विषय सूची पर जायें

25. मिश्रकचिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

पञ्चविंशतितमोऽध्यायः ।

अथातो मिश्रकचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

पाल्यामयास्तु विस्राव्या इत्युक्तं प्राङ्निबोध तान् |

परिपोटस्तथोत्पात उन्मन्थो दुःखवर्धनः ||३||

पञ्चमः परिलेही च कर्णपाल्यां गदाः स्मृताः |

सौकुमार्याच्चिरोत्सृष्टे सहसाऽभिप्रवर्धिते ||४||

कर्णशोफो भवेत् पाल्यां सरुजः परिपोटवान् |

कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः ||५||

गुर्वाभरणसंयोगात्ताडनाद्धर्षणादपि |

शोफः पाल्यां भवेच्छ्यावो दाहपाकरुनान्वितः ||६||

रक्तो वा रक्तपित्ताभ्यामुत्पातः स गदो मतः |

बलाद्वर्धयतः कर्णं पाल्यां वायुः प्रकुप्यति ||७||

गृहीत्वा सकफं कुर्याच्छोफं तद्वर्णवेदनम् |

उन्मन्थकः सकण्डूको विकारः कफवातजः ||८||

वर्धमाने यदा कर्णे कण्डूदाहरुगन्वितः |

शोफो भवति पाकश्च त्वक्स्थोऽसौ दुःखवर्धनः ||९||

कफासृक्कृमयः कुर्युः सर्षपाभा विकारिणीः |

स्राविणीः पिडकाः पाल्यां कण्डूदाहरुगन्विताः ||१०||

कफासृक्कृमिसम्भूतः स विसर्पन्नितस्ततः |

लिह्यात् सशष्कुलीं पालीं परिलेहीति स स्मृतः ||११||

पाल्यामया ह्यमी घोरा नरस्याप्रतिकारिणः |

मिथ्याहारबिहारस्य पालिं हिंस्युरुपेक्षिताः ||१२||

तस्मादाशु भिषक् तेषु स्नेहादिक्रममाचरेत् |

तथाऽभ्यङ्गपरीषेकप्रदेहासृग्विमोक्षणम् ||१३||

सामान्यतो विशेषाच्च वक्ष्याम्यभ्यञ्जनं प्रति |

खरमञ्जरियष्ट्याह्वसैन्धवामरदारुभिः ||१४||

सुपिष्टैः साश्वगन्धैश्च मूलकावल्गुजैः फलैः |

सर्पिस्तैलवसामज्जमधूच्छिष्टानि पाचयेत् ||१५||

सक्षीराण्यथ तैः पालिं प्रदिह्यात् परिपोटके |

मञ्जिष्ठातिलयष्ट्याह्वसारिवोत्पलपद्मकैः ||१६||

सरोध्रैः सकदम्बैश्च बलाजम्ब्वाम्रपल्लवैः |

सिद्धं धान्याम्लसंयुक्तं तैलमुत्पातनाशनम् ||१७||

तालपत्र्यश्वगन्धार्कबाकुचीफलसैन्धवैः |

तैलं कुलीरगोधाभ्यां वसया सह पाचितम् ||१८||

सरलालाङ्गलीभ्यां च हितमुन्मन्थनाशनम् |

तथाऽश्मन्तकजम्ब्वाम्रपत्रक्वाथेन सेचनम् ||१९||

प्रपौण्डरीकमधुकमञ्जिष्ठारजनीद्वयैः |

चूर्णैरुद्वर्तनैः पालीं तैलाक्तामवचूर्णयेत् ||२०||

लाक्षाविडङ्गकल्केन तैलं पक्त्वाऽवचारयेत् |

स्विन्नां गोमयपिण्डेन प्रदिह्यात् परिलेहिके ||२१||

पिष्टैर्विडङ्गैरथवा त्रिवृच्छ्यामार्कसंयुतैः |

करञ्जेङ्गुदिबीजैर्वा कुटजारग्वधायुतैः ||२२||

सर्वैर्वा सार्षपं तैलं सिद्धं मरिचसंयुतम् |

सनिम्बपत्रैरभ्यङ्गे मधूच्छिष्टान्वितं हितम् ||२३||

पालीषु व्याधियुक्तासु तन्वीषु कठिनासु च |

पुष्ट्यर्थं मार्दवार्थं च कुर्यादभ्यञ्जनं त्विदम् ||२४||

लोपाकानूपमज्जानं वसां तैलं नवं घृतम् |

पचेद्दशगुणं क्षीरमावाप्य मधुरं गणम् ||२५||

अपामार्गाश्वगन्धे च तथा लाक्षारसं शुभम् |

