विषय सूची पर जायें

01. अन्नपानरक्षाकल्पः – कल्प – सु.”

सुश्रुतसंहिता ।

अथ कल्पस्थानम्‌ ।

प्रथमोऽध्यायः ।

अथातोऽन्नपानरक्षाकल्पं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

धन्वन्तरिः काशिपतिस्तपोधर्मभृतां वरः |

सुश्रुतप्रभृतीञ्छिष्याञ्छशासाहतशासनः ||३||

रिपवो विक्रमाक्रान्ता ये च स्वे कृत्यतां गताः |

सिसृक्षवः क्रोधविषं विवरं प्राप्य तादृशम् ||४||

विषैर्निहन्युर्निपुणं नृपतिं दुष्टचेतसः |

स्त्रियो वा विविधान् योगान् कदाचित्सुभगेच्छया ||५||

विषकन्योपयोगाद्वा क्षणाज्जह्यादसून्नरः |

तस्माद्वैद्येन सततं विषाद्रक्ष्यो नराधिपः ||६||

यस्माच्च चेतोऽनित्यत्वमश्ववत् प्रथितं नृणाम् |

न विश्वस्यात्ततो राजा कदाचिदपि कस्यचित् ||७||

कुलीनं धार्मिकं स्निग्धं सुभृतं सन्ततोत्थितम् |

अलुब्धमशठं भक्तं कृतज्ञं प्रियदर्शनम् ||८||

क्रोधपारुष्यमात्सर्यमायालस्यविवर्जितम् |

जितेन्द्रियं क्षमावन्तं शुचिं शीलदयान्वितम् ||९||

मेधाविनमसंश्रान्तमनुरक्तं हितैषिणम् |

पटुं प्रगल्भं निपुणं दक्षमालस्यवर्जितम् ||१०||

पूर्वोक्तैश्च गुणैर्युक्तं नित्यं सन्निहितागदम् |

महानसे प्रयुञ्जीत वैद्यं तद्विद्यपूजितम् ||११||

प्रशस्तदिग्देशकृतं शुचिभाण्डं महच्छुचि |

सजालकं गवाक्षाढ्यमाप्तवर्गनिषेवितम् ||१२||

विकक्षसृष्टसंसृष्टं सवितानं कृतार्चनम् |

परीक्षितस्त्रीपुरुषं भवेच्चापि महानसम् ||१३||

तत्राध्यक्षं नियुञ्जीत प्रायो वैद्यगुणान्वितम् |

शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः ||१४||

संविभक्ताः सुमनसो नीचकेशनखाः स्थिराः |

स्नाता दृढं संयमिनः कृतोष्णीषाः सुसंयताः ||१५||

तस्य चाज्ञाविधेयाः स्युर्विविधाः परिकर्मिणः |

आहारस्थितयश्चापि भवन्ति प्राणिनो यतः ||१६||

तस्मान्महानसे वैद्यः प्रमादरहितो भवेत् |

माहानसिकवोढारः सौपौदनिकपौपिकाः ||१७||

भवेयुर्वैद्यवशगा ये चाप्यन्येऽत्र केचन |

इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः ||१८||

विद्याद्विषस्य दातारमेभिर्लिङ्गैश्च बुद्धिमान् |

न ददात्युत्तरं पृष्टो विवक्षन् मोहमेति च ||१९||

अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत् |

स्फोटयत्यङ्गुलीर्भूमिमकस्माद्विलिखेद्धसेत् ||२०||

वेपथुर्जायते तस्य त्रस्तश्चान्योऽन्यमीक्षते |

क्षामो विवर्णवक्त्रश्च नखैः किञ्चिच्छिनत्त्यपि ||२१||

आलभेतासकृद्दीनः करेण च शिरोरुहान् |

निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः ||२२||

वर्तते विपरीतं तु विषदाता विचेतनः |

केचिद्भयात् पार्थिवस्य त्वरिता वा तदाज्ञया ||२३||

असतामपि सन्तोऽपि चेष्टां कुर्वन्ति मानवाः |

तस्मात् परीक्षणं कार्यं भृत्यानामादृतैर्नृपैः ||२४||

अन्ने पाने दन्तकाष्ठे तथाऽभ्यङ्गेऽवलेखने |

उत्सादने कषाये च परिषेकेऽनुलेपने ||२५||

स्रक्षु वस्त्रेषु शय्यासु कवचाभरणेषु च |

पादुकापादपीठेषु पृष्ठेषु गजवाजिनाम् ||२६||

विषजुष्टेषु चान्येषु नस्यधूमाञ्जनादिषु |

लक्षणानि प्रवक्ष्यामि चिकित्सामप्यनन्तरम् ||२७||

नृपभक्ताद्बलिं न्यस्तं सविषं भक्षयन्ति ये |

तत्रैव ते विनश्यन्ति मक्षिकावायसादयः ||२८||

हुतभुक् तेन चान्नेन भृशं चटचटायते |

मयूरकण्ठप्रतिमो जायते चापि दुःसहः ||२९||

भिन्नार्चिस्तीक्ष्णधूमश्च नचिराच्चोपशाम्यति |

चकोरस्याक्षिवैराग्यं जायते क्षिप्रमेव तु ||३०||

दृष्ट्वाऽन्नं विषसंसृष्टं म्रियन्ते जीवजीवकाः |

कोकिलः स्वरवैकृत्यं क्रौञ्चस्तु मदमृच्छति ||३१||

हृष्येन्मयूर उद्विग्नः क्रोशतः शुकसारिके |

हंसः क्ष्वेडति चात्यर्थं भृङ्गराजस्तु कूजति ||३२||

पृषतो विसृजत्यश्रुं विष्ठां मुञ्चति मर्कटः |

सन्निकृष्टांस्ततः कुर्याद्राज्ञस्तान् मृगपक्षिणः ||३३||

वेश्मनोऽथ विभूषार्थं रक्षार्थं चात्मनः सदा |

उपक्षिप्तस्य चान्नस्य बाष्पेणोर्ध्वं प्रसर्पता ||३४||

हृत्पीडा भ्रान्तनेत्रत्वं शिरोदुःखं च जायते |

तत्र नस्याञ्जने कुष्ठं लामज्जं नलदं मधु ||३५||

कुर्याच्छिरीषरजनीचन्दनैश्च प्रलेपनम् |

हृदि चन्दनलेपस्तु तथा सुखमवाप्नुयात् ||३६||

पाणिप्राप्तं पाणिदाहं नखशातं करोति च |

अत्र प्रलेपः श्यामेन्द्रगोपासोमोत्पलानि च ||३७||

स चेत् प्रमादान्मोहाद्वा तदन्नमुपसेवते |

अष्ठीलावत्ततो जिह्वा भवत्यरसवेदिनी ||३८||

तुद्यते दह्यते चापि श्लेष्मा चास्यात् प्रसिच्यते |

तत्र बाष्पेरितं कर्म यच्च स्याद्दान्तकाष्ठिकम् ||३९||

मूर्च्छां छर्दिमतीसारमाध्मानं दाहवेपथू |

इन्द्रियाणां च वैकृत्यं कुर्यादामाशयं गतम् ||४०||

तत्राशु मदनालाबुबिम्बीकोशातकीफलैः |

छर्दनं दध्युदश्विद्भ्यामथवा तण्डुलाम्बुना ||४१||

दाहं मूर्च्छामतीसारं तृष्णामिन्द्रियवैकृतम् |

आटोपं पाण्डुतां कार्श्यं कुर्यात् पक्वाशयं गतम् ||४२||

विरेचनं ससर्पिष्कं तत्रोक्तं नीलिनीफलम् |

दध्ना दूषीविषारिश्च पेयो वा मधुसंयुतः ||४३||

द्रवद्रव्येषु सर्वेषु क्षीरमद्योदकादिषु |

भवन्ति विविधा राज्यः फेनबुद्बुदजन्म च ||४४||

छायाश्चात्र न दृश्यन्ते दृश्यन्ते यदि वा पुनः |

भवन्ति यमलाश्छिद्रास्तन्व्यो वा विकृतास्तथा ||४५||

शाकसूपान्नमांसानि क्लिन्नानि विरसानि च |

सद्यः पर्युषितानीव विगन्धानि भवन्ति च ||४६||

गन्धवर्णरसैर्हीनाः सर्वे भक्ष्याः फलानि च |

पक्वान्याशु विशीर्यन्ते पाकमामानि यान्ति च ||४७||

विशीर्यते कूर्चकस्तु दन्तकाष्ठगते विषे |

जिह्वादन्तौष्ठमांसानां श्वयथुश्चोपजायते ||४८||

अथास्य धातकीपुष्पपथ्याजम्बूफलास्थिभिः |

सक्षौद्रैः प्रच्छिते शोफे कर्तव्यं प्रतिसारणम् ||४९||

अथवाऽङ्कोठमूलानि त्वचः सप्तच्छदस्य वा |

शिरीषमाषका वाऽपि सक्षौद्राः प्रतिसारणम् ||५०||

जिह्वानिर्लेखकवलौ दन्तकाष्ठवदादिशेत् |

पिच्छिलो बहुलोऽभ्यङ्गो विवर्णो वा विषान्वितः ||५१||

स्फोटजन्मरुजास्रावत्वक्पाकः स्वेदनं ज्वरः |

दरणं चापि मांसानामभ्यङ्गे विषसंयुते ||५२||

तत्र शीताम्बुसिक्तस्य कर्तव्यमनुलेपनम् |

चन्दनं तगरं कुष्ठमुशीरं वेणुपत्रिका ||५३||

सोमवल्ल्यमृता श्वेता पद्मं कालीयकं त्वचम् |

कपित्थरसमूत्राभ्यां पानमेतच्च युज्यते ||५४||

उत्सादने परीषेके कषाये चानुलेपने |

शय्यावस्त्रतनुत्रेषु ज्ञेयमभ्यङ्गलक्षणैः ||५५||

केशशातः शिरोदुःखं खेभ्यश्च रुधिरागमः |

ग्रन्थिजन्मोत्तमाङ्गेषु विषजुष्टेऽवलेखने ||५६||

प्रलेपो बहुशस्तत्र भाविताः कृष्णमृत्तिकाः |

ऋष्यपित्तघृतश्यामापालिन्दीतण्डुलीयकैः ||५७||

गोमयस्वरसो वाऽपि हितो वा मालतीरसः |

रसो मूषिकपर्ण्या वा धूमो वाऽगारसम्भवः ||५८||

शिरोऽभ्यङ्गः शिरस्त्राणं स्नानमुष्णीषमेव च |

स्रजश्च विषसंसृष्टाः साधयेदवलेखनात् ||५९||

मुखालेपे मुखं श्यावं युक्तमभ्यङ्गलक्षणैः |

पद्मिनीकण्टकप्रख्यैः कण्टकैश्चोपचीयते ||६०||

तत्र क्षौद्रघृतं पानं प्रलेपश्चन्दनं घृतम् |

पयस्या मधुकं फञ्जी बन्धुजीवः पुनर्नवा ||६१||

अस्वास्थ्यं कुञ्जरादीनां लालास्रावोऽक्षिरक्तता |

स्फिक्पायुमेढ्रमुष्केषु यातुश्च स्फोटसम्भवः ||६२||

तत्राभ्यङ्गवदेवेष्टा यातृवाहनयोः क्रिया |

शोणितागमनं खेभ्यः शिरोरुक्कफसंस्रवः ||६३||

नस्यधूमगते लिङ्गमिन्द्रियाणां च वैकृतम् |

तत्र दुग्धैर्गवादीनां सर्पिः सातिविषैः शृतम् ||६४||

पाने नस्ये च सश्वेतं हितं समदयन्तिकम् |

गन्धहानिर्विवर्णत्वं पुष्पाणां म्लानता भवेत् ||६५||

जिघ्रतश्च शिरोदुःखं वारिपूर्णे च लोचने |

तत्र बाष्पेरितं कर्म मुखालेपे च यत् स्मृतम् ||६६||

कर्णतैलगते श्रोत्रवैगुण्यं शोफवेदने |

कर्णस्रावश्च तत्राशु कर्तव्यं प्रतिपूरणम् ||६७||

स्वरसो बहुपुत्रायाः सघृतः क्षौद्रसंयुतः |

सोमवल्करसश्चापि सुशीतो हित इष्यते ||६८||

अश्रूपदेहो दाहश्च वेदना दृष्टिविभ्रमः |

अञ्जने विषसंसृष्टे भवेदान्ध्यमथापि च ||६९||

तत्र सद्यो घृतं पेयं तर्पणं च समागधम् |

अञ्जनं मेषशृङ्गस्य निर्यासो वरुणस्य च ||७०||

मुष्ककस्याजकर्णस्य फेनो गोपित्तसंयुतः |

कपित्थमेषशृङ्ग्योश्च पुष्पं भल्लातकस्य वा ||७१||

एकैकं कारयेत् पुष्पं बन्धूकाङ्कोटयोरपि |

शोफः स्रावस्तथा स्वापः पादयोः स्फोटजन्म च ||७२||

भवन्ति विषजुष्टाभ्यां पादुकाभ्यामसंशयम् |

उपानत्पादपीठानि पादुकावत् प्रसाधयेत् ||७३||

भूषणानि हतार्चींषि न विभान्ति यथा पुरा |

स्वानि स्थानानि हन्युश्च दाहपाकावदारणैः ||७४||

पादुकाभूषणेषूक्तमभ्यङ्गविधिमाचरेत् |

विषोपसर्गो बाष्पादिर्भूषणान्तो य ईरितः ||७५||

समीक्ष्योपद्रवांस्तस्य विदधीत चिकित्सितम् |

महासुगन्धिमगदं यं प्रवक्ष्यामि तं भिषक् ||७६||

पानालेपननस्येषु विदधीताञ्जनेषु च |

विरेचनानि तीक्ष्णानि कुर्यात् प्रच्छर्दनानि च ||७७||

सिराश्च व्यधयेत् क्षिप्रं प्राप्तं विस्रावणं यदि |

मूषिकाऽजरुहा वाऽपि हस्ते बद्धा तु भूपतेः ||७८||

करोति निर्विषं सर्वमन्नं विषसमायुतम् |

हृदयावरणं नित्यं कुर्याच्च मित्रमध्यगः ||७९||

पिबेद्धृतमजेयाख्यममृताख्यं च बुद्धिमान् |

सर्पिर्दधि पयः क्षौद्रं पिबेद्वा शीतलं जलम् ||८०||

मयूरान्नकुलान् गोधाः पृषतान् हरिणानपि |

सततं भक्षयेच्चपि रसांस्तेषां पिबेदपि ||८१||

गोधानकुलमांसेषु हरिणस्य च बुद्धिमान् |

दद्यात् सुपिष्टां पालिन्दीं मधुकं शर्करां तथा ||८२||

शर्करातिविषे देये मायूरे समहौषधे |

पार्षते चापि देयाः स्युः पिप्पल्यः समहौषधाः ||८३||

सक्षौद्रः सघृतश्चैव शिम्बीयूषो हितः सदा |

विषघ्नानि च सेवेत भक्ष्यभोज्यानि बुद्धिमान् ||८४||

पिप्पलीमधुकक्षौद्रशर्करेक्षुरसाम्बुभिः |

छर्दयेद्गुप्तहृदयो भक्षितं यदि वै विषम् ||८५||

इति सुश्रुतसंहितायां कल्पस्थानेऽन्नपानरक्षाकल्पो नाम प्रथमोऽध्यायः ||१||

Last updated on July 8th, 2021 at 10:49 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi