चरकसंहिता
कल्पस्थानम् ।
षष्ठोऽध्याय: ।
अथात: कृतवेधनकल्पं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
कृतवेधननामानि कल्पं चास्य निबोधत ।
क्ष्वेड: कोशातकी चोक्तं मृदङ्गफलमेव च ॥३॥
अत्यर्थकटुतीक्ष्णोष्णं गाढेष्विष्टं गदेषु च ।
कुष्ठपाण्ड्वामयप्लीहशोफगुल्मगरादिषु ॥४॥
क्षीरादि कुसुमादीनां सुरा चैतेषु पूर्ववत् ।
सुशुष्काणां तु जीर्णानामेकं द्वे वा यथाबलम् ॥५॥
कषायैर्मधुकादीनां नवभि: फलवत् पिबेत् ।
क्वाथयित्वा फलं तस्य पूत्वा लेहं निधापयेत् ॥६॥
कृतवेधनकल्कांशं फलाद्यर्धांशसंयुतम् ।
पृथक् चारग्वधादीनां त्रयोदशभिरासुतम् ॥७॥
शाल्मलीमूलचूर्णानां पिच्छाभिर्दशभिस्तथा ।
वर्तिक्रिया: षट् फलवत्, फलादीनां घृतं तथा ॥८॥
कोशातकानि पञ्चाशत् कोविदाररसे पचेत् ।
तं कषायं फलादीनां कल्कैर्लेहं पुन: पचेत् ॥९॥
क्ष्वेडस्य तत्र भाग: स्याच्छेषाण्यर्धांशिकानि तु ।
कषायै: कोविदाराद्यैरेवं तत् कल्पयेत् पृथक् ॥१०॥
कषायेषु फलादीनामानूपं पिशितं पृथक् ।
कोशातक्या समं पक्त्वा रसं सलवणं पिबेत् ॥११॥
फलादिपिप्पलीतुल्यं तद्वत् क्ष्वेडरसं पिबेत् ।
क्ष्वेडं कासी पिबेत् सिद्धं मिश्रमिक्षुरसेन च ॥१२॥
तत्र श्लोकौ–
क्षीरे द्वौ द्वौ सुरा चैका क्वाथा द्वाविंशतिस्तथा ।
दश पिच्छा घृतं चैकं षट् च वर्तिक्रिया: शुभा: ॥१३॥
लेहेऽष्टौ सप्त मांसे च योग इक्षुरसेऽपर: ।
कृतवेधनकल्पेऽस्मिन् षष्टिर्योगा: प्रकीर्तिता: ॥१४॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते
कल्पस्थाने कृतवेधनकल्पो
नाम षष्ठोऽध्याय: ॥६॥
Last updated on July 2nd, 2021 at 09:16 am