चरकसंहिता
सिद्धिस्थानम् ।
सप्तमोऽध्याय: ।
अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
धीधैर्यौदार्यगाम्भीर्यक्षमादमतपोनिधिम् ।
पुनर्वसुं शिष्यगण: पप्रच्छ विनयान्वित: ॥३॥
का: कति व्यापदो बस्ते: किंसमुत्थानलक्षणा: ।
का चिकित्सा इति प्रश्नाञ्छ्रुत्वा तानब्रवीद्गुरु: ॥४॥
नातियोगौ क्लमाध्माने हिक्का हृत्प्राप्तिरूर्ध्वता ।
प्रवाहिका शिरोङ्गार्ति: परिकर्त: परिस्रव: ॥५॥
द्वादश व्यापदो बस्तेरसम्यग्योगसंभवा: ।
आसामेकैकशो रूपं चिकित्सां च निबोधत ॥६॥
गुरुकोष्ठेऽनिलप्राये रूक्षे वातोल्बणेऽपि वा ।
शीतोऽल्पलवणस्नेहद्रवमात्रो घनोऽपि वा ॥७॥
बस्ति: संक्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन् ।
करोति गुरुकोष्ठत्वं वातमूत्रशकृद्ग्रहम् ॥८॥
नाभिबस्तिरुजं दाहं हृल्लेपं श्वयथुं गुदे ।
कण्डूगण्डानि वैवर्ण्यमरुचिं वह्निमार्दवम् ॥९॥
तत्रोष्णाया: प्रमथ्याया: पानं स्वेदा: पृथग्विधा: ।
फलवर्त्योऽथवा कालं ज्ञात्वा शस्तं विरेचनम् ॥१०॥
बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान् ।
सुरादिमूत्रवान् बस्ति: सप्राक्पेष्यस्तमानयेत् ॥११॥
स्निग्धस्विन्नेऽतितीक्ष्णोष्णो मृदुकोष्ठेऽतियुज्यते ।
तस्य लिङ्गं चिकित्सा च शोधनाभ्यां समा भवेत् ॥१२॥
पृश्निपर्णीं स्थिरां पद्मं काश्मर्यं मधुकं बलाम् ।
पिष्ट्वा द्राक्षां मधूकं च क्षीरे तण्डुलधावने ॥१३॥
द्राक्षाया: पक्वलोष्टस्य प्रसादे मधुकस्य च ।
विनीय सघृतं बस्तिं दद्याद्दाहेऽतियोगजे ॥१४॥
आमशेषे निरूहेण मृदुना दोष ईरित: ।
मार्गं रुणद्धि वातस्य हन्त्यगिंन् मूर्च्छयत्यपि ॥१५॥
क्लमं विदाहं हृच्छूलं मोहवेष्टनगौरवम् ।
कुर्यात् स्वेदैर्विरूक्षैस्तं पाचनैश्चाप्युपाचरेत् ॥१६॥
पिप्पलीकत्तृणोशीरदारुमूर्वाशृतं जलम् ।
पिबेत् सौवर्चलोन्मिश्रं दीपनं हृद्विशोधनम् ॥१७॥
वचानागरशट्येला दधिमण्डेन मूर्च्छिता: ।
पेया: प्रसन्नया वा स्युररिष्टेनासवेन वा ॥१८॥
दारु त्रिकटुकं पथ्यां पलाशं चित्रकं शटीम् ।
पिष्ट्वा कुष्ठं च मूत्रेण पिबेत् क्षाराश्चं दीपनान् ॥१९॥
बस्तिमस्य विदध्याच्च समूत्रं दाशमूलिकम् ।
समूत्रमथवा व्यक्तलवणं माधुतैलिकम् ॥२०॥
अल्पवीर्यो महादोषे रूक्षे क्रूराशये कृत: ।
बस्तिर्दोषावृतो रुद्धमार्गो रुन्ध्यात् समीरणम् ॥२१॥
स विमार्गोऽनिल: कुर्यादाध्मानं मर्मपीडनम् ।
विदाहं गुरुकोष्ठस्य मुष्कवङ्क्षणवेदनाम् ॥२२॥
रुणद्धि हृदयं शूलैरितश्चेतश्च धावति ।
श्यामाफलादिभि: कुष्ठकृष्णालवणसर्षपै: ॥२३॥
