चतुर्विंशोऽध्यायः ।
अथातो विधिशोणितीयमध्यायं व्याख्यास्यामः ॥१॥
इति ह स्माह भगवानात्रेयः ॥२॥
विधिना शोणितं जातं शुद्धं भवति देहिनाम् ।
देशकालौकसात्म्यानां विधिर्यः संप्रकाशितः ॥३॥
तद्विशुद्धं हि रुधिरं बलवर्णसुखायुषा ।
युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्तते ॥४॥
प्रदुष्टबहुतीक्ष्णोष्णैर्मद्यैरन्यैश्च तद्विधैः ।
तथाऽतिलवणक्षारैरम्लैः कटुभिरेव च ॥५॥
कुलत्थमाषनिष्पावतिलतैलनिषेवणैः ।
पिण्डालुमूलकादीनां हरितानां च सर्वशः ॥६॥
जलजानूपबैलानां प्रसहानां च सेवनात् ।
दध्यम्लमस्तुसुक्तानां सुरासौवीरकस्य च ॥७॥
विरूद्धानामुपक्लिन्नपूतीनां भक्षणेन च ।
भुक्त्वा दिवा प्रस्वपतां द्रवस्निग्धगुरूणि च ॥८॥
अत्यादानं तथा क्रोधं भजतां चातपानलौ ।
छर्दिवेगप्रतीघातात् काले चानवसेचनात् ॥९॥
श्रमाभिघातसंतापैरजीर्णाध्यशनैस्तथा ।
शरत्कालस्वभावाच्च शोणितं संप्रदुष्यति ॥१०॥
ततः शोणितजा रोगाः प्रजायन्ते पृथग्विधाः ।
मुखपाकोऽक्षिरागश्च पूतिघ्राणास्यगन्धिता ॥११॥
गुल्मोपकुशवीसर्परक्तपित्तप्रमीलकाः ।
विद्रधी रक्तमेहश्च प्रदरो वातशोणितम् ॥१२॥
वैवर्ण्यमग्निसादश्च पिपासा गुरुगात्रता ।
संतापश्चातिदौर्बल्यमरुचिः शिरसश्च रुक् ॥१३॥
विदाहश्चान्नपानस्य तिक्ताम्लोद्गिरणं क्लमः।
क्रोधप्रचुरता बुद्धेः संमोहो लवणास्यता ॥१४॥
स्वेदः शरीरदौर्गन्ध्यं मदः कम्पः स्वरक्षयः ।
तन्द्रानिद्रातियोगश्च तमसश्चातिदर्शनम् ॥१५॥
कण्ड्वरुःकोठपिडकाकुष्ठचर्मदलादयः ।
विकाराः सर्व एवैते विज्ञेयाः शोणिताश्रयाः ॥१६॥
शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः ।
सम्यक् साध्या न सिध्यन्ति रक्तजांस्तान् विभावयेत् ॥१७॥
कुर्याच्छोणितरोगेषु रक्तपित्तहरीं क्रियाम् ।
विरेकमुपवासं च स्रावणं शोणितस्य च ॥१८॥
बलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा ।
रुधिरं स्रावयेज्जन्तोराशयं प्रसमीक्ष्य वा ॥१९॥
अरुणाभं भवेद्वाताद्विशदं फेनिलं तनु ।
पित्तात् पीतासितं रक्तं स्त्यायत्यौष्ण्याच्चिरेण च ॥२०॥
ईषत्पाण्डु कफाद्दुष्टं पिच्छिलं तन्तुमनम् ।
संसृष्टलिङ्गं संसर्गात् त्रिलिङ्गं सान्निपातिकम् ॥२१॥
तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम् ।
गुञ्जाफलसवर्णं च विशुद्धं विद्धि शोणितम् ॥२२॥
नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम् ।
तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषेण च रक्षितव्यः ॥२३॥
प्रसन्नवर्णेन्द्रियमिन्द्रियार्थानिच्छन्तमव्याहतपक्तृवेगम् ।
सुखान्वितं तु(पु)ष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति॥२४॥
यदा तु रक्तवाहीनि रससंज्ञावहानि च ।
पृथक् पृथक् समस्ता वा स्रोतांसि कुपिता मलाः ॥२५॥
मलिनाहारशीलस्य रजोमोहावृतात्मनः ।
प्रतिहत्यावतिष्ठन्ते जायन्ते व्याधयस्तदा ॥२६॥
मदमूर्च्छायसंन्यासास्तेषां विद्याद्विचक्षणः ।
यथोत्तरं बलाधिक्यं हेतुलिङ्गोपशान्तिषु ॥२७॥
दुर्बलं चेतसः स्थानं यदा वायुः प्रपद्यते ।
मनो विक्षोभयञ्जन्तोः संज्ञां संमोहयेत्तदा ॥२८॥
पित्तमेवं कफश्चैवं मनो विक्षोभयन्नृणाम् ।
संज्ञां नयत्याकुलतां विशेषश्चात्र वक्ष्यते ॥२९॥
सक्तानल्पद्रुताभाषं चलस्खलितचेष्टितम् ।
विद्याद्वातमदाविष्टं रूक्षश्यावारुणाकृतिम् ॥३०॥
सक्रोधपरुषाभाषं संप्रहारकलिप्रियम् ।
विद्यात् पित्तमदाविष्टं रक्तपीतासिताकृतिम् ॥३१॥
