विषय सूची पर जायें

15. भग्ननिदानम् - निदान - सु.

सुश्रुतसंहिता ।

अथ निदानस्थानम्‌ ।

पञ्चदशोऽध्यायः ।

अथातो भग्नानां निदानं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

पतनपीडनप्रहाराक्षेपणव्यालमृगदशनप्रभृतिभिरभिघातविशेषैरनेकविधमस्थ्नां भङ्गमुपदिशन्ति ||३||

तत्र भङ्ग(ग्न)जातमनेकविधमनुसार्यमाणं द्विविधमेवोपपद्यते सन्धिमुक्तं, काण्डभग्नं च |

तत्र षड्विधं सन्धिमुक्तं, द्वादशविधं काण्डभग्नं भवति ||४||

तत्र सन्धिमुक्तम्- उत्पिष्टं, विश्लिष्टं, विवर्तितम्, अवक्षिप्तम्, अतिक्षिप्तं, तिर्यक्क्षिप्तमिति षड्विधम् ||५||

तत्र प्रसारणाकुञ्चनविवर्तनाक्षेपणाशक्तिरुग्ररुजत्वं स्पर्शासहत्वं चेति सामान्यं सन्धिमुक्तलक्षणमुक्तम् ||६||

तत्र सन्धिमुक्तस्य सामान्यलक्षणमाह- तत्र प्रसारणेत्यादि| विवर्तनं विपरीतवर्तनम्, आक्षेपणमतिशयेन चालनम्||६||

वैशेषिकं तूत्पिष्टे सन्धावुभयतः शोफो वेदनाप्रादुर्भावो विशेषतश्च नानाप्रकारा वेदना रात्रौ प्रादुर्भवन्ति; विश्लिष्टेऽल्पः शोफो वेदनासातत्यं सन्धिविक्रिया च; विवर्तिते तु सन्धिपार्श्वापगमनाद्विषमाङ्गता वेदना च; अवक्षिप्ते सन्धिविश्लेषस्तीव्ररुजत्वं च; अतिक्षिप्ते द्वयोः सन्ध्यस्थ्नोरतिक्रान्तता वेदना च; तिर्यक्क्षिप्ते त्वेकास्थिपार्श्वापगमनमत्यर्थं वेदना चेति ||७||

काण्डभग्नमत ऊर्ध्वं वक्ष्यामः- कर्कटकम्, अश्वकर्णं, चूर्णितं, पिच्चितम्, अस्थिच्छल्लितं, काण्डभग्नं, मज्जानुगतम्, अतिपातितं, वक्रं, छिन्नं, पाटितं, स्फुटितमिति द्वादशविधम् ||८||

श्वयथुबाहुल्यं स्पन्दनविवर्तनस्पर्शासहिष्णुत्वमवपीड्यमाने शब्दः स्रस्ताङ्गता विविधवेदनाप्रादुर्भावः सर्वास्ववस्थासु न शर्मलाभ इति समासेन काण्डभग्नलक्षणमुक्तम् ||९||

विशेषस्तु सम्मूढमुभयतोऽस्थि मध्ये भ(ल)ग्नं ग्रन्थिरिवोन्नतं कर्कटकम्, अश्वकर्णवदुद्गतमश्वकर्णकं, स्पृश्यमानं शब्दवच्चूर्णितमवगच्छेत्, पिच्चितं पृथुतां गतमनल्पशोफं, पार्श्वयोरस्थि हीनोद्गतमस्थिच्छलितं, वेल्लते प्रकम्पमानं काण्डभग्नम्, अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य मज्जानमुन्नह्यतीति मज्जानुगतम्, अस्थि निःशेषतश्छिन्नमतिपातितम्, आभुग्नमविमुक्तास्थि वक्रम्, अन्यतरपार्श्वावशिष्टं छिन्नं, पाटितमणुबहुविदारितं वेदनावच्च, शूकपूर्णमिवाध्मातं विपुलं विस्फुटितं स्फुटितमिति ||१०||

तेषु चूर्णितच्छिन्नातिपातितमज्जानुगतानि कृच्छ्रसाध्यानि, कृशवृद्धबालानां क्षतक्षीणकुष्ठिश्वासिनां सन्ध्युपगतं चेति ||११||

भवन्ति चात्र-

भिन्नं कपालं कट्यां तु सन्धिमुक्तं तथा च्युतम् |

जघनं प्रति पिष्टं च वर्जयेत्तच्चिकित्सकः ||१२||

असंश्लिष्टं कपालं तु ललाटे चूर्णितं च यत् |

भग्नं स्तनान्तरे शङ्खे पृष्ठे मूर्ध्नि च वर्जयेत् ||१३||

आदितो यच्च दुर्जातमस्थि सन्धिरथापि वा |

सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबन्धनात् ||१४||

सङ्क्षोभाद्वाऽपि यद्गच्छेद्विक्रियां तच्च वर्जयेत् |

मध्यस्य वयसोऽवस्थास्तिस्रो याः परिकीर्तिताः ||१५||

तत्र स्थिरो भवेज्जन्तुरुपक्रान्तो विजानता |

तरुणास्थीनि नम्यन्ते भज्यन्ते नलकानि तु ||१६||

कपालानि विभिद्यन्ते स्फुटन्ति रुचकानि च ||१७||

इति सुश्रुतसंहितायां निदानस्थाने भग्ननिदानं नाम पञ्चदशोऽध्यायः ||१५||

Last updated on May 31st, 2021 at 05:42 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi