विषय सूची पर जायें

05. राजयक्ष्मादि निदान - निदान - अ.हृ."

अष्टाङ्गहृदयस्य (निदानस्थानम्‌) राजयक्ष्मादिनिदानं

पञ्चमोऽध्यायः।

अथातो राजयक्ष्मादिनिदानं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

अथ राजयक्ष्मनिदानम्‌।

अनेकरोगानुगतो बहुरोगपुरोगमः

राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः॥१॥

नक्षत्राणां द्विजानां च राज्ञोऽभूद्यदयं पुरा।

यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः॥२॥

देहौषधक्षयकृतेः क्षयस्तत्सम्भवाच्च सः।

रसादिशोषणाच्छोषो रोगराट्‌ तेषु राजनात्‌॥३॥

साहसं वेगसंरोधः शुक्रौजःस्नेहसङ्‌क्षयः।

अन्नपानविधित्यागश्चत्वारस्तस्य हेतवः॥४॥

तैरुदीर्णोऽनिलः पित्तं कफं चोदीर्य सर्वतः।

शरीरसन्धीनाविश्य तान्‌ सिराश्च प्रपीडयन्‌॥५॥

मुखानि स्रोतसां रुद्‌ध्वा तथैवातिविवृत्य वा।

सर्पन्नूर्ध्वमधस्तिर्यग्यथास्वं जनयेद्गदान्‌॥६॥

रूपं भविष्यतस्तस्य प्रतिश्यायो भृशं क्षवः।

प्रसेको मुखमाधुर्यं सदनं वह्निदेहयोः॥७॥

स्थाल्यमत्रान्नपानादौ शुचावप्यशुचीक्षणम्‌।

मक्षिकातृणकेशादिपातः प्रायोऽन्नपानयोः॥८॥

हृल्लासश्छर्दिररुचिरश्नतोऽपि बलक्षयः।

पाण्योरवेक्षा पादास्यशोफोऽक्ष्णोरतिशुक्लता॥९॥

बाह्वोः प्रमाणजिज्ञासा काये बैभत्स्यदर्शनम्‌।

स्त्रीमद्यमांसप्रियता घृणित्वं मूर्द्धगुण्ठनम्‌॥१०॥

नखकेशातिवृद्धिश्च, स्वप्ने चाभिभवो भवेत्‌।

पतङ्गकृकलासाहिकपिश्वापदपक्षिभिः॥११॥

केशास्थितुषभस्मादिराशौ समधिरोहणम्‌।

शून्यानां ग्रामदेशानां दर्शनं शुष्यतोऽम्भसः॥१२॥

ज्योतिर्गिरीणां पततां ज्वलतां च महीरुहाम्‌।

पीनसश्वासकासांसमूर्द्धस्वररुजोऽरुचिः॥१३॥

ऊर्ध्वं, विड्‌भ्रंशसंशोषावधः, च्छर्दिश्च कोष्ठगे।

तिर्यक्स्थे पार्श्वरुग्दोषे, सन्धिगे भवति ज्वरः॥१४॥

रूपाण्येकादशैतानि जायन्ते राजयक्ष्मिणः।

तेषामुपद्रवान्‌ विद्यात्कण्ठोद्‌ध्वंसमुरोरुजम्‌॥१५॥

जृम्भाङ्गमर्दनिष्ठीववह्निसादास्यपूतिताः।

तत्र वाताच्छिरः पार्श्वशूलमंसाङ्गमर्दनम्‌॥१६॥

कण्ठोद्‌ध्वंसः स्वरभ्रंशः पित्तात्पादांसपाणिषु।

दाहोऽतिसारोऽसृक्छर्दिर्मुखगन्धो ज्वरो मदः॥१७॥

कफादरोचकश्छर्दिः कासो मूद्‌र्धाङ्गगौरवम्‌।

प्रसेकः पीनसः श्वासः स्वरसादोऽल्पवह्निता॥१८॥

दोषैर्मन्दानलत्वेन सोपलेपैः कफोल्बणैः।

स्रोतोमुखेषु रुद्धेषु धातूष्मस्वल्पकेषु च॥।१९॥

विदह्यमानः स्वस्थाने रसस्तांस्तानुपद्रवान्‌।

कुर्यादगच्छन्मांसादीनसृक्‌ चोर्ध्वं प्रधावति॥२०॥

पच्यते कोष्ठ एवान्नमन्नपक्त्रैव चास्य यत्‌।

प्रायोऽस्मान्मलतां यातं नैवालं धातुपुष्टये॥२१॥

रसोऽप्यस्य न रक्ताय मांसाय कुत एव तु।

उपस्तब्धः स शकृता केवलं वर्तते क्षयी॥२२॥

लिङ्गेष्वल्पेष्वपि क्षीणं व्याधौषधबलाक्षमम्‌।

वर्जयेत्‌ साधयेदेव सर्वेष्वपि ततोऽन्यथा॥२३॥

इति राजयक्ष्मनिदानम्‌।

अथ स्वरभेदनिदानम्‌।

दोषैर्व्यस्तैः समस्तैश्च क्षयात्‌ षष्ठश्च मेदसा।

स्वरभेदो भवेत्‌ तत्र क्षामो रूक्षश्चलः स्वरः॥२४॥

शूकपूर्णाभकण्ठत्वं स्निग्धोष्णोपशयोऽनिलात्‌।

पित्तात्तालुगले दाहः शोष उक्तावसूयनम्‌॥२५॥

लिम्पन्निव कफात्कण्ठं मन्दः खुरखुरायते।

स्वरो विबद्धः सर्वैस्तु सर्वलिङ्गः क्षयात्कषेत्‌॥२६॥

धूमायतीव चात्यर्थम्‌ मेदसा श्लेष्मलक्षणः।

कृच्छ्रलक्ष्याक्षरश्च अत्र सर्वैरन्त्यं च वर्जयेत्‌॥२७॥

इति स्वरभेदनिदानम्‌।

अथारोचकनिदानम्‌।

अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रयैः।

सन्निपातेन मनसः सन्तापेन च पञ्चमः॥२८॥

कषायतिक्तमधुरं वातादिषु मुखं क्रमात्‌।

सर्वोत्थे विरसं शोकक्रोधादिषु यथामलम्‌॥२९॥

इत्यरोचकनिदानम्‌।

अथ छर्दिनिदानम्‌।

छर्दिर्दोषैः पृथक्सर्वैर्द्विष्टैरर्थैश्च पञ्चमी।

उदानो विकृतो दोषान्‌ सर्वास्वप्यूर्ध्वमस्यति॥३०॥

तासूत्क्लेशास्यलावण्यप्रसेकारुचयोऽग्रगाः।

नाभिपृष्ठं रुजन्‌ वायुः पार्श्वे चाहारमुत्क्षिपेत्‌॥३१॥

ततो विच्छिन्नमल्पाल्पं कषायं फेनिलं वमेत्‌।

शब्दोद्गारयुतं कृष्णमच्छं कृच्छ्रेण वेगवत्‌॥३२॥

कासास्यशोषहृन्मूर्द्धस्वरपीडाक्लमान्वितः।

पित्तात्क्षारोदकनिभं धूम्रं हरितपीतकम्‌॥३३॥

सासृगम्लं कटूष्णं च तृण्मूर्च्छातापदाहवत्‌।

कफात्‌ स्निग्धं घनं शीतं श्लेष्मतन्तुगवाक्षितम्‌॥३४॥

मधुरं लवणं भूरि प्रसक्तं लोमहर्षणम्‌।

मुखश्वयथुमाधुर्यतन्द्राहृल्लासकासवान्‌॥३५॥

सर्वलिङ्गा मलैः सर्वै रिष्टोक्ता या च तां त्यजेत्‌।

पूत्यमेध्याशुचिद्विष्टदर्शनश्रवणादिभिः॥३६॥

तप्ते चित्ते हृदि क्लिष्टे छर्दिर्द्विष्टार्थयोगजा।

वातादीनेव विमृशेत्कृमितृष्णामदौहृदे॥३७॥

शूलवेपथुहृल्लासैर्विशेषात्‌ कृमिजां वदेत्‌।

कृमिहृद्रोगलिङ्गैश्च

इति छर्दिनिदानम्‌।

अथ हृद्रोगनिदानम्‌।

स्मृताः पञ्च तु हृद्गदाः॥३८॥

तेषां गुल्मनिदानोक्तैः समुत्थानैश्च सम्भवः।

वातेन शूल्यतेऽत्यर्थं तुद्यते स्फुटतीव च॥३९॥

भिद्यते शुष्यति स्तब्धं हृदयं शून्यता द्रवः।

अकस्माद्दीनता शोको भयं शब्दासहिष्णुता॥४०॥

वेपथुर्वेष्टनं मोहः श्वासरोधोऽल्पनिद्रता।

पित्तात्तृष्णा भ्रमो मूर्च्छा दाहः स्वेदोऽम्लकः क्लमः॥४१॥

छर्दनं चाम्लपित्तस्य धूमकः पीतता ज्वरः।

श्लेष्मणा हृदयं स्तब्धं भारिकं साश्मगर्भवत्‌॥४२॥

कासाग्निसादनिष्ठीवनिद्रालस्यारुचिज्वराः।

सर्वलिङ्गस्त्रिभिर्दोषैः कृमिभिः श्यावनेत्रता॥४३॥

तमःप्रवेशो हृल्लासः शोषः कण्डूः कफस्रुतिः।

हृदयं प्रततं चात्र क्रकचेनेव दार्यते॥४४॥

चिकित्सेदामयं घोरं तं शीघ्रं शीघ्रकारिणम्‌।

इति हृद्रोगनिदानम्‌।

अथ तृष्णानिदानम्‌।

वातात्पित्तात्कफात्तृष्णासन्निपाताद्रसक्षयात्‌॥४५॥

षष्ठी स्यादुपसर्गाच्च वातपित्ते तु कारणम्‌।

सर्वासु तत्प्रकोपो हि सौम्यधातुप्रशोषणात्‌॥४६॥

सर्वदेहभ्रमोत्कम्पतापतृड्‌दाहमोहकृत्‌।

जिह्वामूलगलक्लोमतालुतोयवहाः सिराः॥४७॥

संशोष्य तृष्णा जायन्ते तासां सामान्यलक्षणम्‌।

मुखशोषो जलातृप्तिरन्नद्वेषः स्वरक्षयः॥४८॥

कण्ठौष्ठजिह्वाकार्कश्यं जिह्वानिष्क्रमणं क्लमः।

प्रलापश्चित्तविभ्रंशस्तृङ्‌ग्रहोक्तास्तथाऽऽमयाः॥४९॥

मारुतात्‌ क्षामता दैन्यं शङ्खतोदः शिरोभ्रमः।

गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः॥५०॥

शीताम्बुपानाद्वृद्धिश्च पित्तान्मूर्च्छास्यतिक्तता।

रक्तेक्षणत्वं प्रततं शोषो दाहोऽतिधूमकः॥५१॥

कफो रुणद्धि कुपितस्तोयवाहिषु मारुतम्‌।

स्रोतःसु स कफस्तेन पङ्कवच्छोष्यते ततः॥५२॥

शुकैरिवाचितः कण्ठो निद्रा मधुरवक्त्रता।

आध्मानं शिरसो जाड्यं स्तैमित्यच्छर्द्यरोचकाः॥५३॥

आलस्यमविपाकश्च सर्वैः स्यात्सर्वलक्षणा।

आमोद्भवा च, भक्तस्य संरोधाद्वातपित्तजा॥५४॥

उष्णक्लान्तस्य सहसा शीताम्भो भजतस्तृषम्‌।

ऊष्मा रुद्धो गतः कोष्ठं यां कुर्यात्पित्तजैव सा॥५५॥

या च पानातिपानोत्था, तीक्ष्णाग्नेः स्नेहजा च या।

स्निग्धगुर्वम्ललवणभोजनेन कफोद्भवा॥५६॥

तृष्णा रसक्षयोक्तेन लक्षणेन क्षयात्मिका।

शोषमेहज्वराद्यन्यदीर्घरोगोपसर्गतः॥५७॥

या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता॥५७.१.२॥

इति तृष्णानिदानम्‌॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये शारीरस्थाने राजयक्ष्मादिनिदानं नाम पञ्चमोऽध्यायः॥५॥

Last updated on August 13th, 2021 at 10:49 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi