विषय सूची पर जायें

26. शिरोरोगप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

षड्विंशतितमोऽध्याय: ।

अथातः शिरोरोगप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

वातव्याधिविधिः कार्यः शिरोरोगेऽनिलात्मके |
पयोनुपानं सेवेत घृतं तैलमथापि वा ||३||

मुद्गान् कुलत्थान्माषांश्च खादेच्च निशि केवलान् |
कटूष्णांश्च ससर्पिष्कानुष्णं चानु पयः पिबेत् ||४||

पिबेद्वा पयसा तैलं तत्कल्कं वाऽपि मानवः |
वातघ्नसिद्धैः क्षीरैश्च सुखोष्णैः सेकमाचरेत् ||५||

तत्सिद्धैः पायसैर्वाऽपि सुखोष्णैर्लेपयेच्छिरः |
स्विन्नैर्वा मत्स्यपिशितैः कृशरैर्वा ससैन्धवैः ||६||

चन्दनोत्पलकुष्ठैर्वा सुश्लक्ष्णैर्मगधायुतैः |
स्निग्धस्य तैलं नस्यं स्यात् कुलीररससाधितम् ||७||

वरुणादौ गणे क्षुण्णे क्षीरमर्धोदकं पचेत् |
क्षीरशेषं च तन्मथ्यं शीतं सारमुपाहरेत् ||८||

ततो मधुरकैः सिद्धं नस्ये तत् पूजितं हविः |
तस्मिन् विपक्वे क्षीरे तु पेयं सर्पिः सशर्करम् ||९||

धूमं चास्य यथाकालं स्नैहिकं योजयेद्भिषक् |
पानाभ्यञ्जननस्येषु बस्तिकर्मणि सेचने ||१०||

विदध्यात्त्रैवृतं धीमान् बलातैलमथापि वा |
भोजयेच्च रसैः स्निग्धैः पयोभिर्वा सुसंस्कृतैः ||११||

पित्तरक्तसमुत्थानौ शिरोरोगौ निवारयेत् |
शिरोलेपैः ससर्पिष्कैः परिषेकैश्च शीतलैः ||१२||

क्षीरेक्षुरसधान्याम्लमस्तुक्षौद्रसिताजलैः |
नलवञ्जुलकह्लारचन्दनोत्पलपद्मकैः ||१३||

वंशशैवलयष्ट्याह्वमुस्ताम्भोरुहसंयुतैः |
शिरःप्रलेपैः सघृतैर्वैसर्पैश्च तथाविधैः ||१४||

मधुरैश्च मुखालैपैर्नस्यकर्मभिरेव च |
आस्थापनैर्विरेकैश्च पथ्यैश्च स्नेहबस्तिभिः ||१५||

क्षीरसर्पिर्हितं नस्यं वसा वा जाङ्गला शुभा |
उत्पलादिविपक्वेन क्षीरेणास्थापनं हितम् ||१६||

भोजनं जाङ्गलरसैः सर्पिषा चानुवासनम् |
मधुरैः क्षीरसर्पिस्तु स्नेहने च सशर्करम् ||१७||

पित्तरक्तघ्नमुद्दिष्टं यच्चान्यदपि तद्धितम् |
कफोत्थितं शिरोरोगं जयेत् कफनिवारणैः ||१८||

शिरोविरेकैर्वमनैस्तीक्ष्णैर्गण्डूषधारणैः |
अच्छं च पाययेत्सर्पिः स्वेदयेच्चाप्यभीक्ष्णशः ||१९||

शिरो मधूकसारेण स्निग्धं चापि विरेचयेत् |
इङ्गुदस्य त्वचा वाऽपि मेषशृङ्गस्य वा भिषक् ||२०||

आभ्यामेव कृतां वर्तिं धूमपाने प्रयोजयेत् |
घ्रेयं कट्फलचूर्णं च कवलाश्च कफापहाः ||२१||

सरलाकुष्ठशार्ङ्गेष्टादेवकाष्ठैः सरोहिषैः |
क्षारपिष्टैः सलवणैः सुखोष्णैर्लेपयेच्छिरः ||२२||

यवषष्टिकयोश्चान्नं व्योषक्षारसमायुतम् |
पटोलमुद्गकौलत्थैर्मात्रावद्भोजयेद्रसैः ||२३||

शिरोरोगे त्रिदोषोत्थे त्रिदोषघ्नो विधिर्हितः |
सर्पिःपानं विशेषेण पुराणं वा दिशन्ति हि ||२४||

क्षयजे क्षयमासाद्य कर्तव्यो बृंहणो विधिः |
पाने नस्ये च सर्पिः स्याद्वातघ्नमधुरैः शृतम् ||२५||

क्षयकासापहं चात्र सर्पिः पथ्यतमं विदुः |
कृमिभिर्भक्ष्यमाणस्य वक्ष्यते शिरसः क्रिया ||२६||

नस्ये हि शोणितं दद्यात्तेन मूर्च्छन्ति जन्तवः |
मत्ताः शोणितगन्धेन समायान्ति यतस्ततः ||२७||

तेषां निर्हरणं कार्यं ततो मूर्धविरेचनैः |
ह्रस्वशिग्रुकबीजैर्वा कांस्यनीलीसमायुतैः ||२८||

कृमिघ्नैरवपीडैश्च मूत्रपिष्टैरुपाचरेत् |
पूतिमत्स्ययुतान् धूमान् कृमिघ्नांश्च प्रयोजयेत् ||२९||

भोजनानि कृमिघ्नानि पानानि विविधानि च |
सूर्यावर्ते विधातव्यं नस्यकर्मादिभेषजम् ||३०||

भोजनं जाङ्गलप्रायं क्षीरान्नविकृतिर्घृतम् |
तथाऽर्धभेदके व्याधौ प्राप्तमन्यच्च यद्भवेत् ||३१||

शिरीषमूलकफलैरवपीडोऽनयोर्हितः |
वंशमूलककर्पूरैरवपीडं प्रयोजयेत् ||३२||

अवपीडो हितश्चात्र वचामागधिकायुतः |
मधुकेनावपीडो वा मधुना सह संयुतः ||३३||

मनःशिलावपीडो वा मधुना चन्दनेन वा |
तेषामन्ते हितं नस्यं सर्पिर्मधुरसान्वितम् ||३४||

सारिवोत्पलकुष्ठानि मधुकं चाम्लपेषितम् |
सर्पिस्तैलयुतो लेपो द्वयोरपि सुखावहः ||३५||

एष एव प्रयोक्तव्यः शिरोरोगे कफात्मके |
अनन्तवाते कर्तव्यः सूर्यावर्तहरो विधिः ||३६||

सिराव्यधश्च कर्तव्योऽनन्तवातप्रशान्तये |
आहारश्च विधातव्यो वातपित्तविनाशनः ||३७||

मधुमस्तकसंयावघृतपूरैश्च भोजनम् |
क्षीरसर्पिः प्रशंसन्ति नस्ये पाने च शङ्खके ||३८||

जाङ्गलानां रसैः स्निग्धैराहारश्चात्र शस्यते |
शतावरीं तिलान् कृष्णान् मधुकं नीलमुत्पलम् ||३९||

दूर्वां पुनर्नवां चैव लेपे साध्ववचारयेत् |
महासुगन्धामथवा पालिन्दीं चाम्लपेषिताम् ||४०||

शीतांश्चात्र परीषेकान् प्रदेहांश्च प्रयोजयेत् |
अवपीडश्च देयोऽत्र सूर्यावर्तनिवारणः ||४१||

कृमिक्षयकृतौ हित्वा शिरोरोगेषु बुद्धिमान् |
मधुतैलसमायुक्तैः शिरांस्यतिविरेचयेत् ||४२||

पश्चात्सर्षपतैलेन ततो नस्यं प्रयोजयेत् |
न चेच्छान्तिं व्रजन्त्येवं स्निग्धस्विन्नांस्ततो भिषक् ||४३||

पश्चादुपाचरेत्सम्यक् सिराणामथ मोक्षणैः |
षट्सप्ततिर्नेत्ररोगा दशाष्टादश कर्णजाः ||४४||

एकत्रिंशद् घ्राणगताः शिरस्येकादशैव तु |
इति विस्तरतो दृ(दि)ष्टाः सलक्षणचिकित्सिताः ||४५||

संहितायामभिहिताः सप्तषष्टिर्मुखामयाः |
एतावन्तो यथास्थूलमुत्तमाङ्गगता गदाः |
अस्मिञ्छास्त्रे निगदिताः सङ्ख्यारूपचिकित्सितैः ||४६|

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे
शिरोरोगप्रतिषेधो नाम षड्विंशोऽध्यायः ||२६||

इति श्रीभगवता धन्वन्तरिणोपदिष्टायां महर्षिणा सुश्रुताचार्येण विरचितायां सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गतं शालाक्यतन्त्रं समाप्तम् |

Last updated on July 8th, 2021 at 11:51 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi