विषय सूची पर जायें

31. रेवतीप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

एकत्रिंशत्तमोऽध्याय: ।

अथातो रेवतीप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

अश्वगन्धा च शृङ्गी च सारिवा सपुनर्नवा |
सहे तथा विदारी च कषायाः सेचने हिताः ||३||

तैलमभ्यञ्जने कार्यं कुष्ठे सर्जरसेऽपि च |
पलङ्कषायां नलदे तथा गिरिकदम्बके ||४||

धवाश्वकर्णककुभधातकीतिन्दुकीषु च |
काकोल्यादिगणे चैव पानीयं सर्पिरिष्यते ||५||

कुलत्थाः शङ्खचूर्णं च प्रदेहः सार्वगन्धिकः |
गृध्रोलूकपुरीषाणि यवा यवफलो घृतम् ||६||

सन्ध्ययोरुभयोः कार्यमेतदुद्धूपनं शिशोः |
वरुणारिष्टकमयं रुचकं सैन्दुकं तथा ||७||

सततं धारयेच्चापि कृतं वा पौत्रजीविकम् |
शुक्लाः सुमनसो लाजाः पयः शाल्योदनं तथा ||८||

बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना |
सङ्गमे च भिषक् स्नानं कुर्याद्धात्रीकुमारयोः ||९||

नानावस्त्रधरा देवी चित्रमाल्यानुलेपना |
चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु ||१०||

उपासते यां सततं देव्यो विविधभूषणाः |
लम्बा कराला विनता तथैव बहुपुत्रिका |
रेवती शुष्कनामा या सा ते देवी प्रसीदतु ||११||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे रेवतीप्रतिषेधो नाम (पञ्चमोऽध्यायः, आदितः) एकत्रिंशोऽध्यायः ||३१||

Last updated on July 8th, 2021 at 11:55 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi