विषय सूची पर जायें

26. प्रनष्टशल्य विज्ञानीय - सूत्र - सु.

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

षड्‌विंशतितमोऽध्याय: ।

 अथातः प्रनष्टशल्यविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||      

‘शल ‘श्वल’आशुगमने धातूः; तयोराद्यस्य शल्यमिति रूपम् ||३||

तद्द्विविधं शारीरमागन्तुकं च ||४||      

सर्वशरीराबाधकरं शल्यं, तदिहोपदिश्यत इत्यत: शल्यशास्त्रम्‌ ॥५॥

 तत्र शारीरं दन्तरोमनखादि धातवोऽन्नमला दोषाश्च दुष्टा:, आगन्त्वपि शारीरशल्यव्यतिरेकेण यावन्तो भावा दु:खमुत्पादयन्ति ॥६॥

 अधिकारो हि लोहवेणुवृक्षतृणशृङ्गास्थिमयेषु; तत्रापि विशेषतो लोहेष्वेव, विशसनार्थोपपन्नत्वाल्लोहस्य; लोहानामपि दुर्वारत्वादणुमुखत्वाद्दूरप्रयोजनकरत्वाच्च शर एवाधिकृतः |

स च द्विविधः कर्णी, श्लक्ष्णश्च; प्रायेण विविधवृक्षपत्रपुष्पफलतुल्याकृतयो व्याख्याताः, व्यालमृगपक्षिवक्रसदृशाश्च ||७||

सर्वशल्यानां तु महतामणूनां वा पञ्चविधो गतिविशेष ऊर्ध्वमधोऽर्वाचीनस्तिर्यगृजुरिति ॥८॥

तानि वेगक्षयात् प्रतिघाताद्वा त्वगादिषु व्रणवस्तुष्वतिष्ठन्ते, धमनीस्रोतोऽस्थिविवरपेशीप्रभृतिषु वा शरीरप्रदेशेषु ||९||

 तत्र शल्यलक्षणमुच्यमानमुपधारय |

तद्द्विधं सामान्यं वैशेषिकं च |

श्यावं पिडकाचितं शोफवेदनावन्तं मुहुर्मुहुः शोणितास्राविणं बुद्बुदवदुन्नतं मृदुमांसं च व्रणं जानीयात् सशल्योऽयमिति; सामान्यमेतल्लक्षणमुक्तम् |

वैशेषिकं तु- त्वग्गते विवर्णः शोफो भवत्यायतः कठिनश्च; मांसगते शोफाभि(ति)वृद्धिः शल्यमार्गानुपसंरोहः पीडनासहिष्णुता चोषपाकौ च; पेश्यन्तरस्थेऽप्येतदेव चोषशोफवर्जं; सिरागते सिराध्मानं सिराशूलं सिराशोफश्च; स्नायुगते स्नायुजालोत्क्षेपणं संरम्भश्चोग्रा रुक् च; स्रोतोगते स्रोतसां स्वकर्मगुणहानिः; धमनीस्थे सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छत्यङ्गमर्दः पिपासा हृल्लासश्च; अस्थिगते विविधवेदनाप्रादुर्भावः शोफश्च; अस्थिविवरगतेऽस्थिपूर्णताऽस्थितोदः संहर्षो बलवांश्च; सन्धिगतेऽस्थिवच्चेष्टोपरमश्च; कोष्ठगत आटोपानाहौ मूत्रपुरीषाहारदर्शनं च व्रणमुखात्; मर्मगते मर्मविद्धवच्चेष्टते |

सूक्ष्मगतिषु शल्येष्वेतान्येव लक्षणान्यस्पष्टानि भवन्ति ||१०||

महान्त्यल्पानि वा शुद्धदेहानामनुलोमसन्निविष्टानि रोहन्ति विशेषतः कण्ठस्रोतःसिरात्वक्पेश्यस्थिविवरेषः |

दोषप्रकोपव्यायामाभिघाताजीर्णेभ्यः [१] प्रचलितानि पुनर्बाधन्ते ||११||

       तत्र, त्वक्प्रनष्टे स्निग्धस्विन्नायां मृन्माषयवगोधूमगोमयमृदितायां त्वचि यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात्, स्त्यानघृतमृच्चन्दनकल्कैर्वा प्रदिग्धायां शल्योष्मणाऽऽशु विसरति घृतमुपशुष्यति चालेपो यत्र तत्र शल्यं विजानीयात्; मांसप्रनष्टे स्नेहस्वेदादिभिः क्रियाविशेषैरविरुद्धैरातुरमुपपादयेत्, कर्शितस्य तु शिथिलीभूतमनवबद्धं क्षुभ्यमाणं यत्र संरम्भं वेदनां वा जनयति तत्र शल्यं विजानीयात्; कोष्ठास्थिसन्धिपेशीविवरेष्ववस्थितमेवमेव परीक्षेत; सिराधमनीस्रोतःस्नायुप्रनष्टे खण्डचक्रसंयुक्ते याने व्याधितमारोप्याशु विषमेऽध्वनि यायात् यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात्; अस्थिप्रनष्टे स्नेहस्वेदोपपन्नान्यस्थीनि बन्धनपीडनाभ्यां भृशमुपाचरेत्, यत्र संरम्भो वेदना भवति तत्र शल्यं विजानीयात्; सन्धिप्रनष्टे स्नेहस्वेदोपपन्नान् सन्धीन् प्रसरणाकुञ्चनबन्धनपीडनैः भृशमुपाचरेत्, यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात्, सन्धिप्रनष्टे स्नेहस्वेदोपपन्नान् सन्धीन् प्रसरणाकुञ्चनबन्धनपीडनैर्भृशमुपाचरेत्; यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात्, मर्मप्रनष्टे त्वनन्यभावान्मर्मणामुक्तं परीक्षणं भवति ||१२||

सामान्यलक्षमपि च हस्तिस्कन्धाश्वपृष्ठपर्वतद्रुमारोहणधनुर्व्यायामद्रुतयाननियुद्धाध्वगमनलङ्घनप्लवनप्रतरण-

व्यायामैर्जृम्भोद्गारकासक्षवथुष्ठीवनहसनप्राणायामैर्वातमूत्रपुरीषशुक्रोत्सर्गैर्वा यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् ||१३||

भवन्ति चात्र-

यस्मिंस्तोदादयो देशे सुप्तता गुरुताऽपि च |

घट्टते [१] बहुशो यत्र शूयते रुज्यतेऽपि च ||१४||

आतुरश्चापि यं देशमभीक्ष्णं परिरक्षति |

संवाह्यमानो बहुशस्तत्र शल्यं विनिर्दिशेत् ||१५||

अल्पाबाधमशूनं च नीरुजं निरुपद्रवम् |

प्रसन्नं मृदुपर्यन्तं निराघट्टमनुन्नतम् ||१६||

एषण्या सर्वतो दृष्ट्वा यथामार्गं चिकित्सकः |

प्रसाराकुञ्चनान्नूनं निःशल्यमिति निर्दिशेत् ||१७||

अस्थ्यात्मकं भज्यते तु शल्यमन्तश्च शीर्यते |

प्रायो निर्भुज्यते शार्ङ्गमायसं चेति निश्चयः ||१८||

वार्क्षवैणवतार्णानि निर्ह्रियन्ते तु नो यदि |

पचन्ति रक्तं मांसं च क्षिप्रमेतानि देहिनाम् ||१९||

कानकं राजतं ताम्रं रैतिकं त्रपु सीसकम् |

चिरस्थानाद्विलीयन्ते पित्ततेजःप्रतापनात्  ||२०||

 स्वभावशीता मृदवो ये चान्येऽपीदृशा मताः |

द्रवीभूताः शरीरेऽस्मिन्नेकत्वं यान्ति धातुभिः ||२१||

विषाणदन्तकेशास्थिवेणुदारुपलानि तु |

शल्यानि न विशीर्यन्ते शरीरे मृन्मयानि च ||२२||

द्विविधं पञ्चगतिमत्त्वगादिव्रणवस्तुषु |

यो वेत्ति विष्टितं शल्यं स राज्ञः कर्तुमर्हति ||२३||

इति सुश्रुतसंहितायां सूत्रस्थाने प्रनष्टशल्यविज्ञानीयो नाम षड्विंशतितमोऽध्यायः ||२६||

Last updated on May 24th, 2021 at 07:14 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi