विषय सूची पर जायें

26. शस्त्र विधि – सूत्र – अ.हृ”

अष्टाङ्गहृदयस्य (सूत्रस्थानम्‌) शस्त्रविधिः

षडिं्‌वशोऽध्यायः।

अथातः शस्त्रविधिमध्यायं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

षड्विंशतिः सुकर्मारैर्घटितानि यथाविधि।

शस्त्राणि रोमवाहीनि बाहुल्येनाङ्गुलानि षट्‌॥१॥

सुरूपाणि सुधाराणि सुग्रहाणि च कारयेत्‌।

अकरालानि सुध्मातसुतीक्ष्णावर्तितेऽयसि॥२॥

समाहितमुखाग्राणि नीलाम्भोजच्छवीनि च।

नामानुगतरूपाणि सदा सन्निहितानि च॥३॥

स्वोन्मानार्धचतुर्थांशफलान्येकैकशोऽपि च।

प्रायो द्वित्राणि, युञ्जीत तानि स्थानविशेषतः॥४॥

(मण्डलाग्रं वृद्धिपत्रमुत्पलाध्यर्द्धधारके।

सर्पैषण्यौ वेतसाख्यं शरार्यास्यत्रिकूर्चके॥१॥

कुशास्यं साटवदनमन्तर्वक्त्रार्धचन्द्रके(कम्‌)।

व्रीहिमुखं कुठारी च शलाकाङ्गुलिशस्त्रके॥२॥

बडिशं करपत्राख्यं कर्तरी नखशस्त्रकम्‌।

दन्तलेखनकं सूच्यः कूर्चो नाम खजाह्वयम्‌॥३॥

आरा चतुर्विधाकारा तथा स्यात्कर्णवेधनी(नम्‌)॥)

मण्डलाग्रं फले तेषां तर्जन्यन्तर्नखाकृति।

लेखने छेदने योज्यं पोथकीशुण्डिकादिषु॥५॥

वृद्धिपत्रं क्षुराकारं छेदभेदनपाटने।

ऋज्वग्रमुन्नते शोफे गम्भीरे च तदन्यथा॥६॥

नताग्रं पृष्ठतो दीर्घह्रस्ववक्त्रं यथाश्रयम्‌।

उत्पलाध्यर्धधाराख्ये भेदने छेदने तथा॥७॥

सर्पास्यं घ्राणकर्णार्शछेदनेऽर्धाङ्गुलं  फले।

गतेरन्वेषणे श्लक्ष्णा गण्डूपदमुखैषणी॥८॥

भेदनार्थेऽपरा सूचीमुखा मूलनिविष्टखा।

वेतसं व्यधने स्राव्ये शरार्यास्यत्रिकूर्चके॥९॥

कुशाटावदने स्राव्ये द्व्यङ्गुलं स्यात्तयोः फलम्‌।

तद्वदन्तर्मुखं तस्य फलमध्यर्धमङ्गुलम्‌॥१०॥

अर्धचन्द्राननं चैतत्‌ तथाऽध्यर्धाङ्गुलं फले।

व्रीहिवक्त्रं प्रयोज्यं च तच्छिरोदरयोर्व्यधे॥११॥

पृथुः कुठारी गोदन्तसदृशार्धाङ्गुलानना।

तयोर्ध्वदण्डया विध्येदुपर्यस्थां स्थितां शिराम्‌॥१२॥

ताम्री शलाका द्विमुखी मुखे कुरुबकाकृतिः।

लिङ्गनाशं तया विध्येत्‌ कुर्यादङ्गुलिशस्त्रकम्‌॥१३॥

मुद्रिकानिर्गतमुखं फले त्वर्धाङ्गुलायतम्‌।

योगतो वृद्धिपत्रेण मण्डलाग्रेण वा समम्‌॥१४॥

तत्प्रदेशिन्यग्रपर्वप्रमाणार्पणमुद्रिकम्‌।

सूत्रबद्धं गलस्रोतोरोगच्छेदनभेदने॥१५॥

ग्रहणे शुण्डिकार्मादेर्बडिशं सुनताननम्‌।

छेदेऽस्थनां करपत्रं तु खरधारं दशाङ्गुलम्‌॥१६॥

विस्तारे द्व्यङ्गुलं सूक्ष्मदन्तं सुत्सरुबन्धनम्‌।

स्नायुसूत्रकचच्छेदे कर्तरी कर्तरीनिभा॥१७॥

वक्रर्जुधारं द्विमुखं नखशस्त्रं नवाङ्गुलम्‌।

सूक्ष्मशल्योद्धृतिच्छेदभेदप्रच्छानलेखने॥१८॥

एकधारं चतुष्कोणं प्रबद्धाकृति चैकतः।

दन्तलेखनकं तेन शोधयेद्दन्तशर्कराम्‌॥१९॥

वृत्ता गूढदृढाः पाशे तिस्रः सूच्योऽत्र सीवने।

मांसलानां प्रदेशानां त्र्यस्रा त्र्यङ्गुलमायता॥२०॥

अल्पमांसास्थिसन्धिस्थव्रणानां द्व्यङ्गुलायता।

व्रीहिवक्त्रा धनुर्वक्त्रा पक्वामाशयमर्मसु॥२१॥

सा सार्धद्व्यङ्गुला सर्ववृत्तास्ताश्चतुरङ्गुलाः।

कूर्चो वृत्तैकपीठस्थाः सप्ताष्टौ वा सुबन्धनाः॥२२॥

स योज्यो नीलिकाव्यङ्गकेशशातेषु कुट्टने।

अर्धाङ्गुलमुखैर्वृत्तैरष्टाभिः कण्टकैः खजः॥२३॥

पाणिभ्यां मथ्यमानेन घ्राणात्तेन हरेदसृक्‌।

व्यधनं कर्णपालीनां यूथिकामुकुलाननम्‌॥२४॥

आराऽर्धाङ्गुलवृत्तास्या तत्प्रवेशा तथोर्ध्वतः।

चतुरस्रा, तया विध्येच्छोफं पक्वामसंशये॥२५॥

कर्णपालीं च बहलाम्‌ बहलायाश्च शस्यते।

सूची त्रिभागसुषिरा त्र्यङ्गुला कर्णवेधनी॥२६॥

जलौकः क्षारदहनकाचोपलनखादयः।

अलौहान्यनुशस्त्राणि, तान्येवं च विकल्पयेत्‌॥२७॥

अपराण्यपि यन्त्रादीन्युपयोगं च यौगिकम्‌।

उत्पाट्य पाट्यसीव्यैष्यलेख्यप्रच्छानकुट्टनम्‌॥२८॥

छेद्यं भेद्यं व्यधो मन्थो ग्रहो दाहश्च तत्क्रियाः।

कुण्ठखण्डतनुस्थूलह्रस्वदीर्घत्ववक्रताः॥२९॥

शस्त्राणां खरधारत्वमष्टौ दोषाः प्रकीर्तिताः।

छेदभेदनलेख्यार्थं शस्त्रं वृन्तफलान्तरे॥३०॥

तर्जनीमध्यमाङ्गुष्ठैर्गृह्णीयात्सुसमाहितः।

विस्रावणानि वृन्ताग्रे तर्जन्यङ्गुष्ठकेन च॥३१॥

तलप्रच्छन्नवृन्ताग्रं ग्राह्यं व्रीहिमुखं मुखे।

मूलेष्वाहरणार्थानि क्रियासौकर्यतोऽपरम्‌॥३२॥

स्यान्नवाङ्गुलविस्तारः सुघनो द्वादशाङ्गुलः।

क्षौमपत्रोर्णकौशेयदुकूलमृदुचर्मजः॥३३॥

विन्यस्तपाशः सुस्यूतः सान्तरोर्णास्थशस्त्रकः।

शलाकापिहितास्यश्च शस्त्रकोशः सुसञ्चयः॥३३॥

जलौकसस्तु सुखिनां रक्तस्रावाय योजयेत्‌।

दुष्टाम्बुमत्स्य भेकाहिशवकोथमलोद्भवाः॥३५॥

रक्ताः श्वेता भृशं कृष्णाश्चपलाः स्थूलपिच्छिलाः।

इन्द्रायुधविचित्रोर्ध्वराजयो रोमशाश्च ताः॥३६॥

सविषा वर्जयेत्‌ ताभिः कण्डूपाकज्वरभ्रमाः।

विषपित्तास्रनुत्कार्यं तत्र शुद्धाम्बुजाः पुनः॥३७॥

निर्विषाः शैवलश्यावा वृत्ता नीलोर्ध्वराजयः।

कषायपृष्ठास्तन्वङ्ग्यः किञ्चित्पीतोदराश्च याः॥३८॥

ता अप्यसम्यग्वमनात्‌ प्रततं च निपातनात्‌।

सीदन्तीः सलिलं प्राप्य रक्तमत्ता इति त्यजेत्‌॥३९॥

अथेतरा निशाकल्कयुक्तेऽम्भसि परिप्लुताः।

अवन्तिसोमे तक्रे वा पुनश्चाश्वासिता जले॥४०॥

लागयेद्धृतमृत्स्तन्यरक्तशस्त्रनिपातनैः।

पिबन्तीरुन्नतस्कन्धाश्च्छादयेन्मृदुवाससाः॥४१॥

सम्पृक्ताद्दुष्टशुद्धास्राज्जलौका दुष्टशोणितम्‌।

आदत्ते प्रथमं हंसः क्षीरं क्षीरोदकादिव॥४२॥

(गुल्मार्शोविद्रधीन्‌ कुष्ठवातरक्तगलामयान्‌।

नेत्ररुग्विषवीसर्पान्‌ शमयन्ति जलौकसः॥१॥)

दंशस्य तोदे कण्ड्‌वां वा मोक्षयेत्‌ वामयेच्च ताम्‌।

पटुतैलाक्तवदनां श्लक्ष्णकण्डनरूषिताम्‌॥४३॥

रक्षन्‌ रक्तमदाद्भूयः सप्ताहं ता न पातयेत्‌।

पूर्ववत्‌ पटुता दार्ढ्यं सम्यग्वान्ते जलौकसाम्‌॥४४॥

क्लमोऽतियोगान्मृत्युर्वा दुर्वान्ते स्तब्धता मदः।

अन्यत्रान्यत्र ताः स्थाप्या घटे मृत्स्नाम्बुगर्भिणि॥४५॥

लालादिकोथनाशार्थं, सविषाः स्युस्तदन्वयात्‌।

अशुद्धौ स्रावयेद्दंशान्‌ हरिद्रागुडमाक्षिकैः॥४६॥

शतधौताज्यपिचवस्ततो लोपाश्च शीतलाः।

दुष्टरक्तापगमनात्सद्यो रागरुजां शमः॥४७॥

अशुद्धं चलितं स्थानात्स्थितं रक्तं व्रणाशये।

व्यम्लीभवेत्पर्युषितं तस्मात्तत्स्रावयेत्पुनः॥४८॥

युञ्ज्यान्नालाबुघटिका रक्ते पित्तेन दूषिते।

तासामनलसंयोगात्‌ युञ्ज्यात्तु कफवायुना॥४९॥

कफेन दुष्टं रुधिरं न शृङ्गेण विनिर्हरेत्‌।

स्कन्नत्वात्‌ वातपित्ताभ्यां दुष्टं शृङ्गेण निर्हरेत्‌॥५०॥

गात्रं बद्‌ध्वोपरि दृढं रज्ज्वा पट्टेन वा समम्‌।

स्नायुसन्ध्यस्थिमर्माणि त्यजन्‌ प्रच्छानमाचरेत्‌॥५१॥

अधोदेशप्रविसृतैः पदैरुपरिगामिभिः।

न गाढघनतिर्यग्भिर्न पदे पदमाचरन्‌॥५२॥

प्रच्छानेनैकदेशस्थं ग्रथितं जलजन्मभिः।

हरेच्छृङ्गादिभिः सुप्तमसृग्व्यापि शिराव्यधैः॥५३॥

प्रच्छानं पिण्डिते वा स्यात्‌ अवगाढे जलौकसः।

त्वक्स्थेऽलाबुघटीशृङ्गम्‌ शिरैव व्यापकेऽसृजि॥५४॥

वातादिधाम वा शृङ्गजलौकोलाबुभिः क्रमात्‌।

स्रतासृजः प्रदेहाद्यैः शीतैः स्याद्वायुकोपतः॥५५॥

सतोदकण्डूः शोफस्तं सर्पिषोष्णेन सेचयेत्‌॥५५.१.२॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शस्त्रविधिर्नाम षड्विंशोऽध्यायः॥२६॥

Last updated on August 11th, 2021 at 05:40 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi