अष्टाङ्गहृदये (उत्तरस्थानम्)
मुषिकालर्कविषप्रतिषेधं अष्टत्रिंशोऽध्यायः।
अथातो मूषिकालर्कविषप्रतिषेधं व्याख्यास्यामः।
इति ह स्माहु रात्रेयादयो महर्षयः।
लालनश्चलः पुत्रो हसिरश्चिक्किरोऽजिरः।
कषायदन्तः कुलकः कोकिलः कपिलोऽसितः॥१॥
अरुणः शबलः श्वेतः कपोतः पलितोन्दुरः।
छुच्छुन्दरो रसालाख्यो दशाष्टौ चेति मूषिकाः॥२॥
शुक्रं पतति यत्रैषां शुक्रदिग्धैः स्पृशन्ति वा।
यदङ्गमङ्गैस्तत्रास्रे दूषिते पाण्डुतां गते॥३॥
ग्रन्थयः श्वयथुः कोठो मण्डलानि भ्रमोऽरुचिः।
शीतज्वरोऽतिरुक्सादो वेपथुः पर्वभेदनम्॥४॥
रोमहर्षः स्रुतिर्मूर्च्छा दीर्घकालानुबन्धनम्।
श्लेष्मानुबद्धबाह्वाखुपोतकच्छर्दनं सतृट्॥५॥
व्यवाय्याखुविषं कृच्छ्रं भूयो भूयश्च कुप्यति।
मूर्च्छाङ्गशोफवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः॥६॥
शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यलक्षणम्।
शूनबस्तिं विवर्णौष्ठमाख्वाभैर्ग्रन्थिभिश्चितम्॥७॥
छुच्छुन्दरसगन्धं च वर्जयेदाखुदूषितम्।
शुनः श्लेष्मोल्बणा दोषाः संज्ञां संज्ञावहाश्रिताः॥८॥
मुष्णन्तः कुर्वते क्षोभं धातुनामतिदारुणम्।
लालावानन्धबधिरः सर्वतः सोऽभिधावति॥९॥
स्रस्तपुच्छहनुस्कन्धः शिरोदुःखी नताननः।
दंशस्तेन विदष्टस्य सुप्तः कृष्णं क्षरत्यसृक्॥१०॥
हृच्छिरोरुग्ज्वरस्तम्भतृष्णामूर्च्छोद्भवोऽनु च।
अनेनान्येऽपि बोद्धव्या व्याला दंष्ट्राप्रहारिणः॥११॥
शृगालश्वतराश्वर्क्षद्वीपिव्याघ्रवृकादयः।
कण्डूनिस्तोदवैवर्ण्यसुप्तिक्लेदज्वरभ्रमाः॥१२॥
विदाहरागरुक्पाकशोफग्रन्थिविकुञ्चनम्।
दंशावदरणं स्फोटाः कर्णिका मण्डलानि च ॥१३॥
सर्वत्र सविषे लिङ्गं, विपरीतं तु निर्विषे।
दष्टो येन तु तच्चेष्टारुतं कुर्वन् विनश्यति॥१४॥
पश्यंस्तमेव चाकस्मादादर्शसलिलादिषु।
योऽस्त्रस्येददष्टोऽपि शब्दसंस्पर्शदर्शनैः॥१५॥
जलसन्त्रासनामानं दष्टं तमपि वर्जयेत्।
आखुना दष्टमात्रस्य दंशं काण्डेन दाहयेत्॥१६॥
दर्पणेनाथवा, तीव्ररुजा स्यात्कर्णिकाऽन्यथा।
दग्धं विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत्॥१७॥
शिरीषरजनीवक्रकुड्कुमामृतवल्लिभिः।
अगारधूममञ्जिष्ठारजनीलवणोत्तमैः॥१८॥
लेपो जयत्यखुविषं कर्णिकायाश्च पातनः।
ततोऽम्लैः क्षालयित्वाऽनु तोयैरनु च लेपयेत्॥१९॥
पालिन्दीश्वेतकटभीबिल्वमूलगुडूचिभिः।
अन्यैश्च विषशोफघ्नैः सिरां वा मोक्षयेद्द्रुतम्॥२०॥
छर्दनं नीलिनीक्वाथैः शुकाख्याङ्कोल्लयोरपि।
कोशातक्याः शुकाख्यायाः फलं जीमूतकस्य च॥२१॥
मदनस्य च सञ्चूर्ण्य दध्ना पीत्वा विषं वमेत्।
वचामदनजीमूतकुष्ठं वा मूत्रपेषितम्॥२२॥
पूर्वकल्पेन पातव्यं सर्वोन्दुरविषापहम्।
विरेचनं त्रिवृन्नीलीत्रिफलाकल्क इष्यते॥२३॥
शिरोविरेचने सारः शिरीषस्य फलानि च।
अञ्जनं गोमयरसो व्योषसूक्ष्मरजोन्वितः॥२४॥
कपित्थगोमयरसो मधुमानवलेहनम्।
तन्दुलीयकमूलेन सिद्धं पाने हितं घृतम्॥२५॥
द्विनिशाकटभीरक्तायष्ट्याह्वैर्वाऽमृतान्वितैः।
आस्फोतमूलसिद्धं वा, पञ्चकापित्थमेव वा॥२६॥
सिन्दुवारं नतं शिग्रुबिल्वमूलं पुनर्नवा।
वचाश्वदंष्ट्राजीमूतमेषां क्वाथं समाक्षिकम्॥२७॥
पिबेच्छाल्योदनं दध्ना भुञ्जानो मूषिकार्दितः।
तक्रेण शरपुङ्खायाबीजं सञ्चूर्ण्य वा पिबेत्॥२८॥
अङ्कोल्लमूलकल्को वा बस्तमूत्रेण कल्कितः।
पानालेपनयोर्युक्तः सर्वाखुविषनाशनः॥२९॥
कपित्थमध्यतिलकतिलाङ्कोल्लजटाः पिबेत्।
गवां मूत्रेण, पयसा मञ्जरीं तिलकस्य वा॥३०॥
अथवा सैर्यकान्मूलं सक्षौद्रं तन्दुलाम्बुना।
कटुकालाबुविन्यस्तं पीतं वाऽम्बु निशोषितम्॥३१॥
सिन्दुवारस्य मूलानि बिडालास्थि विषं नतम्।
जलपिष्टोऽगदो हन्ति नस्याद्यैराखुजं विषम्॥३२॥
सशेषं मूषिकविषं प्रकुप्यत्यभ्रदर्शने।
यथायथं वा कालेषु दोषाणां वृद्धिहेतुषु॥३३॥
तत्र सर्वे यथावस्थं प्रयोज्याः स्युरुपक्रमाः।
यथास्वं ये च निर्दिष्टास्तथा दूषीविषापहाः॥३४॥
दंशं त्वलर्कदष्टस्य दग्धमुष्णेन सार्पिषा।
प्रदिह्यादगदैस्तैस्तैः पुराणं च घृतं पिबेत्॥३५॥
अर्कक्षीरयुतं चास्य योज्यमाशु विरेचनम्।
अङ्कोल्लोत्तरमूलाम्बु त्रिपलं सहविः पलम्॥३६॥
पिबेत्सधत्तूरफलां श्वेतां वाऽपि पुनर्नवाम्।
ऐकध्यं पललं तैलं रूपिकायाः पयो गुडः॥३७॥
भिनत्ति विषमालर्कं घ्नावृन्दमिवानिलः।
समन्त्रं सौषधीरत्नं स्नपनं च प्रयोजयेत्॥३८॥
चतुष्पाद्भिर्द्विपाद्भिर्वा नखदन्तपरीक्षतम्।
शूयते पच्यते रागज्वरस्रावरुजान्वितम्॥३९॥
सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपादिका।
रजन्यौ गैरिकं लेपो नखदन्तविषापहः॥४०॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टा-
ङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने मुषिकालर्कविष-
प्रतिषेधो नाम अष्टत्रिंशोऽध्यायः॥३८॥ इति विषतन्त्रं नाम षष्ठमङ्गं स
Last updated on July 6th, 2021 at 12:01 pm