चरकसंहिता
विमानस्थानम् ।
चतुर्थोऽध्याय: ।
अथातस्त्रिविधरोगविशेषविज्ञानीयं विमानं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
त्रिविधं खलु रोगविशेषविज्ञानं भवति; तद्यथा आप्तोपदेश:, प्रत्यक्षम्, अनुमानं चेति ॥३॥
तत्राप्तोपदेशो नामाप्तवचनम् । आप्ता ह्यवितर्कस्मृतिविभागविदो निष्प्रीत्युपतापदर्शिनश्च । तेषामेवंगुणयोगाद्यद्वचनं तत् प्रमाणम् । अप्रमाणं पुनर्मत्तोन्मत्तमूर्खरक्तदुष्टादुष्टवचनमिति; प्रत्यक्षं तु खलु तद्यत् स्वयमिन्द्रियैर्मनसा चोपलभ्यते । अनुमानं खलु तर्को युक्त्यपेक्ष: ॥४॥
त्रिविधेन खल्वनेन ज्ञानसमुदायेन पूर्वं परीक्ष्य रोगं सर्वथा सर्वमथोत्तरकालमध्यवसानमदोषं भवति, न हि ज्ञानावयवेन कृत्स्ने ज्ञेये ज्ञानमुत्पद्यते । त्रिविधे त्वस्मिन् ज्ञानसमुदये पूर्वमाप्तोपदेशाज्ज्ञानं, तत: प्रत्यक्षानुमानाभ्यां परीक्षोपपद्यते । किं ह्यनुपदिष्टं पूर्वं यत्तत् प्रत्यक्षानुमानाभ्यां परीक्षमाणो विद्यात् । तस्माद् द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षम्, अनुमानं च; त्रिविधा वा सहोपदेशेन ॥५॥
तत्रेदमुपदिशन्ति बुद्धिमन्त:– रोगमेकैकमेवंप्रकोपणमेवंयोनिमेवमुत्थानमेवमात्मानमेवमधिष्ठानमेवंवेदनमेवंसंस्थानमेवं- शब्दस्पर्शरूपरसगन्धमेवमुपद्रवमेवंवृद्धिस्थानक्षयसमन्वितमेवमुदर्कमेवंनामानमेवंयोगं विद्यात् तस्मिन्नियं प्रतीकारार्था प्रवृत्तिरथवा निवृत्तिरित्युपदेशाज्ज्ञायते ॥६॥
प्रत्यक्षतस्तु खलु रोगतत्त्वं बुभुत्सु: सर्वैरिन्द्रियै: सर्वानिन्द्रियार्थानातुरशरीरगतान् परीक्षेत, अन्यत्ररसज्ञानात्; तद्यथा- अन्त्रकूजनं, सन्धिस्फुटनमङ्गुलीपर्वणां च, स्वरविशेषांश्च, ये चान्येऽपि केचिच्छरीरोपगता: शब्दा: स्युताञ्छ्रोत्रेण परीक्षेत; वर्णसंस्थानप्रमाणच्छाया:, शरीरप्रकृतिविकारौ, चक्षुर्वैषयिकाणि यानि चान्यान्यनुक्तानि तानि चक्षुषा परीक्षेत; रसं तु खल्वातुरशरीरगतमिन्द्रिय-वैषयिकमप्यनुमानादवगच्छेत्, न ह्यस्य प्रत्यक्षेण ग्रहणमुपपद्यते, तस्मादातुरपरिप्रश्नेनैवातुरमुखरसं विद्यात्, यूकापसर्पणेन त्वस्य शरीरवैरस्यं, मक्षिकोपसर्पणेन शरीरमाधुर्यं, लोहितपित्तसंदेहे तु किं धारिलोहितं लोहितपित्तं वेति श्वकाकभक्षणाद्धारिलोहितमभक्षणाल्लोहितपित्तमित्यनुमातव्यम्, एवमन्यानप्यातुरशरीरगतान् रसाननुमिमीत; गन्धांस्तु खलु सर्वशरीरगतानातुरस्य प्रकृतिवैकारिकान् घ्राणेन परीक्षेत; स्पर्शं च पाणिना प्रकृतिविकृतियुक्तम् । इति प्रत्यक्षतोऽनुमानादुपदेशतश्च परीक्षणमुक्तम् ॥७॥
इमे तु खल्वन्येऽप्येवमेव भूयोऽनुमानज्ञेया भवन्ति भावा: । तद्यथा—अग्निं जरणशक्त्या परीक्षेत, बलं व्यायामाशक्त्या, श्रोत्रादीनि शब्दाद्यर्थग्रहणेन, मनोऽर्थाव्यभिचरणेन, विज्ञानं व्यवसायेन, रज: सङ्गेन, मोहमविज्ञानेन, क्रोधमभिद्रोहेण, शोकं दैन्येन, हर्षमामोदेन, प्रीतिं तोषेण, भयं विषादेन, धैर्यमविषादेन, वीर्यमुत्थानेन, अवस्थानमविभ्रमेण, श्रद्धामभिप्रायेण, मेधां ग्रहणेन, संज्ञां नामग्रहणेन, स्मृतिं स्मरणेन, ह्रियमपत्रपणेन, शीलमनुशीलनेन, द्वेषं प्रतिषेधेन, उपधिमनुबन्धेन, धृतिमलौल्येन, वश्यतां विधेयतया, वयोभक्तिसात्म्यव्याधिसमुत्थानानि कालदेशोपशयवेदनाविशेषेण, गूढलिङ्गं व्याधिमुपशयानुपशयाभ्यां, दोषप्रमाण- विशेषमपचारविशेषेण, आयुष: क्षयमरिष्टै:, उपस्थितश्रेयस्त्वं कल्याणाभिनिवेशेन, अमलं सत्त्वमविकारेण, ग्रहण्यास्तु मृदुदारुणत्वं स्वप्नदर्शनमभिप्रायं द्विष्टेष्टसुखदु:खानि चातुरपरिप्रश्नेनैव विद्यादिति ॥८॥
भवन्ति चात्र–
आप्ततश्चोपदेशेन प्रत्यक्षकरणेन च ।
अनुमानेन च व्याधीन् सम्यग्विद्याद्विचक्षण: ॥९॥
सर्वथा सर्वमालोच्य यथासंभवमर्थवित् ।
अथाध्यवस्येत्तत्त्वे च कार्ये च तदनन्तरम् ॥१०॥
कार्यतत्त्वविशेषज्ञ: प्रतिपत्तौ न मुह्यति ।
अमूढ: फलमाप्नोति यदमोहनिमित्तजम् ॥११॥
ज्ञानबुद्धिप्रदीपेन यो नाविशति तत्त्ववित् ।
आतुरस्यान्तरात्मानं न स रोगांश्चिकित्सति ॥१२॥
तत्र श्लोकौ–
सर्वरोगविशेषाणां त्रिविधं ज्ञानसंग्रहम् ।
यथा चोपदिशन्त्याप्ता: प्रत्यक्षं गृह्यते यथा ॥१३॥
ये यथा चानुमानेन ज्ञेयास्तांश्चाप्युदारधी: ।
भावांस्त्रिरोगविज्ञाने विमाने मुनिरुक्तवान् ॥१४॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने त्रिविधरोगविशेषविज्ञानीयं विमानं नाम
चतुर्थोऽध्याय: ॥४॥
Last updated on June 7th, 2021 at 10:44 am