चरकसंहिता
सिद्धिस्थानम् ।
प्रथमोऽध्याय: ।
अथात: कल्पनासिद्धिं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
का कल्पना पञ्चसु कर्मसूक्ता,
क्रमश्च क:, किं च कृताकृतेषु ।
लिङ्गं तथैवातिकृतेषु, संख्या
का, किंगुण:, केषु च कश्च बस्ति: ॥३॥
किं वर्जनीयं प्रतिकर्मकाले,
कृते कियान् वा परिहारकाल: ।
प्रणीयमानश्च न याति केन,
केनैति शीघ्रं, सुचिराच्च बस्ति: ॥४॥
साध्या गदा: स्वै: शमनैश्च केचित्
कस्मात् प्रयुक्तैर्न शमं व्रजन्ति ।
प्रचोदित: शिष्यवरेण सम्यगित्यग्निवेशेन भिषग्वरिष्ठ: ॥५॥
पुनर्वसुस्तन्त्रविदाह तस्मै
सर्वप्रजानां हितकाम्ययेदम् ॥
त्र्यहावरं सप्तदिनं परं तु
स्निग्धो नर: स्वेदयितव्य: उक्त: ॥६॥
नात: परं स्नेहनमादिशन्ति
सात्म्यीभवेत् सप्तदिनात् परं तु ।
स्नेहोऽनिलं हन्ति मृदूकरोति
देहं मलानां विनिहन्ति सङ्गम् ॥७॥
स्निग्धस्य सूक्ष्मेष्वयनेषु लीनं
स्वेदस्तु दोषं नयति द्रवत्वम् ।
ग्राम्यौदकानूपरसै: समांसैरुत्क्लेशनीय: पयसा च वम्य: ॥८॥
रसैस्तथा जाङ्गलजै: सयूषै:
स्निग्धै: कफावृद्धिकरैर्विरेच्य:।
श्लेष्मोत्तरश्छर्दयति ह्यदु:खं
विरिच्यते मन्दकफस्तु सम्यक् ॥९॥
अध: कफेऽल्पे वमनं विरेचयेद्विरेचनं वृद्धकफे तथोर्ध्वम् ।
स्निग्धाय देयं वमनं यथोक्तं
वान्तस्य पेयादिरनुक्रमश्च ॥१०॥
स्निग्धस्य सुस्विन्नतनोर्यथावद्विरेचनं योग्यतमं प्रयोज्यम् ।
पेयां विलेपीमकृतं कृतं च
यूषं रसं त्रिर्द्विरथैकशश्च ॥११॥
क्रमेण सेवेत विशुद्धकाय:
प्रधानमध्यावरशुद्धिशुद्ध: ।
यथाऽणुरग्निस्तृणगोमयाद्यै:
संधुक्ष्यमाणो भवति क्रमेण ॥१२॥
महान् स्थिर: सर्वपचस्तथैव
शुद्धस्य पेयादिभिरन्तरग्नि: ।
जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ ॥१३॥
दशैव ते द्वित्रिगुणा विरेके
प्रस्थस्तथा द्वित्रिचतुर्गुणश्च ।
पित्तान्तमिष्टं वमनं विरेकादर्धं कफान्तं च विरेकमाहु: ॥१४॥
द्वित्रान् सविट्कानपनीय वेगान्मेयं विरेके वमने तु पीतम् ।
क्रमात् कफ: पित्तमथानिलश्च
यस्यैति सम्यग्वमित: स इष्ट: ॥१५॥
हृत्पार्श्वमूर्धेन्द्रियमार्गशुद्धौ
तथा लघुत्वेऽपि च लक्ष्यमाणे ।
दुश्छर्दिते स्फोटककोठकण्डूहृत्खाविशुद्धिर्गुरुगात्रता च ॥१६॥
तृण्मोहमूर्च्छानिलकोपनिद्राबलादिहानिर्वमनेऽति च स्यात् ।