धूममाषवचाकिण्वक्षारचूर्णगुडै: कृताम् ।
कराङ्गुष्ठनिभां वर्तिं यवमध्यां निधापयेत् ॥२४॥
अभ्यक्तस्विन्नगात्रस्य तैलाक्तां स्नेहिते गुदे ।
अथवा लवणागारधूमसिद्धार्थकै: कृताम् ॥२५॥
बिल्वादिना निरूह: स्यात् पीलुसर्षपमूत्रवान् ।
सरलामरदारुभ्यां सिद्धं चैवानुवासनम् ॥२६॥
मृदुकोष्ठेऽबले बस्तिरतितीक्ष्णोऽतिनिर्हरन् ।
कुर्याद्धिक्कां, हितं तस्मै हिक्काघ्नं बृंहणं च यत् ॥२७॥
बलास्थिरादिकाश्मर्यत्रिफलागुडसैन्धवै: ।
सप्रसन्नारनालाम्लैस्तैलं पक्त्वाऽनुवासयेत् ॥२८॥
कृष्णालवणयोरक्षं पिबेदुष्णाम्बुना युतम् ।
धूमलेहरसक्षीरस्वेदाश्चान्नं च वातनुत् ॥२९॥
अतितीक्ष्ण: सवातो वा न वा सम्यक् प्रपीडित: ।
घट्टयेद्धृदयं बस्तिस्तत्र काशकुशेत्कटै: ॥३०॥
स्यात् साम्ललवणस्कन्धकरीरबदरीफलै: ।
शृतैर्बस्तिर्हित: सिद्धं वातघ्नैश्चानुवासनम् ॥३१॥
वातमूत्रपुरीषाणां दत्ते वेगान्निगृह्णत: ।
अति वा पीडितो बस्तिर्मुखेनायाति वेगवान् ॥३२॥
मूर्च्छाविकारं तस्यादौ दृष्ट्वा शीताम्बुना मुखम् ।
सिञ्चेत् पार्श्वोदरं चाध: प्रमृज्याद्वीजयेच्च तम् ॥३३॥
केशेष्वालम्ब्य चाकाशे धुनुयात् त्रासयेच्च तम् ।
गोखराश्वगजै: सिंहै राजप्रेष्यैस्तथोरगै: ॥३४॥
उल्काभिरेवमन्यैश्च भीतस्याध: प्रवर्तते ।
वस्त्रपाणिग्रहै: कण्ठं रुन्ध्यान्न म्रियते यथा ॥३५॥
प्राणोदाननिरोधाद्धि प्रसिद्धतरमार्गवान् ।
अपान: पवनो बस्तिं तमाश्वेवापकर्षति ॥३६॥
तत: क्रमुककल्काक्षं पाययेताम्लसंयुतम् ।
औष्ण्यात्तैक्ष्ण्यात् सरत्वाच्च बस्तिं सोऽस्यानुलोमयेत् ॥३७॥
पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिक: ।
यवकोलकुलत्थैश्च विधेयो मूत्रसाधित: ॥३८॥
बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुर:स्थिते ।
शिर:स्थे नावनं धूम: प्रच्छाद्यं सर्षपै: शिर: ॥३९॥
स्निग्धस्विन्ने महादोषे बस्तिर्मृद्वल्पभेषज: ।
उत्क्लिश्याल्पं हरेद्दोषं जनयेच्च प्रवाहिकाम् ॥४०॥
स बस्तिपायुशोफेन जङ्घोरुसदनेन वा ।
निरुद्धमारुतो जन्तुरभीक्ष्णं संप्रवाहते ॥४१॥
स्वेदाभ्यङ्गान्निरूहाश्च शोधनीयानुलोमिकान् ।
विदध्याल्लङ्घयित्वा तु वृत्तिं कुर्याद्विरिक्तवत् ॥४२॥
दुर्बले क्रूरकोष्ठे च तीव्रदोषे तनुर्मृदु: ।
शीतोऽल्पश्चावृतो दोषैर्बस्तिस्तद्विहतोऽनिल: ॥४३॥
मार्गैर्गात्राणि सन्धावन्नूर्ध्वं मूर्ध्नि विहन्यते ।
ग्रीवां मन्ये च गृह्णाति शिर: कण्ठं भिनत्ति च ॥४४॥
बाधिर्यं कर्णनादं च पीनसं नेत्रविभ्रमम् ।
कुर्यादभ्यञ्जनं तैललवणेन यथाविधि ॥४५॥