तत्सिद्धं परिपूतं च स्वनुगुप्तं निधापयेत् ||२६||

तेनाभ्यञ्ज्यात् सदा पालीं सुस्विन्नामतिमर्दिताम् |

एतेन पाल्यो वर्धन्ते निरुजो निरुपद्रवाः ||२७||

मृद्व्यः पुष्टाः समाः स्निग्धा जायन्ते भूषणक्षमाः |

नीलीदलं भृङ्गरजोऽर्जुनत्वक् पिण्डीतकं कृष्णमयोरजश्च |

बीजोद्भवं साहचरं च पुष्पं पथ्याक्षधात्रीसहितं विचूर्ण्य ||२८||

एकीकृतं सर्वमिदं प्रमाय पङ्केन तुल्यं नलिनीभवेन |

संयोज्य पक्षं कलशे निधाय लौहे घटे सद्मनि सापिधाने ||२९||

अनेन तैलं विपचेद्विमिश्रं रसेन भृङ्गत्रिफलाभ वेन |

आसन्नपाके च परीक्षणार्थं पत्रं बलाकाभवमाक्षिपेच्च ||३०||

भवेद्यदा तद्भ्रमराङ्गनीलं तदा विपक्वं विनिधाय पात्रे |

कृष्णायसे मासमवस्थितं तदभ्यङ्गयोगात् पलितानि हन्यात् ||३१||

सैरीयजम्ब्वर्जुनकाश्मरीजं पुष्पं तिलान्मार्कवचूतबीजे |

पुनर्नवे कर्दमकण्टकार्यौ कासीसपिण्डीतकबीजसारम् ||३२||

फलत्रयं लोहरजोऽञ्जनं च यष्ट्याह्वयं नीरजसारिवे च |

पिष्ट्वाऽथ सर्वं सह मोदयन्त्या साराम्भसा बीजकसम्भवेन ||३३||

साराम्भसः सप्तभिरेव पश्चात् प्रस्थैः समालोड्य दशाहगुप्तम् |

लौहे सुपात्रे विनिधाय तैलमक्षोद्भवं तच्च पचेत् प्रयत्नात् ||३४||

पक्वं च लौहेऽभिनवे निधाय नस्यं विदध्यात् परिशुद्धकायः |

अभ्यङ्गयोगैश्च नियुज्यमानं भुञ्जीत माषान् कृशरामथो वा ||३५||

मासोपरिष्टाद्धनकुञ्चिताग्राः केशा भवन्ति भ्रमराञ्जनाभाः |

केशास्तथाऽन्ये खलतौ भवेयुर्जरा न चैनं सहसाऽभ्युपैति ||३६||

बलं परं सम्भवतीन्द्रियाणां भवेच्च वक्त्रं वलिभिर्विमुक्तम् |

नाकामिनेऽनर्थिनि नाकृताय नैवारये तैलमिदं प्रदेयम् ||३७||

लाक्षा रोध्रं द्वे हरिद्रे शिलाले कुष्ठं नागं गैरिका वर्णकाश्च |

मञ्जिष्ठोग्रा स्यात् सुराष्ट्रोद्भवा च पत्तङ्गं वै रोचना चाञ्जनं च ||३८||

हेमाङ्गत्वक् पाण्डुपत्रं वटस्य कालीयं स्यात् पद्मकं पद्ममध्यम् |

रक्तं श्वेतं चन्दनं पारदं च काकोल्यादिः क्षीरपिष्टश्च वर्गः ||३९||

मेदो मज्जा सिक्थकं गोघृतं च दुग्धं क्वाथः क्षीरिणां च द्रुमाणाम् |

एतत् सर्वं पक्वमैकध्यतस्तु वक्त्राभ्यङ्गे सर्पिरुक्तं प्रधानम् ||४०||

हन्याद् व्यङ्गं नीलिकां चातिवृद्धां वक्त्रे जाताः स्फोटिकाश्चापि काश्चित् |

पद्माकारं निर्वलीकं च वक्त्रं कुर्यादेतत् पीनगण्डं मनोज्ञम् ||४१||

राज्ञामेतद्योषितां चापि नित्यं कुर्याद्वैद्यस्तत्समानां नृणां च |

कुष्ठघ्नं वै सर्पिरेतत् प्रधानं येषां पादे सन्ति वैपादिकाश्च ||४२||

हरीतकीचूर्णमरिष्टपत्रं चूतत्वचं दाडिमपुष्पवृन्तम् |

पत्रं च दद्यान्मदयन्तिकाया लेपोऽङ्गरागो नरदेवयोग्यः ||४३||

इति सुश्रुतसंहितायां चिकित्सास्थाने मिश्रकचिकित्सितं नाम पञ्चविंशोऽध्यायः ||२५||

Last updated on July 8th, 2021 at 09:35 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi