||९४||
शाम्यत्येवं न चेच्छूलं स्निग्धस्विन्नस्य मोक्षयेत् |
ततः सिरां दहेद्वाऽपि मतिमान् कीर्तितं यथा ||९५||
दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे |
मेषशृङ्गस्य पुष्पाणि शिरीषधवयोरपि ||९६||
सुमनायाश्च पुष्पाणि मुक्ता वैदूर्यमेव च |
अजाक्षीरेण सम्पिष्य ताम्रे सप्ताहमावपेत् ||९७||
प्रविधाय च तद्वर्तीर्योजयेच्चाञ्जने भिषक् |
स्रोतोजं विद्रुमं फेनं सागरस्य मनःशिलाम् ||९८||
मरिचानि च तद्वर्तीः कारयेच्चापि पूर्ववत् |
दृष्टिस्थैर्यार्थमेतत्तु विदध्यादञ्जने हितम् ||९९||
भूयो वक्ष्यामि मुख्यानि विस्तरेणाञ्जनानि च |
कल्पे नानाप्रकाराणि तान्यपीह प्रयोजयेत् ||१००||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे दृष्टिगतरोगविज्ञानीयो नाम सप्तदशोऽध्यायः ||१७||
Last updated on July 8th, 2021 at 11:44 am