चरकसंहिता
सिद्धिस्थानम्।
नवमोऽध्याय: ।
अथातस्त्रिमर्मीयांसिद्धिंव्याख्यास्याम: ॥१॥
इतिहस्माहभगवानात्रेय: ॥२॥
सप्तोत्तरंमर्मशतमस्मिञ्छरीरे स्कन्धशाखासमाश्रितमग्निवेश !। तेषामन्यतमपीडायां समधिका पीडा भवति, चेतनानिबन्धवैशेष्यात्।तत्र शाखाश्रितेभ्यो मर्मभ्य: स्कन्धाश्रितानि गरीयांसि, शाखानां तदाश्रितत्वात्, स्कन्धाश्रितेभ्योऽपि हृद्बस्तिशिरांसि, तन्मूलत्वाच्छरीरस्य॥३॥
तत्र हृदये दश धमन्य: प्राणापानौ मनो बुद्धिश्चेतना महाभूतानि च नाभ्यामरा इव प्रतिष्ठितानि, शिरसि इन्द्रियाणि इन्द्रियप्राणवहानि च स्रोतांसि सूर्यमिव गभस्तय: संश्रितानि, बस्तिस्तु स्थूलगुदमुष्कसेवनीशुक्रमूत्रवाहिनीनां नाडी(ली)नां मध्ये मूत्रधारोऽम्बुवहानां सर्वस्रोतसामुदधिरिवापगानां प्रतिष्ठा, बहुभिश्च तन्मूलैर्मर्मसंज्ञकै: स्रोतोभिर्गगनमिव दिनकरकरैर्व्याप्तमिदं शरीरम्॥४॥
तेषांत्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेद: स्यात्, आश्रयनाशादाश्रितस्यापि विनाश:; तदुपघातात्तु घोरतरव्याधिप्रादुर्भाव:; तस्मादेतानि विशेषेण रक्ष्याणि बाह्याभिघाद्वातादिभ्यश्च॥५॥
तत्र हृद्यभिहते कासश्वासबलक्षयकण्ठशोषक्लोमाकर्षणजिह्वानिर्गममुखतालुशोषापस्मारोन्मादप्रलापचित्तनाशादय: स्यु:; शिरस्यभिहते मन्यास्तम्भार्दितचक्षुर्विभ्रममोहोद्वेष्टनचेष्टानाशकासश्वासहनुग्रहमूकगद्गदत्वाक्षिनिमीलनगण्डस्पन्दनजृम्भणलालास्रावस्वरहानिवदन-जिह्मत्वादीनि; बस्तौ तु वातमूत्रवर्चोनिग्रहवङ्क्षणमेहनबस्तिशूलकुण्डलोदावर्तगुल्मानिलाष्ठीलोपस्तम्भनाभिकुक्षिगुदश्रोणिग्रहादय:; वाताद्युपसृष्टानां त्वेषां लिङ्गानि चिकित्सिते सक्रियाविधीन्युक्तानि॥६॥
किंत्वेतानि विशेषतोऽनिलाद्रक्ष्याणि, अनिलो हि पित्तकफसमुदीरणे हेतु: प्राणमूलं च, स बस्तिकर्मसाध्यतम:, तस्मान्न बस्तिसमं किञ्चित् कर्म मर्मपरिपालनमस्ति। तत्र षडास्थापनस्कन्धान् विमाने द्वौ चानुवासनस्कन्धाविह च विहितान् बस्तीन् बुद्ध्या विचार्य महामर्मपरिपालनार्थं प्रयोजयेद्वातव्याधिचिकित्सां च॥७॥
