चरकसंहिता
इन्द्रियस्थानम् ।
अष्टमोऽध्याय: ।
अथातोऽवाक्शिरसीयमिन्द्रियं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
अवाक्शिरा वा जिह्मा वा यस्य वा विशिरा भवेत् ।
जन्तो रूपप्रतिच्छाया नैनमिच्छेच्चिकित्सितुम् ॥३॥
जटीभूतानि पक्ष्माणि दृष्टिश्चापि निगृह्यते ।
यस्य जन्तोर्न तं धीरो भेषजेनोपपादयेत् ॥४॥
यस्य शूनानि वर्त्मानि न समायान्ति शुष्यत: ।
चक्षुषी चोपदिह्येते यथा प्रेतस्तथैव स: ॥५॥
भ्रुवोर्वा यदि वा मूर्ध्नि सीमन्तावर्तकान् बहून् ।
अपूर्वानकृतान् व्यक्तान् दृष्ट्वा मरणमादिशेत् ॥६॥
त्र्यहमेतेन जीवन्ति लक्षणेनातुरा नरा: ।
अरोगाणां पुनस्त्वेतत् षड्रात्रं परमुच्यते ॥७॥
आयम्योत्पाटितान् केशान् यो नरो नावबुध्यते ।
अनातुरो वा रोगी वा षड्रात्रं नातिवर्तते ॥८॥
यस्य केशा निरभ्यङ्गा दृश्यन्तेऽभ्यक्तसन्निभा: ।
उपरुद्धायुषं ज्ञात्वा तं धीर: परिवर्जयेत् ॥९॥
ग्लायते नासिकावंश: पृथुत्वं यस्य गच्छति ।
अशून: शूनसंकाश: प्रत्याख्येय: स जानता ॥१०॥
अत्यर्थविवृता यस्य यस्य चात्यर्थसंवृता ।
जिह्मा वा परिशुष्का वा नासिका न स जीवति ॥११॥
मुखं शब्दश्रवावोष्ठौ शुक्लश्यावातिलोहितौ ।
विकृत्या यस्य वा नीलौ न स रोगाद्विमुच्यते ॥१२॥
अस्थिश्वेता द्विजा यस्य पुष्पिता: पङ्कसंवृता: ।
विकृत्या न स रोगं तं विहायारोग्यमश्नुते ॥१३॥
स्तब्धा निश्चेतना गुर्वी कण्टकोपचिता भृशम् ।
श्यावा शुष्काऽथवा शूना प्रेतजिह्वा विसर्पिणी ॥१४॥
दीर्घमुच्छ्वस्य यो ह्रस्वं नरो नि:श्वस्य ताम्यति ।
उपरुद्धायुषं ज्ञात्वा तं धीर: परिवर्जयेत् ॥१५॥
हस्तौ पादौ च मन्ये च तालु चैवातिशीतलम् ।
भवत्यायु: क्षये क्रूरमथवाऽपि भवेन्मृदु ॥१६॥
घट्टयञ्जानुना जानु पादावुद्यम्य पातयन् ।
योऽपास्यति मुहुर्वक्त्रमातुरो न स जीवति ॥१७॥
दन्तैश्छिन्दन्नखाग्राणि नखैच्छिन्दञ्छिरोरुहान् ।
काष्ठेन भूमिं विलिखन्न रोगात् परिमुच्यते ॥१८॥
दन्तान् खादति यो जाग्रदसाम्ना विरुदन् हसन् ।
विजानाति न चेद्दु:खं न स रोगाद्विमुच्यते ॥१९॥
मुहुर्हसन् मुहु: क्ष्वेडञ् शय्यां पादेन हन्ति य: ।
उच्चैश्छिद्राणि विमृशन्नातुरो न स जीवति ॥२०॥
यैर्विन्दति पुरा भावै: समेतै: परमां रतिम् ।
तैरेवारममाणस्य ग्लास्नोर्मरणमादिशेत् ॥२१॥
न बिभर्ति शिरो ग्रीवा न पृष्ठं भारमात्मन: ।
न हनू पिण्डमास्यस्थमातुरस्य मुमूर्षत: ॥२२॥
सहसा ज्वरसंतापस्तृष्णा मूर्च्छा बलक्षय: ।
विश्लेषणं च सन्धीनां मुमूर्षोरुपजायते ॥२३॥
गोसर्गे वदनाद्यस्य स्वेद: प्रच्यवते भृशम् ।
लेपज्वरोपतप्तस्य दुर्लभं तस्य जीवितिम् ॥२४॥
नोपैति कण्ठमाहारो जिह्वा कण्ठमुपैति च ।
आयुष्यन्तं गते जन्तोर्बलं च परिहीयते ॥२५॥
शिरो विक्षिपते कृच्छ्रान्मुञ्चयित्वा प्रपाणिकौ ।
ललाटप्रस्रुतस्वेदो मुमूर्षुश्च्युतबन्धन: ॥२६॥
तत्र श्लोक:–
इमानि लिङ्गानि नरेषु बुद्धिमान्
विभावयेतावहितो मुमूर्षुषु ।
क्षणेन भूत्वा ह्युपयान्ति कानिचिन्न चाफलं लिङ्गमिहास्ति किञ्चन ॥२७॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थानेऽवाक्शिरसीयमिन्द्रियं
नामाष्टमोऽध्याय: ॥८॥
Last updated on June 11th, 2021 at 11:08 am