विषय सूची पर जायें

10. प्रमेह निदान - निदान - अ.हृ."

अष्टाङ्गहृदयस्य (निदानस्थानम्‌) प्रमेहनिदानं

दशमोऽध्यायः।

अथातः प्रमेहनिदानं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

प्रमेहा विंशतिस्तत्र श्लेष्मतो दश, पित्ततः।

षट्‌, चत्वारोऽनिलात्‌ तेषां मेदोमूत्रकफावहम्‌॥१॥

अन्नपानक्रियाजातं यत्प्रायस्तत्प्रवर्तकम्‌।

स्वाद्वम्ललवणस्निग्धगुरुपिच्छिलशीतलम्‌॥२॥

नवधान्यसुरानूपमांसेक्षुगुडगोरसम्‌।

एकस्थानासनरतिः शयनं विधिवर्जितम्‌॥३॥

बस्तिमाश्रित्य कुरुते प्रमेहान्‌ दूषितः कफः।

दूषयित्वा वपुःक्लेदस्वेदमेदोरसामिषम्‌॥४॥

पित्तं रक्तमपि क्षीणे कफादौ मूत्रसंश्रयम्‌।

धातून्‌ बस्तिमुपानीय तत्क्षयेऽपि च मारुतः॥५॥

साध्ययाप्यपरित्याज्या मेहास्तेनैव तद्भवाः।

समासमक्रियतया महात्ययतयाऽपि च॥६॥

सामान्यं लक्षणं तेषां प्रभूताविलमूत्रता।

दोषदूष्याविशेषेऽपि तत्संयोगविशेषतः॥७॥

मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते।

अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम्‌॥८॥

मेहत्युदकमेहेन किञ्चिच्चाविलपिच्छिलम्‌।

इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः॥९॥

सान्द्रीभवेत्पर्युषितं सान्द्रमेहेन मेहति।

सुरामेही सुरातुल्यमुपर्यच्छमधो घनम्‌॥१०॥

संहृष्टरोमा पिष्टेन पिष्टवद्बहलं सितम्‌।

शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति॥११॥

मूर्ताणून्‌ सिकतामेही सिकतारूपिणो मलान्‌।

शीतमेही सुबहुशो मधुरं भृशशीतलम्‌॥१२॥

शनैःशनैः शनैर्मेही मन्दंमन्दं प्रमेहति।

लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम्‌॥१३॥

गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत्‌।

नीलमेहेन नीलाभं कालमेही मषीनिभम्‌॥१४॥

हारिद्रमेही कटुकं हरिद्रासन्निभं दहत्‌।

विस्रं माञ्जिष्ठमेहेन मञ्जिष्ठासलिलोपमम्‌॥१५॥

विस्रमुष्णं सलवणं रक्ताभं रक्तमेहतः।

वसामेही वसामिश्रं वसां वा मूत्रयेन्मुहुः॥१६॥

मज्जानं मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः।

हस्ती मत्त इवाजस्रं मूत्रं वेगविवर्जितम्‌॥१७॥

सलसीकं विबद्धं च हस्तिमेही प्रमेहति।

मधुमेही मधुसमम्‌ जायते स किल द्विधा॥१८॥

क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथेऽथवा।

आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयेत्‌॥१९॥

क्षीणः क्षणात्क्षणात्‌ पूर्णो भजते कृच्छ्रसाध्यताम्‌।

कालेनोपेक्षिताः सर्वे यद्यान्ति मधुमेहताम्‌॥२०॥

मधुरं यच्च सर्वेषु प्रायो मध्विव मेहति।

सर्वेऽपि मधुमेहाख्या माधुर्याच्च तनोरतः॥२१॥

अविपाकोऽरुचिछर्दिर्निद्रा कासः सपीनसः।

उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम्‌॥२२॥

बस्तिमेहनयोस्तोदो मुष्कावदरणं ज्वरः।

दाहस्तृष्णाऽम्लको मूर्च्छा विड्‌भेदः पित्तजन्मनाम्‌॥२३॥

वातिकानामुदावर्तकम्पहृद्‌ग्रहलोलताः ।

शूलमुन्निद्रता शोषः कासः श्वासश्च जायते॥२४॥

शराविका कच्छपिका जालिनी विनताऽलजी।

मसूरिका सर्षपिका पुत्रिणी सविदारिका॥२५॥

विद्रधिश्चेति पिटिकाः प्रमेहोपेक्षया दश।

सन्धिमर्मसु जायन्ते मांसलेषु च धामसु॥२६॥

अन्तोन्नता मध्यनिम्ना श्यावा क्लेदरुजान्विता।

शरावमानसंस्थाना पिटिका स्याच्छराविका॥२७॥

अवगाढार्तिनिस्तोदा महावस्तुपरिग्रहा।

श्लक्ष्णा कच्छपपृष्ठाभा पिटिका कच्छपी मता॥२८॥

स्तब्धा सिराजालवती स्निग्धस्रावा महाशया।

रुजानिस्तोदबहुला सूक्ष्मच्छिद्रा च जालिनी॥२९॥

अवगाढरुजाक्लेदा पृष्ठे वा जठरेऽपि वा।

महती पिटिका नीला विनता विनता स्मृता॥३०॥

दहति त्वचमुत्थाने भृशं कष्टा विसर्पिणी।

रक्तकृष्णाऽतितृट्‌स्फोटदाहमोहज्वराऽलजी॥३१॥

मानसंस्थानयोस्तुल्या मसूरेण मसूरिका।

सर्षपामानसंस्थाना क्षिप्रपाका महारुजा॥३२॥

सर्षपी सर्षपातुल्यपिटिकापरिवारिता।

पुत्रिणी महती भूरिसुसूक्ष्मपिटिकाचिता॥३३॥

विदारीकन्दवद्वृत्ता कठिना च विदारिका।

विद्रधिर्वक्ष्यतेऽन्यत्र तत्राद्यं पिटिकात्रयम्‌॥३४॥

पुत्रिणी च विदारी च दुःसहा बहुमेदसः।

सह्याः पित्तोल्बणास्त्वन्याः सम्भवन्त्यल्पमेदसः॥३५॥

तासु मेहवशाच्च स्याद्दोषोद्रेको यथायथम्‌।

प्रमेहेण विनाऽप्येता जायन्ते दुष्टमेदसः।

तावच्च नोपलक्ष्यन्ते यावद्वस्तुपरिग्रहः॥३६॥

हारिद्रवर्णं रक्तं वा मेहप्राग्रूपवर्जितम्‌।

यो मूत्रयेन्न तं मेहं रक्तंपित्तं तु तद्विदुः॥३७॥

स्वेदोऽङ्गगन्धः शिथिलत्वमङ्गे

शय्यासनस्वप्नसुखाभिषङ्गः।

हृन्नेत्रजिह्वाश्रवणोपदेहो

घनाङ्गता केशनखातिवृद्धिः॥३८॥

शीतप्रियत्वं गलतालुशोषो

माधुर्यमास्ये करपाददाहः।

भविष्यतो मेहगणस्य रूपं

मूत्रेऽभिधावन्ति पिपीलिकाश्च॥३९॥

दृष्ट्वा प्रमेहं मधुरं सपिच्छं

मधूपमं स्याद्द्विविधो विचारः।

सम्पूरणाद्वा कफसम्भवः स्यात्‌

क्षीणेषु दोषेष्वनिलात्मको वा॥४०॥

सपूर्वरूपाः कफपित्तमेहाः

क्रमेण ये वातकृताश्च मेहाः।

साध्या न ते, पित्तकृतास्तु याप्याः

साध्यास्तु मेदो यदि नातिदुष्टम्‌॥४१॥

इति श्री वैद्यपतिसिंहगुप्तसूनु- श्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने प्रमेहनिदानं नाम दशमोऽध्यायः॥१०॥

Last updated on August 16th, 2021 at 09:00 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi