चरकसंहिता
सिद्धिस्थानम्।
एकादशोऽध्याय: ।
अथात: फलमात्रासिद्धिं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
भगवन्तमुदारसत्त्वधीश्रुतिविज्ञानसमृद्धमत्रिजम्।
फलबस्तिवरत्वनिश्चये
सविवादा मुनयोऽभ्युपागमन्॥३॥
भृगुकौशिककाप्यशौनका:
सपुलस्त्यासितगौतमादय: ।
कतमत् प्रवरं फलादिषु
स्मृतमास्थापनयोजनास्विति॥४॥
कफपित्तहरं वरं फलेष्वथ जीमूतकमाह शौनक: ।
मृदुवीर्यतयाऽभिनत्ति तच्छकृदित्याह नृपोऽथ वामक: ॥५॥
कटुतुम्बममन्यतोत्तमं
वमने दोषसमीरणं च तत्।
तदवृष्यमशैत्यतीक्ष्णताकटुरौक्ष्यादिति गौतमोऽब्रवीत्॥६॥
कफपित्तनिबर्हणं परं
स च धामार्गवमित्यमन्यत।
तदमन्यत वातलं पुनर्बडिशो ग्लानिकरं बलापहम्॥७॥
कुटजं प्रशशंस चोत्तमं
न बलघ्नं कफपित्तहारि च।
अतिविज्जलमौर्ध्वभागिकं
पवनक्षोभि च काप्य आह तत्॥८॥
कृतवेधनमाह वातलं
कफपित्तं प्रबलं हरेदिति।
तदसाध्विति भद्रशौनक:
कटुकं चातिबलघ्नमित्यपि॥९॥
इति तद्वचनानि हेतुभि:
सुविचित्राणि निशम्य बुद्धिमान्।
प्रशशंस फलेषु निश्चयं
परमं चात्रिसुतोऽब्रवीदिदम्॥१०॥
फलदोषगुणान् सरस्वती
प्रति सर्वैरपि सम्यगीरिता।
न तु किंचिददोषनिर्गुणं
गुणभूयस्त्वमतो विचिन्त्यते॥११॥
इह कुष्ठहिता गरागरी
हितमिक्ष्वाकु तु मेहिने मतम्।
कुटजस्य फलं हृदामये
प्रवरं कोठफलं च पाण्डुषु॥१२॥
उदरे कृतवेधनं हितं,
मदनं सर्वगदाविरोधि तु।
मधुरं सकषायतिक्तकं
तदरूक्षं सकटूष्णविज्जलम्॥१३॥
कफपित्तहृदाशुकारि चाप्यनपायं पवनानुलोमि च।
फलनाम विशेषतस्त्वतो
लभतेऽन्येषु फलेषु सत्स्वपि॥१४॥
गुरुणेति वचस्युदाहृते
मुनिसङ्घेन च पूजिते तत: ।
प्रणिपत्य मुदा समन्वित:
सहित: शिष्यगणोऽनुपृष्टवान्॥१५॥
सर्वकर्मगुणकृद्गुरुणोक्तो
बस्तिरूर्ध्वमथ नैति नाभित: ।
नाभ्यधो गुदमत: सशरीरात् सर्वत: कथमपोहति दोषान्॥१६॥
तद्गुरुरब्रवीदिदं शरीरं
तन्त्रयतेऽनिल: सङ्गविघातात्।
केवल एव दोषसहितो वा
स्वाशयग: प्रकोपमुपयाति॥१७॥
तं पवनं सपित्तकफविट्कं
शुद्धिकरोऽनुलोमयति बस्ति: ।
सर्वशरीरगश्च गदसंघस्तत्प्रशमात् प्रशान्तिमुपयाति॥१८॥
अथाधिगम्यार्थमखण्डितं धिया
गजोष्ट्रगोश्वाव्यजकर्म रोगनुत्।
अपृच्छदेनं स च बस्तिमब्रवीद्विधिं च तस्याह पुन: प्रचोदित: ॥१९॥
आजोरणौ सौम्य गजोष्ट्रयो: कृते
गवाश्वयोर्बस्तिमुशन्ति माहिषम्।
अजाविकानां तु जरद्गवोद्भवं
वदन्ति बस्तिं तदुपायचिन्तका: ॥२०॥
अरत्निमष्टादश षोडशाङ्गुलं
तथैव नेत्रं हि दशाङ्गुलं क्रमात्।
गजोष्ट्रगोश्वाव्यजबस्तिसंधौ
चतुर्थभागोपनयं हितं वदेत्॥२१॥
प्रस्थस्त्वजाव्योर्हि निरूहमात्रा
गवादिषु द्वित्रिगुणं यथाबलम्।
निरूहमुष्ट्रस्य तथाऽऽढकद्वयं
गजस्य वृद्धिस्त्वनुवासनेऽष्टम: ॥२२॥
कलिङ्गकुष्ठे मधुकं च पिप्पली
वचा शताह्वा मदनं रसाञ्जनम्।
हितानि सर्वेषु गुड: ससैन्धवो
द्विपञ्चमूलं च विकल्पना त्वियम्॥२३॥
गजेऽधिकाऽश्वत्थवटाश्वकर्णका:
सखादिरप्रग्रहशालतालजा: ।
तथा च पर्ण्यौ धवशिग्रुपाटलीमधूकसारा: सनिकुम्भचित्रका: ॥२४॥
पलाशभूतीकसुराह्वरोहिणीकषाय उक्तस्त्वधिको गवां हित: ।
पलाशदन्तीसुरदारुकत्तृणद्रवन्त्य उक्तास्तुरगस्य चाधिका: ॥२५॥
खरोष्ट्रयो: पीलुकरीरखादिरा:
शम्याकबिल्वादिगणस्य च च्छदा: ।
अजाविकानां त्रिफलापरूषकं
कपित्थकर्कन्धु सबिल्वकोलजम्॥२६॥
अथाग्निवेश: सततातुरान् नरान्
हितं च पप्रच्छ गुरुस्तदाह च।
सदाऽऽतुरा: श्रोत्रियराजसेवकास्तथैव वेश्या सह पण्यजीविभि: ॥२७॥
द्विजो हि वेदाध्ययनव्रताह्निकक्रियादिभिर्देहहितं न चेष्टते।
नृपोपसेवी नृपचित्तरक्षणात्
परानुरोधाद्बहुचिन्तनाद्भयात्॥२८॥
नृचित्तवर्तिन्युपचारतत्परा
मृजाभि(वि)भूषानिरता पणाङ्गना।
सदासनादत्यनुबन्धविक्रयक्रयादिलोभादपि पण्यजीविन: ॥२९॥
सदैव ते ह्यागतवेगनिग्रहं
समाचरन्ते न च कालभोजनम्।
अकालनिर्हारविहारसेविनो
भवन्ति येऽन्येऽपि सदाऽऽतुराश्च ते॥३०॥
समीरणं वेगविधारणोद्धतं
विबन्धसर्वाङ्गरुजाकरं भिषक्।
समीक्ष्य तेषां फलवर्तिमादित:
सुकल्पितां स्नेहवतीं प्रयोजयेत्॥३१॥
पुनर्नवैरण्डनिकुम्भचित्रकान्
सदेवदारुत्रिवृतानिदिग्धिकान्।
महान्ति मूलानि च पञ्च यानि
विपाच्य मूत्रे दधिमस्तुसंयुते॥३२॥
सतैलसर्पिर्लवणैश्च पञ्चभिर्विमूर्च्छितं बस्तिमथप्रयोजयेत्।
निरूहितं धन्वरसेन भोजितं
निकुम्भतैलेन ततोऽनुवासयेत्॥३३॥
बलां सरास्नां फलबिल्वचित्रकान्
द्विपञ्चमूलं कृतमालकात् फलम्।
यवान् कुलत्थांश्च पचेज्जलाढके
रस: स पेष्यैस्तु कलिङ्गकादिभि: ॥३४॥
सतैलसर्पिर्गुडसैन्धवो हित:
सदातुराणां बलवर्णवर्धन: ।
तथाऽनुवास्ये मधुकेन साधितं
फलेन बिल्वेन शताह्वयाऽपि वा॥३५॥
सजीवनीयस्तु रसोऽनुवासने
निरूहणे चालवण: शिशोर्हित: ।
न चान्यदाश्वङ्गबलाभिवर्धनं
निरूहबस्ते: शिशुवृद्धयो: परम्॥३६।
तत्र श्लोक:–
फलकर्म बस्तिवरता नेत्रं यद्बस्तयो गवादीनाम्।
सततातुराश्च दिष्टा: फलमात्रायां हितं चैषाम्॥३७॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने फलमात्रासिद्धिर्नामैकादशोऽध्याय: ॥११॥
Last updated on July 6th, 2021 at 11:02 am