चरकसंहिता
कल्पस्थानम् ।
द्वितीयोऽध्याय: ।
अथातो जीमूतककल्पं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
कल्पं जीमूतकस्येमं फलपुष्पाश्रयं शृणु ।
गरागरी च वेणी च तथा स्याद्देवताडक: ॥३॥
जीमूतकं त्रिदोषघ्नं यथास्वौषधकल्पितम् ।
प्रयोक्तव्यं ज्वरश्वासहिक्काद्येष्वामयेषु च ॥४॥
यथोक्तगुणयुक्तानां देशजानां यथाविधि ।
पय: पुष्पेऽस्य, निर्वृत्ते फले पेया पयस्कृता ॥५॥
लोमशे क्षीरसंतानं, दध्युत्तरमलोमशे ।
शृते पयसि दध्यम्लं जातं हरितपाण्डुके ॥६॥
जीर्णानां च सुशुष्काणां न्यस्तानां भाजने शुचौ ।
चूर्णस्य पयसा शुक्तिं वातपित्तार्दित: पिबेत् ॥७॥
आसुत्य च सुरामण्डे मृदित्वा प्रस्रुतं पिबेत् ।
कफजेऽरोचके कासे पाण्डुरोगे सयक्ष्मणि ॥८॥
द्वे चापोथ्याथवा त्रीणि गुडूच्या मधुकस्य वा ।
कोविदारादिकानां वा निम्बस्य कुटजस्य वा ॥९॥
कषायेष्वासुतं पूत्वा तेनैव विधिना पिबेत् ।
अथवाऽऽरग्वधादीनां सप्तानां पूर्ववत् पिबेत् ॥१०॥
एकैकस्य कषायेण पित्तश्लेष्मज्वरार्दित: ।
मात्रा: स्यु: फलवच्चाष्टौ कोलमात्रास्तु ता मता: ॥११॥
जीवकर्षभकेक्षूणां शतावर्या रसेन वा ।
पित्तश्लेष्मज्वरे दद्याद्वातपित्तज्वरेऽथवा ॥१२॥
तथा जीमूतकक्षीरात् समुत्पन्नं पचेद्घृतम् ।
फलादीनां कषायेण श्रेष्ठं तद्वमनं मतम् ॥१३॥
तत्र श्लोकौ–
षट् क्षीरे मदिरामण्डे एको द्वादश चापरे ।
सप्त चारग्वधादीनां कषायेऽष्टौ च वर्तिषु ॥१४॥
जीवकादिषु चत्वारो घृतं चैकं प्रकीर्तितम् ।
कल्पे जीमूतकानां च योगास्त्रिंशन्नवाधिका: ॥१५॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते
दृढबलसंपूरिते कल्पस्थाने जीमूतककल्पो
नाम द्वितीयोऽध्याय: ॥२॥
Last updated on July 2nd, 2021 at 06:53 am