भूयश्च हृद्युपसृष्टे हिङ्गुचूर्णं लवणानामन्यतमचूर्णसंयुक्तं मातुलुङ्गस्य रसेनान्येन वाऽम्लेन हृद्येन वा पाययेत्, स्थिरादिपञ्चमूलीरस: सशर्कर: पानार्थं, बिल्वादिपञ्चमूलरससिद्धा च यवागू:, हृद्रोगविहितं च कर्म, मूर्ध्नि तु वातोपसृष्टेऽभ्यङ्ग स्वेदनोपनाहस्नेहपान- नस्त:कर्मावपीडनधूमादीनि, बस्तौ तु कुम्भीस्वेद:, वर्तय; श्यामादिभिर्गोमूत्रसिद्धो निरूह:, बिल्वादिभिश्च सुरासिद्ध:, शरकाशेक्षुदर्भगोक्षुरकमूलशृतक्षीरैश्च त्रपुसैर्वारुखराश्वाबीजयवर्षभकवृद्धिकल्कितो निरूह:, पीतदारुसिद्धतैलेनानुवासनं, तैल्वकं च सर्पिर्विरेकार्थं, शतावरीगोक्षुरकबृहतीकण्टकारिकागुडूचीपुनर्नवोशीरमधुकद्विसारिवालोध्रश्रेयसीकुशकाशमूलकषायक्षीरचतुर्गुणं बलावृषर्षभकखराश्वोपकुञ्चिकावत्सकत्रपुसैर्वारुबीजशितिवारकमधुकवचाशतपुष्पाश्मभेदकवर्षाभूमदनफलकल्कसिद्धं तैलमुत्तरबस्तिर्निरूहो वा शुद्धस्निग्धस्विन्नस्य बस्तिशूलमूत्रविकारहर इति॥८॥
भवन्ति चात्र श्लोका:–
हृदये मूर्ध्नि बस्तौ च नृणां प्राणा: प्रतिष्ठिता: ।
तस्मात्तेषां सदा यत्नं कुर्वीत परिपालने॥९॥
आबाधवर्जनं नित्यं स्वस्थवृत्तानुवर्तनम्।
उत्पन्नार्तिविघातश्च मर्मणां परिपालनम्॥१०॥
अत ऊर्ध्वं विकारा ये त्रिमर्मीये चिकित्सिते।
न प्रोक्ता मर्मजास्तेषां काश्चिद्वक्ष्यामि सौषधान्॥११॥
क्रुद्ध: स्वै: कोपनैर्वायु: स्थानादूर्ध्वं प्रपद्यते।
पीडयन् हृदयं गत्वा शिर: शङ्खौ च पीडयन्॥१२॥
धनुर्वन्नमयेद्गात्राण्याक्षिपेन्मोहयेत्तथा।
(नमयेच्चाक्षिपेच्चाङ्गान्युच्छ्वासं निरुणद्धि च॥१३॥
कृच्छ्रेण चाप्युच्छ्वसिति स्तब्धाक्षोऽथ निमीलक: ॥
कपोत इव कूजेच्च नि:संज्ञ: सोऽपतन्त्रक: ।
दृष्टीं संस्तम्भ्य संज्ञा च हत्वा कण्ठेन कूजति॥१४॥
हृदि मुक्ते नर: स्वास्थ्यं याति मोहं वृते पुन: ।
वायुना दारुणं प्राहुरेके तमपतानकम्॥१५॥
श्वसनं कफवाताभ्यां रुद्धं तस्य विमोक्षयेत्।
तीक्ष्णै: प्रधमनै: संज्ञां तासु मुक्तासु विन्दति॥१६॥
मरिचं शिग्रुबीजानि विडङ्गं च फणिज्झकम्।
एतानि सूक्ष्मचूर्णानि दद्याच्छीर्षविरेचनम्॥१७॥
तुम्बुरूण्यभया हिङ्गु पौष्करं लवणत्रयम्।
यवक्वाथाम्बुना पेयं हृद्ग्रहे चापतन्त्रके॥१८॥
हिङ्ग्वम्लवेतसं शुण्ठीं ससौवर्चलदाडिमम्।
पिबेद्वातकफघ्नं च कर्म हृद्रोगनुद्धितम्॥१९॥
शोधना बस्तयस्तीक्ष्णा न हितास्तस्य कृत्स्नश: ।
सौवर्चलाभयाव्योषै: सिद्धं तस्मै घृतं हितम्॥२०॥
मधुरस्निग्धगुर्वन्नसेवनाच्चिन्तनाच्छ्रमात्।
शोकाप्तध्यनुषङ्गाच्च वायुनोदीरित: कफ: ॥२१॥
यदाऽसौ समवस्कन्द्य हृदयं हृदयाश्रयान्।
समावृणोति ज्ञानादींस्तदा तन्द्रोपजायते॥२२॥
हृदये व्याकुलीभावो वाक्चेष्टेन्द्रियगौरवम्।
मनोबुद्ध्यप्रसादश्च तन्द्राया लक्षणं मतम्॥२३॥
कफघ्नं तत्र कर्तव्यं शोधनं शमनानि च।
व्यायामो रक्तमोक्षश्च भोज्यं च कटुतिक्तकम्॥२४॥
मूत्रौकसादो जठरं कृच्छ्रमुत्सङ्गसंक्षयौ।
मूत्रातीतोऽनिलाष्ठीला वातबस्त्युष्णमारुतौ॥२५॥
वातकुण्डलिका ग्रन्थिर्विड्घातो बस्तिकुण्डलम्।
त्रयोदशैते मूत्रस्य दोषास्ताँल्लिङ्गत: शृणु॥२६॥
पित्तं कफो द्वावपि वा बस्तौ संहन्यते यदा।
मारुतेन तदा मूत्रं रक्तं पीतं घनं सृजेत्॥२७॥
सदाहं श्वेतसान्द्रं वा सर्वैर्वा लक्षणैर्युतम्।
मूत्रौकसादं तं विद्यात् पित्तश्लेष्महरैर्जयेत्॥२८॥
विधारणात् प्रतिहतं वातोदावर्तितं यदा।
पूरयत्युदरं मूत्रं तदा तदनिमित्तरुक्॥२९॥
अपक्तिमूत्रविट्सङ्गैस्तन्मूत्रजठरं वदेत्।
मूत्रवैरेचनीं तत्र चिकित्सां संप्रयोजयेत्॥३०॥
हिङ्गुद्विरुत्तरं चूर्णं त्रिमर्मीये प्रकीर्तितम्।
हन्यान्मूत्रोदरानाहमाध्मानं गुदमेढ्रयो: ॥३१॥
मूत्रितस्य व्यवायात्तु रेतो वातोद्धतं च्युतम्।
पूर्वं मूत्रस्य पश्चाद्वा स्रवेत् कृच्छ्रं तदुच्यते॥३२॥
खवैगुण्यानिलाक्षेपै: किञ्चिन्मूत्रं च तिष्ठति।
मणिसन्धौ स्रवेत् पश्चात्तदरुग्वाऽथ चातिरुक्॥३३॥
मूत्रोत्सङ्ग: स विच्छिन्नमुच्छेषगुरुशेफस: ।
वाताकृतिर्भवेद्वातान्मूत्रे शुष्यति संक्षय: ॥३४॥
चिरं धारयतो मूत्रं त्वरया न प्रवर्तते।
मेहमानस्य मन्दं वा मूत्रातीत: स उच्यते॥३५॥
आध्मापयन् बस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम्।
कुर्यात्तीव्रार्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम्॥३६॥
मूत्रं धारयतो बस्तौ वायु: क्रुद्धो विधारणात्।
मूत्ररोधार्तिकण्डूभिर्वातबस्ति: स उच्यते॥३७॥
उष्मणा सोष्मकं मूत्रं शोषयन् रक्तपीतकम्।
उष्णवात: सृजेत् कृच्छ्राद्बस्त्युपस्थार्तिदाहवान्॥३८॥
गतिसङ्गादुदावृत्त: समूत्रस्थानमार्गयो: ।
मूत्रस्य विगुणो वायुर्भग्नव्याविद्धकुण्डली॥३९॥
मूत्रं विहन्ति संस्तम्भभङ्गगौरववेष्टनै: ।
तीव्ररुङ्मूत्रविट्सङ्गैर्वातकुण्डलिकेति सा॥४०॥
रक्तं वातकफाद्दुष्टं बस्तिद्वारे सुदारुणम्।
ग्रन्थिं कुर्यात् सकृच्छ्रेण सृजेन्मूत्रं तदावृतम्॥४१॥
अश्मरीसमशूलं तं रक्तग्रन्थिं प्रचक्षते।
रूक्षदुर्बलयोर्वातेनोदावृत्तं शकृद्यदा॥४२॥
मूत्रस्रोत: प्रपद्येत विट्संसृष्टं तदा नर: ।
विङ्गन्धं मूत्रयेत् कृच्छ्राद्विड्विघातं विनिर्दिशेत्॥४३॥
द्रुताध्वलङ्घनायासादभिघातात् प्रपीडनात्।
स्वस्थानाब्दस्तिरुद्वृत्त: स्थूलस्तिष्ठतिगर्भवत्॥४४॥
शूलस्पन्दनदाहार्तो बिन्दुं बिन्दुं स्रवत्यपि।
पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्तिमान्॥४५॥
बस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम्।
पवनप्रबलं प्रायो दुर्निवारमबुद्धिभि: ॥४६॥
तस्मिन् पित्तान्विते दाह: शूलं मूत्रविवर्णता।
श्लेष्मणा गौरवं शोफ: स्निग्धं मूत्रं घनं सितम्॥४७॥
श्लेष्मरुद्धबिलो बस्ति: पित्तोदीर्णो न सिध्यति।
अविभ्रान्तबिल: साध्यो न तु य: कुण्डलीकृत: ॥४८॥
स्याद्बस्तौ कुण्डलीभूते हृन्मोह: श्वास एव च।
दोषाधिक्यमवेक्ष्यैतान् मूत्रकृच्छ्रहरैर्जयेत्॥४९॥
बस्तिमुत्तरबस्तिं च सर्वेषामेव दापयेत्।
पुष्पनेत्रं तु हैमं स्याच्छ्लक्ष्णमौत्तरबस्तिकम्॥५०॥
जात्यश्वहनवृन्तेन समं गोपुच्छसंस्थितम्।
रौप्यं वा सर्षपच्छिद्रं द्विकर्णं द्वादशाङ्गुलम्॥५१॥
तेनाजबस्तियुक्तेन स्नेहस्यार्धपलं नयेत्।
यथावयोविशेषेण स्नेहमात्रां विकल्प्य वा॥५२॥
स्नातस्य भुक्तभक्तस्य रसेन पयसाऽपि वा।
सृष्टविण्मूत्रवेगस्य पीठे जानुसमे मृदौ॥५३॥
ऋजो: सुखोपविष्टस्य हृष्टे मेढ्रे घृताक्तया।
शलाकयाऽन्विष्य गतिं यद्यप्रतिहता व्रजेत्॥५४॥
तत: शेफ:प्रमाणेन पुष्पनेत्रं प्रवेशयेत्।
गुदवन्मूत्रमार्गेण प्रणयेदनु सेवनीम्॥५५॥
हिंस्यादतिगतं बस्तिमूने स्नेहो न गच्छति।
सुखं प्रपीड्य निष्कम्पं निष्कर्षेन्नेत्रमेव च॥५६॥
प्रत्यागते द्वितीयं च तृतीयं च प्रदापयेत्।
अनागच्छन्नुपेक्ष्यस्तु रजनीव्युषितस्य च॥५७॥
पिप्पलीलवणागारधूमापामार्गसर्षपै: ।
वार्ताकुरसनिर्गुण्डीशम्पाकै: ससहाचरै: ॥५८॥
मूत्राम्लपिष्टै: सगुडैर्वर्तिं कृत्वा प्रवेशयेत्।
अग्रे तु सर्षपाकारां पश्चार्धे माषसंमिताम्॥५९॥
नेत्रदीर्घां घृताभ्यक्तां सुकुमारामभङ्गुराम्।
नेत्रवन्मूत्रनाड्यां तु पायौ चाङ्गुष्ठसंमिताम्॥६०॥
स्नेहे प्रत्यागते ताभ्यामानुवासनिको विधि: ।
परिहारश्च सव्यापत् ससम्यग्दत्तलक्षण: ॥६१॥
स्त्रीणामार्तवकाले तु प्रतिकर्म तदाचरेत्।
गर्भासना सुखं स्नेहं तदाऽऽदत्ते ह्यपावृता॥६२॥
गर्भं योनिस्तदा शीघ्रं जिते गृह्णाति मारुते।
बस्तिजेषु विकारेषु योनिविभ्रंशजेषु च॥६३॥
योनिशूलेषु तीव्रेषु योनिव्यापत्स्वसृग्दरे।
अप्रस्रवति मूत्रे च बिन्दुं बिन्दुं स्रवत्यपि॥६४॥
विदध्यादुत्तरं बस्तिं यथास्वौषधसंस्कृतम्।
पुष्पनेत्रप्रमाणं तु प्रमदानां दशाङ्गुलम्॥६५॥
मूत्रस्रोत:परीणाहं मुद्गस्रोतोऽनुवाहि च।
अपत्यमार्गे नारीणां विधेयं चतुरङ्गुलम्॥६६॥
व्द्यङ्गुलं मूत्रमार्गे तु बालायास्त्वेकमङ्गुलम्।
उत्तानाया: शयानाया: सम्यक् सङ्कोच्य सक्थिनी॥६७॥
अथास्या: प्रणयेन्नेत्रमनुवंशगतं सुखम्।
द्विस्त्रिश्चतुरिति स्नेहानहोरात्रेण योजयेत्॥६८॥
बस्तौ, बस्तौ प्रणीते च वर्ति: पीनतरा भवेत्।
त्रिरात्रं कर्म कुर्वीत स्नेहमात्रां विवर्धयेत्॥६९॥
अनेनैव विधानेन कर्म कुर्यात् पुनस्त्र्यहात्।
अत: शिरोविकाराणां कश्चिद्भेद: प्रवक्ष्यते॥७०॥
रक्तपित्तानिला दुष्टा: शङ्खदेशे विमूर्च्छिता: ।
तीव्ररुग्दाहरागं हि शोफं कुर्वन्ति दारुणम्॥७१॥
स शिरो विषवद्वेगी निरुध्याशु गलं तथा।
त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामत: ॥७२॥
परं त्र्यहाज्जीवति चेत् प्रत्याख्यायाचरेत् क्रियाम्।
शिरोविरेकसेकादि सर्वं वीसर्पनुच्च यत्॥७३॥
रूक्षात्यध्यशनात् पूर्ववातावश्यायमैथुनै: ।
वेगसंधारणायासव्यायामै: कुपितोऽनिल: ॥७४॥
केवल: सकफो वाऽर्धं गृहीत्वा शिरसस्तत: ।
मन्याभ्रूशङ्खकर्णाक्षिललाटार्धेऽतिवेदनाम्॥७५॥
शस्त्रारणिनिभां कुर्यात्तीव्रां सोऽर्धावभेदक: ।
नयनं वाऽथवा श्रोत्रमतिवृद्धो विनाशयेत्॥७६॥
चतु:स्नेहोत्तमा मात्रा शिर:कायविरेचनम्।
नाडीस्वेदो घृतं जीर्णं बस्तिकर्मानुवासनम्॥७७॥
उपानह: शिरोबस्तिर्दहनं चात्र शस्यते।
प्रतिश्याये शिरोरोगे यच्चोद्दिष्टं चिकित्सितम्॥७८॥
सन्धारणादजीर्णाद्यैर्मस्तिष्कं रक्तमारुतौ।
दुष्टौ दूषयतस्तच्च दुष्टं ताभ्यां विमूर्च्छितम्॥७९॥
सूर्योदयेंऽशुसंतापाद्द्रवं विष्यन्दते शनै: ।
ततो दिने शिर:शूलं दिनवृद्धया विवर्धते॥८०॥
दिनक्षये तत: स्त्याने मस्तिष्के संप्रशाम्यति।
सूर्यावर्त: स तत्र स्यात् सर्पिरौत्तरभक्तिकम्॥८१॥
शिर:कायविरेकौ च मूर्ध्ना त्रिस्नेहधारणम्।
जाङ्गलैरुपनाहश्च घृत क्षीरैश्च सेचनम्॥८२॥
बर्हितित्तिरिलावादिशृतक्षीरोत्थितं घृतम्।
स्यान्नावनं जीवनीयक्षीराष्टगुणसाधितम्॥८३॥
(उपवासातिशोकातिरूक्षशीताल्पभोजनै: ।)
दुष्टा दोषास्त्रयो मन्यापश्चाद्घाटासु वेदनाम्॥८४॥
तीव्रां कुर्वन्ति सा चाक्षिभ्रूशङ्खेष्ववतिष्ठते।
स्पन्दनं गण्डपार्श्वस्य नेत्ररोगं हनुग्रहम्॥८५॥
सोऽनन्तवातस्तं हन्यात् सिरार्कावर्तनाशनै: ।
वातोरूक्षादिभि: क्रुद्ध: शिर:कम्पमुदीरयेत्॥८६॥
तत्रामृताबलारास्नामहाश्वेताश्वगन्धकै: ।
स्नेहस्वेदादि वातघ्नं शस्तं नस्यं च तर्पणम्॥८७॥
नस्त:कर्म च कुर्वीत शिरोरोगेषु शास्त्रविद्।
द्वारं हि शिरसो नासा तेन तद् व्याप्य हन्ति तान्॥८८॥
नावनं चावपीडश्च ध्मापनं धूम एव च।
प्रतिमर्शश्च विज्ञेयं नस्त: कर्म तु पञ्चधा॥८९॥
स्नेहनं शोधनं चैव द्विविधं नावनं स्मृतम्।
शोधन: स्तम्भनश्च स्यादवपीडो द्विधा मत: ॥९०॥
चूर्णस्याध्मापनं तद्धि देहस्रोतोविशोधनम्।
विज्ञेयस्त्रिविधो धूम: प्रागुक्त: शमनादिक: ॥९१॥
प्रतिमर्शो भवेत् स्नेहो निर्दोष उभयार्थकृत्।
एवं तद्रेचनं कर्म तर्पणं शमनं त्रिधा॥९२॥
स्तम्भसुप्तिगुरुत्वाद्या: श्लैष्मिका ये शिरोगदा: ।
शिरोविरेचनं तेषु नस्त:कर्म प्रशस्यते॥९३॥
ये च वातात्मका रोगा: शिर:कम्पार्दितादय: ।
शिरसस्तर्पणं तेषु नस्त:कर्म प्रशस्यते॥९४॥
रक्तपित्तादिरोगेषु शमनं नस्यमिष्यते।
ध्मापनं धूमपानं च तथा योग्येषु शस्यते॥९५॥
(दोषादिकं समीक्ष्यैव भिषक् सम्यक् च कारयेत् )
फलादि भेषजं प्रोक्तं शिरसो यद्विरेचनम्॥९६॥
तच्चूर्णं कल्पयेत्तेन पचेत् स्नेहं विरचेनम्।
यदुक्तं मधुरस्कन्धे भेषजं तेन तर्पणम्॥९७॥
साधयित्वा भिषक् स्नेहं नस्त: कुर्याद्विधानवित्।
प्राक्सूर्ये मध्यसूर्ये वा प्राक्कृतावश्यकस्य च॥९८॥
उत्तानस्य शयानस्य शयने स्वास्तृते सुखम्।
प्रलम्बशिरस: किञ्चित् किञ्चित् पादोन्नतस्य च॥९९॥
दद्यान्नासापुटे स्नेहं तर्पणं बुद्धिमान् भिषक्।
अनवाक्शिरसो नस्यं न शिर: प्रतिपद्यते॥१००॥
अत्यवाक्शिरसो नस्यं मस्तुलुङ्गेऽवतिष्ठति।
अत एवंशयानस्य शुद्धयर्थं स्वेदयेच्छिर: ॥१०१॥
संस्वेद्य नासामुन्नम्य वामेनाङ्गुष्ठपर्वणा।
हस्तेन दक्षिणेनाथ कुर्यादुभयत: समम्॥१०२॥
प्रणाड्या पिचुना वाऽपि नस्त:स्नेहं यथाविधि।
कृते च स्वेदयेद्भूय आकर्षेच्च पुन: पुन: ॥१०३॥
तं स्नेहं श्लेष्मणा साकं तथा स्नेहो न तिष्ठति।
स्वेदेनोत्क्लेशित: श्लेष्मा नस्त:कर्मण्युपस्थित: ॥१०४॥
भूय: स्नेहस्य शैत्येन शिरसि स्त्यायते तत: ।
श्रोत्रमन्यागलाद्येषु विकाराय स कल्पते॥१०५॥
ततो नस्त:कृते धूमं पिबेत् कफविनाशनम्।
हितान्नभुङ्निवातोष्णसेवी स्यान्नियतेन्द्रिय: ॥१०६॥
विधिरेषोऽवपीडस्य कार्य: प्रध्मापनस्य तु।
तत् षडङ्गुलया नाड्या धमेच्चूर्णं मुखेन तु॥१०७॥
विरिक्तशिरसं तूष्णं पाययित्वाऽम्बु भोजयेत्।
लघु त्रिष्वविरुद्धं च निवातस्थमतन्द्रित: ॥१०८॥
विरेकशुद्धो दोषस्य कोपनं यस्य सेवते।
स दोषो विचरंस्तत्र करोति स्वान् गदान् बहून्॥१०९॥
यथास्वं विहितां तेषु क्रियां कुर्याद्विचक्षण: ।
अकालकृतजातानां रोगाणामनुरूपत: ॥११०॥
अजीर्णे भोजने भुक्ते तोये पीतेऽथ दुर्दिने।
प्रतिश्याये नवे स्नाते स्नेहपानेऽनुवासने॥१११॥
नावनं स्नेहनं रोगान् करोति श्लैष्मिकान् बहून्।
तत्र श्लेष्महर: सर्वस्तीक्ष्णोष्णादिर्विधिर्हित: ॥११२॥
क्षामे विरेचिते गर्भे व्यायामाभिहते तृषि।
वातो रूक्षेण नस्येन क्रुद्ध: स्वाज्जनयेद्गदान्॥११३॥
तत्र वातहर: सर्वो विधि: स्नेहनबृंहण: ।
स्वेदादि:, स्याद्घृतंक्षीरं गर्भिण्यास्तु विशेषत: ॥११४॥
ज्वरशोकातितप्तानां तिमिरं मद्यपस्य तु।
रूक्षै: शीताञ्जनैर्लेपै: पुटपाकैश्च साधयेत्॥११५॥
स्नेहनं शोधनं चैव द्विविधं नावनं मतम्।
प्रतिमर्शस्तु नस्यार्थं करोति न च दोषवान्॥११६॥
नस्त: स्नेहाङ्गुलिं दद्यात् प्रातर्निशि च सर्वदा।
न चोच्छिङ्घेदरोगाणां प्रतिमर्श: स दाढर्यकृत्॥११७॥
तत्र श्लोकौ–
त्रीणि यस्मात् प्रधानानि मर्माण्यभिहतेषु च।
तेषु लिङ्गं चिकित्सां च रोगभेदाश्च सौषधा: ॥११८॥
विधिरुत्तरबस्तेश्च नस्त:कर्मविधिस्तथा।
सव्यापद्भेषजं सिद्धौ मर्माख्यायां प्रकीर्तितम्॥११९॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने त्रिमर्मीयसिद्धिर्नाम नवमोऽध्याय: ॥९
Last updated on July 6th, 2021 at 10:10 am