युञ्ज्यात् प्रधमनैर्नस्यैर्धूमैरस्य विरेचयेत् ।
तीक्ष्णानुलोमिकेनाथ स्निग्धं भुक्तेऽनुवासयेत् ॥४६॥
स्नेहस्वेदैरनापाद्य गुरुस्तीक्ष्णोऽतिमात्रया ।
यस्य बस्ति: प्रयुज्येत सोऽतिमात्रं प्रवर्तयेत् ॥४७॥
स्रुतेषु तस्य दोषेषु निरूढस्यातिमात्रश: ।
स्तब्धोदावृतकोष्ठस्य वायु: संप्रतिहन्यते ॥४८॥
विलोमनसमुद्भूतो रुजत्यङ्गानि देहिन: ।
गात्रवेष्टननिस्तोदभेदस्फुरणजृम्भणै: ॥४९॥
तं तैललवणाभ्यक्तं सेचयेदुष्णवारिणा ।
एरण्डपत्रनिष्क्वाथै: प्रस्तरैश्चोपपादयेत् ॥५०॥
यवान् कुलत्थान् कोलानि पञ्चमूले तथोभये ।
जलाढकद्वये पक्त्वा पादशेषेण तेन च ॥५१॥
कुर्यात् सबिल्वतैलोष्णलवणेन निरूहणम् ।
तं निरूढं समाश्वस्तं द्रोण्यां समवगाहयेत् ॥५२॥
ततो भुक्तवतस्तस्य कारयेदनुवासनम् ।
यष्टीमधुकतैलेन बिल्वतैलेन वा भिषक् ॥५३॥
मृदुकोष्ठाल्पदोषस्य रूक्षस्तीक्ष्णोऽतिमात्रवान् ।
बस्तिर्दोषान्निरस्याशु जनयेत् परिकर्तिकाम् ॥५४॥
त्रिकवङ्क्षणबस्तीनां तोदं नाभेरधो रुजम् ।
विबन्धोऽल्पाल्पमुत्थानं बस्तिनिर्लेखनाद्भवेत् ॥५५॥
स्वादुशीतौषधैस्तत्र पय इक्ष्वादिभि: शृतम् ।
यष्ट्याह्वतिलकल्काभ्यां बस्ति: स्यात् क्षीरभोजिन: ॥५६॥
ससर्जरसयष्ट्याह्वजिङ्गिनीकर्दमाञ्जनम् ।
विनीय दुग्धे बस्ति: स्यात् व्यक्ताम्लमृदुभोजिन: ॥५७॥
पित्तरोगेऽम्ल उष्णो वा तीक्ष्णो वा लवणोऽथवा ।
बस्तिर्लिखति पायुं तु क्षिणोति विदहत्यपि ॥५८॥
स विदग्ध: स्रवत्यस्रं पित्तं चानेकवर्णवत् ।
सार्यते बहुवेगेन मोहं गच्छति चासकृत् ॥५९॥
आर्द्रशाल्मलिवृन्तैस्तु क्षुण्णैराजं पय: शृतम् ।
सर्पिषा योजितं शीतं बस्तिमस्मै प्रदापयेत् ॥६०॥
वटादिपल्लवेष्वेष कल्पो यवतिलेषु च ।
सुवर्चलोपोदिकयो: कर्बुदारे च शस्यते ॥६१॥
गुदे सेका: प्रदेहाश्च शीता: स्युर्मधुराश्च ये ।
रक्तपित्तातिसारघ्नी क्रिया चात्र प्रशस्यते ॥६२॥
तीक्ष्णत्वं मूत्रपील्वग्निलवणक्षारसर्षपै: ।
प्राप्तकालं विधातव्यं क्षीराद्यैर्मार्दवं तथा ॥६३॥
आपादतलमूर्धस्थान् दोषान् पक्वाशये स्थित: ।
वीर्येण बस्तिरादत्ते खस्थोऽर्को भूरसानिव ॥६४॥
यद्वत् कुसुम्भसंमिश्रात्तोयाद्रागं हरेत् पट: ।
तद्वद्द्रवीकृताद्देहान्निरूहो निर्हरेन्मलान् ॥६५॥
तत्र श्लोक:–
इत्येता व्यापद: प्रोक्ता बस्ते: साकृतिभेषजा: ।
बुद्ध्वा कार्त्स्न्येन तान् बस्तीन्नियुञ्जन्नापराध्यति ॥६६॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते
सिद्धिस्थाने बस्तिव्यापत्सिद्धिर्नाम सप्तमोऽध्याय: ॥७
Last updated on July 6th, 2021 at 05:00 am