स्वल्पासंबद्धवचनं तन्द्रालस्यसमन्वितम् ।
विद्यात् कफमदाविष्टं पाण्डुं प्रध्यानतत्परम् ॥३२॥
सर्वाण्येतानि रूपाणि सन्निपातकृते मदे ।
जायते शाम्यति क्षिप्रं मदो मद्यमदाकृतिः ॥३३॥
यश्च मद्यकृतः प्रोक्तो विषजो रौधिरश्च यः ।
सर्व एते मदा नर्ते वातपित्तकफत्रयात् ॥३४॥
नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम्।
पश्यंस्तम: प्रविशति शीघ्रं च प्रतिबुध्यते ॥३५॥
वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च।
कार्श्यं श्यावारुणा च्छाया मूर्च्छाये वातसंभवे ॥३६॥
रक्तं हरितवर्णं वा वियत् पीतमथापि वा।
पश्यंस्तम: प्रविशति सस्वेद: प्रतिबुध्यते ॥३७॥
सपिपास: ससंतापो रक्तपीताकुलेक्षण:।
संभिन्नवर्चा: पीताभो मूर्च्छाये पित्तसंभवे ॥३८॥
मेघसङ्काशमाकाशमावृतं वा तमोघनै:।
पश्यंस्तम: प्रविशति चिराच्च प्रतिबुध्यते ॥३९॥
गुरुभि: प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणा।
सप्रसेक: सहृल्लासो मूर्च्छाये कफसंभवे ॥४०॥
सर्वाकृति: सन्निपातादपस्मार इवागत: ।
स जन्तुं पातयत्याशु विना बीभत्सचेष्टितै: ॥४१॥
दोषेषु मदमूर्च्छाया: कृतवेगेषु देहिनाम् ।
स्वयमेवोपशाम्यन्ति संन्यासो नौषधैर्विना ॥४२॥
वाग्देहमनसां चेष्टामाक्षिप्यातिबला मला: ।
संन्यस्यन्त्यबलं जन्तुं प्राणायतनसंश्रिता: ॥४३॥
स ना संन्याससंन्यस्त: काष्ठीभूतो मृतोपम: ।
प्राणैर्वियुज्यते शीघ्रं मुक्त्वा सद्य:फला: क्रिया: ॥४४॥
दुर्गेऽम्भसि यथा मज्जद्भाजनं त्वरया बुध: ।
गृह्णीयात्तलमप्राप्तं तथा संन्यासपीडितम् ॥४५॥
अञ्जनान्यवपीडाश्च धूमा: प्रधमनानि च।
सूचीभिस्तोदनं शस्तं दाह: पीडा नखान्तरे ॥४६॥
लुञ्चनं केशलोम्नाम् च दन्तैर्दशनमेव च।
आत्मगुप्तावघर्षश्च हितं तस्यावबोधने ॥४७॥
संमूर्च्छितानि तीक्ष्णानि मद्यानि विविधानि च ।
प्रभूतकटुयुक्तानि तस्यास्ये गालयेन्मुहु: ॥४८॥
मातुलुङ्गरसं तद्वन्महौषधसमायुतम्।
तद्वत्सौवर्चलं दद्याद्युक्तं मद्याम्लकाञ्जिकै: ॥४९॥
हिङ्गूषणसमायुक्तं यावत् संज्ञाप्रबोधनम् ।
प्रबुद्धसंज्ञमन्नैश्च लघुभिस्तमुपाचरेत् ॥५०॥
विस्मापनै: स्मारणैश्च प्रियश्रुतिभिरेव च ।
पटुभिर्गीतवादित्रशब्दैश्चित्रैश्च दर्शनै: ॥५१॥
स्रंसनोल्लेखनैर्धूमैरञ्जनै: कवलग्रहै: ।
शोणितस्यावसेकैश्च व्यायामोद्घर्षणैस्तथा ॥५२॥
प्रबुद्धसंज्ञं मतिमाननुबन्धमुपक्रमेत् ।
तस्य संरक्षितव्यं हि मन: प्रलयहेतुत: ॥५३॥
स्नेहस्वेदोपपन्नानां यथादोषं यथाबलम्।
पञ्च कर्माणि कुर्वीत मूर्च्छायेषु मदेषु च ॥५४॥
अष्टाविंशत्यौषधस्य तथा तिक्तस्य सर्पिष:।
प्रयोग: शस्यते तद्वन्महत: षट्पलस्य वा ॥५५॥
त्रिफलाया: प्रयोगो वा सघृतक्षौद्रशर्कर: ।
शिलाजतुप्रयोगो वा प्रयोग: पयसोऽपि वा ॥५६॥
पिप्पलीनां प्रयोगो वा पयसा चित्रकस्य वा ।
रसायानानां कौम्भस्य सर्पिषो वा प्रशस्यते ॥५७॥
रक्तावसेकाच्छास्त्राणां सतां सत्त्ववतामपि।
सेवनान्मदमूर्च्छाया: प्रशाम्यन्ति शरीरिणाम् ॥५८॥
तत्र श्लोकौ —
विशुद्धं चाविशुद्धं च शोणितं तस्य हेतव:।
रक्तप्रदोषजा रोगास्तेषु रोगेषु चौषधम् ॥५९॥
मदमूर्च्छायसंन्यासहेतुलक्षणभेषजम्।
विधिशोणितकेऽध्याये सर्वमेतत् प्रकाशितम्॥६०॥
इत्यगिन्वेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने योजनाचतुष्के विधिशोणितीयो नाम चतुर्विंशतितमोऽध्याय: ॥२४॥
Last updated on June 1st, 2021 at 11:56 am