स्रोतोविशुद्धीन्द्रियसंप्रसादौ
लघुत्वमूर्जोऽग्निरनामयत्वम् ॥१७॥
प्राप्तिश्च विट्पित्तकफानिलानां
सम्यग्विरिक्तस्य भवेत् क्रमेण ।
स्याच्छ्लेष्मपित्तानिलसंप्रकोप:
सादस्तथाऽग्निर्गुरुता प्रतिश्या ॥१८॥
तन्द्रा तथा च्छर्दिररोचकश्च वातानुलोम्यं न च दुर्विरिक्ते ।
कफास्रपित्तक्षयजानिलोत्था:
सुप्त्यङ्गमर्दक्लमवेपनाद्या: ॥१९॥
निद्राबलाभावतम:प्रवेशा:
सोन्मादहिक्काश्च विरेचितेऽति ।
संसृष्टभक्तं नवमेऽह्नि सर्पिस्तं पाययेताप्यनुवासयेद्वा ॥२०॥
तैलाक्तगात्राय ततो निरूहं
दद्यात्र्यहान्नातिबुभुक्षिताय ॥
प्रत्यागते धन्वरसेन भोज्य:
समीक्ष्य वा दोषबलं यथार्हम् ॥२१॥
नरस्ततो निश्यनुवासनार्हो
नात्याशित: स्यादनुवासनीय: ।
शीते वसन्ते च दिवाऽनुवास्यो
रात्रौ शरद्ग्रीष्मघनागमेषु ॥२२॥
तानेव दोषान् परिरक्षता ये
स्नेहस्य पाने परिकीर्तिता: प्राक् ।
प्रत्यागते चाप्यनुवासनीये
दिवा प्रदेयं व्युषिताय भोज्यम् ॥२३॥
सायं च भोज्यं परतो द्वयहे वा
त्र्यहेऽनुवास्योऽहनि पञ्चमे वा ।
त्र्यहे त्र्यहे वाऽप्यथ पञ्चमे वा
दद्यान्निरूहादनुवासनं च ॥२४॥
एकं तथा त्रीन् कफजे विकारे
पित्तात्मके पञ्च तु सप्त वाऽपि ।
वाते नवैकादश वा पुनर्वा
बस्तीनयुग्मान् कुशलो विदध्यात् ॥२५॥
नरो विरिक्तस्तु निरूहदानं
विवर्जयेत् सप्तदिनान्यवश्यम् ।
शुद्धो निरूहेण विरेचनं च
तद्ध्यस्य शून्यं विकसेच्छरीरम् ॥२६॥
बस्तिर्वय:स्थापयिता सुखायुर्बलाग्निमेधास्वरवर्णकृच्च ।
सर्वार्थकारी शिशुवृद्धयूनां
निरत्यय: सर्वगदापहश्च ॥२७॥
विट् श्लेष्मपित्तानिलमूत्रकर्षी
दार्ढ्यावह: शुक्रबलप्रदश्च ॥
विश्वक्स्थितं दोषचयं निरस्य
सर्वान् विकारान् शमयेन्निरूह: ॥२८॥
देहे निरूहेण विशुद्धमार्गे
संस्नेहनं वर्णबलप्रदं च ।
न तैलदानात् परमस्ति किञ्चिद् द्रव्यं विशेषेण समीरणार्ते ॥२९॥
स्नेहेन रौक्ष्यं लघुतां गुरुत्वादौष्ण्याच्च शैत्यं पवनस्य हत्वा ।
तैलं ददात्याशु मन:प्रसादं
वीर्यं बलं वर्णमथाग्निपुष्टिम् ॥३०॥
मूले निषिक्तो हि यथा द्रुम: स्यान्नीलच्छद: कोमलपल्लवाग्र्य: ।
काले महान् पुष्पफलप्रदश्च
तथा नर: स्यादनुवासनेन ॥३१॥
स्तब्धाश्च ये सङ्कुचिताश्च येऽपि
ये पङ्गवो येऽपि च भग्नरुग्णा: ।
येषां च शाखासु चरन्ति वाता:
शस्तो विशेषणे हि तेषु बस्ति: ॥३२॥
आध्मापने विग्रथिते पुरीषे
शूले च भक्तानभिनन्दने च ।
एवंप्रकाराश्च भवन्ति कुक्षौ
ये चामयास्तेषु च बस्तिरिष्ट: ॥३३॥
याश्च स्त्रियो वातकृतोपसर्गा
गर्भं न गृह्णन्ति नृभि: समेता: ।
क्षीणेन्द्रिया ये च नरा: कृशाश्च
बस्ति: प्रशस्त: परमं च तेषु ॥३४॥
उष्णाभिभूतेषू वदन्ति शीताञ्छीताभिभूतेषु तथा सुखोष्णान्।
तत्प्रत्यनीकौषधसंप्रयुक्तान्
सर्वत्र बस्तीन् प्रविभज्य युञ्ज्यात् ॥३५॥
न बृंहणीयान् विदधीत बस्तीन्
विशोधनीयेषु गदेषु वैद्य: ।
कुष्ठप्रमेहादिषु मेदुरेषु
नरेषु ये चापि विशोधनीया: ॥३६॥
क्षीणक्षतानां न विशोधनीयान्न शोषिणां नो भृशदुर्बलानाम् ।
न मूर्च्छितानां न विशोधितानां
येषां च दोषेषु निबद्धमायु: ॥३७॥
शाखागता: कोष्ठगताश्च रोगा
मर्मोर्ध्वसर्वावयवाङ्गजाश्च ।
ये सन्ति तेषां न हि किश्चदन्यो
वायो: परं जन्मनि हेतुरस्ति ॥३८॥
विण्मूत्रपित्तादिमलाशयानां
विक्षेपसंघातकर: स यस्मात् ।
तस्यातिवृद्धस्य शमाय नान्यद्बस्तिं विना भेषजमस्ति किञ्चित् ॥३९॥
तस्माच्चिकित्सार्धमिति ब्रुवन्ति
सर्वां चिकित्सामपि बस्तिमेके।
नाभिप्रदेशं कटिपार्श्वकुक्षिं
गत्वा शकृद्दोषचयं विलोड्य ॥४०॥
संस्नेह्य कायं सपुरीषदोष:
सम्यक् सुखेनैति च य: स बस्ति: ।
प्रसृष्टविण्मूत्रसमीरणत्वं
रुच्यग्निवृद्ध्याशयलाघवानि ॥४१॥
रोगोपशान्ति: प्रकृतिस्थता च
बलं च तत् स्यात् सुनिरूढलिङ्गम् ।
स्याद्रुक्छिरोहृद्गुदबस्तिलिङ्गे
शोफ: प्रतिश्यायविकर्तिके च ॥४२॥
हृल्लासिका मारुतमूत्रसङ्ग:
श्वासो न सम्यक् च निरूहिते स्यु: ।
लिङ्गं यदेवातिविरेचितस्य
भवेत्तदेवातिनिरूहितस्य ॥४३॥
प्रत्येत्यसक्तं सशकृच्च तैलं
रक्तादिबुद्धीन्द्रियसंप्रसाद: ।
स्वप्नानुवृत्तिर्लघुता बलं च
सृष्टाश्च वेगा: स्वनुवासिते स्यु: ॥४४॥
अध:शरीरोदरबाहुपृष्ठपार्श्वेषु रुग्रूक्षखरं च गात्रम् ।
ग्रहश्च विण्मूत्रसमीरणानामसम्यगेतान्यनुवासितस्य ॥४५॥
हृल्लासमोहक्लमसादमूर्च्छा
विकर्तिका चात्यनुवासितस्य ।
यस्येह यामाननुवर्तते त्रीन्
स्नेहो नर: स्यात् स विशुद्धदेह: ॥४६॥
आश्वागतेऽन्यस्तु पुनर्विधेय:
स्नेहो न संस्नेहयति ह्यतिष्ठन् ।
त्रिंशन्मता: कर्म नु बस्तयो हि
कालस्ततोऽर्धेन ततश्च योग: ॥४७॥
सान्वासना द्वादश वै निरूहा:
प्राक् स्नेह एक: परतश्च पञ्च ।
काले त्रयोऽन्ते पुरतस्तथैक:
स्नेहा निरूहान्तरिताश्च षट् स्यु: ॥४८॥
योगे निरूहास्त्रय एव देया:
स्नेहाश्च पञ्चैव परादिमध्या: ।
त्रीन् पञ्च वाऽऽहुश्चतुरोऽथ षड्वा
वातादिकानामनुवासनीयान् ॥४९॥
स्नेहान् प्रदायाशु भिषग्विदध्यात्
स्रोतोविशुद्ध्यर्थमतो निरूहान् ।
विशुद्धदेहस्य तत: क्रमेण
स्निग्धं तलस्वेदितमुत्तमाङ्गम् ॥५०॥
विरेचयेत्त्रिर्द्विरथैकशो वा
बलं समीक्ष्य त्रिविधं मलानाम् ।
उर: शिरोलाघवमिन्द्रियाच्छ्यं
स्रोतोविशुद्धिश्च भवेद्विशुद्धे ॥५१॥
गलोपलेप: शिरसो गुरुत्वं
निष्ठीवनं चाप्यथ दुर्विरिक्ते ।
शिरोक्षिशङ्खश्रवणार्तितोदावत्यर्थशुद्धे तिमिरं च पश्येत् ॥५२॥
स्यात्तपर्णं तत्र मृदु द्रवं च
स्निग्धस्य तीक्ष्णं तु पुनर्न योगे ।
इत्यातुरस्वस्थसुख: प्रयोगो
बलायुषोर्वृद्धिकृदामयघ्न: ॥५३॥
कालस्तु बस्त्यादिषु याति यावांस्तावान् भवेद्द्वि: परिहारकाल: ।
अत्यासनस्थानवचांसि यानं
स्वप्नं दिवा मैथुनवेगरोधान् ॥५४॥
शीतोपचारापशोकरोषांस्त्यजेदकालाहितभोजनं च ।
बद्धे प्रणीते विषमं च नेत्रे
मार्गे तथाऽर्श:कफविड्विबद्धे ॥५५॥
न याति बस्तिर्न सुखं निरेति
दोषावृतोऽल्पो यदि वाऽल्पवीर्य: ।
प्राप्ते तु वर्चोनिलमूत्रवेगे
वातेऽतिवृद्धेऽल्पबले गुदे वा ॥५६॥
अत्युष्णतीक्ष्णश्च मृदौ च कोष्ठे
प्रणीतमात्र: पुनरेति बस्ति: ।
मेद:कफाभ्यामनिलो निरुद्ध:
शूलाङ्गसुप्तिश्वयथून् करोति ॥५७॥
स्नेहं तु युञ्जन्नबुधस्तु तस्मै
संवर्धयत्येव हि तान् विकारान् ।
रोगास्तथाऽन्येऽप्यवितर्क्यमाणा:
परस्परेणावगृहीतमार्गा: ॥५८॥
संदूषिता धातुभिरेव चान्यै:
स्वैर्भेषजैर्नोपशमं व्रजन्ति ।
सर्वं च रोगप्रशमाय कर्म
हीनातिमात्रं विपरीतकालम् ॥५९॥
मिथ्योपचाराच्च न तं विकारं
शान्तिं नयेत् पथ्यमपि प्रयुक्तम् ।
तत्र श्लोक:–
प्रश्नानिमान् द्वादश पञ्चकर्माण्युद्दिश्य सिद्धाविह कल्पनायाम् ॥६०॥
प्रजाहितार्थं भगवान् महार्थान्
सम्यग्जगादर्षिवरोऽत्रिपुत्र:।
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते
सिद्धिस्थाने कल्पनासिद्धिर्नाम प्रथमोऽध्याय: ॥१॥
Last updated on July 5th, 2021 at 05:23 am