सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
पञ्चदशोऽध्यायः ।
अथातश्छेद्यरोगप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
स्निग्धं भुक्तवतो ह्यन्नमुपविष्टस्य यत्नतः |
संरोषयेत्तु नयनं भिषक् चूर्णैस्तु लावणैः ||३||
ततः संरोषितं तूर्णं सुस्विन्नं परिघट्टितम् |
अर्म यत्र वलीजातं तत्रैतल्लगयेद्भिषक् ||४||
अपाङ्गं प्रेक्षमाणस्य बडिशेन समाहितः |
मुचुण्ड्याऽऽदाय मेधावी सूचीसूत्रेण वा पुनः ||५||
न चोत्थापयता क्षिप्रं कार्यमभ्युन्नतं तु तत् |
शस्त्राबाधभयाच्चास्य वर्त्मनी ग्राहयेद्दृढम् ||६||
ततः प्रशिथिलीभूतं त्रिभिरेव विलम्बितम् |
उल्लिखन्मण्डलाग्रेण तीक्ष्णेन परिशोधयेत् ||७||
विमुक्तं सर्वतश्चापि कृष्णाच्छुक्लाच्च मण्डलात् |
नीत्वा कनीनकोपान्तं छिन्द्यान्नातिकनीनकम् ||८||
चतुर्भागस्थिते मांसे नाक्षि व्यापत्तिमृच्छति |
कनीनकवधादस्रं नाडी वाऽप्युपजायते ||९||
हीनच्छेदात् पुनर्वृद्धिं शीघ्रमेवाधिगच्छति |
अर्म यज्जालवद्व्यापि तदप्युन्मार्ज्य लम्बितम् ||१०||
छिन्द्याद्वक्रेण शस्त्रेण वर्त्मशुक्लान्तमाश्रितम् |
प्रतिसारणमक्ष्णोस्तु ततः कार्यमनन्तरम् ||११||
यावनालस्य चूर्णेन त्रिकटोर्लवणस्य च |
स्वेदयित्वा ततः पश्चाद्बध्नीयात् कुशलो भिषक् ||१२||
दोषर्तुबलकालज्ञः स्नेहं दत्त्वा यथाहितम् |
व्रणवत् संविधानं तु तस्य कुर्यादतः परम् ||१३||
त्र्यहान्मुक्त्वा करस्वेदं दत्त्वा शोधनमाचरेत् |
करञ्जबीजामलकमधुकैः साधितं पयः ||१४||
हितमाश्च्योतनं शूले द्विरह्नः क्षौद्रसंयुतम् |
मधुकोत्पलकिञ्जल्कदूर्वाकल्कैश्च मूर्धनि ||१५||
प्रलेपः सघृतः शीतः क्षीरपिष्टः प्रशस्यते |
लेख्याञ्जनैरपहरेदर्मशेषं भवेद्यदि ||१६||
अर्म चाल्पं दधिनिभं नीलं रक्तमथापि वा |
धूसरं तनु यच्चापि शुक्रवत्तदुपाचरेत् ||१७||
चर्माभं बहलं यत्तु स्नायुमांसघनावृतम् |
छेद्यमेव तदर्म स्यात् कृष्णमण्डलगं च यत् ||१८||
विशुद्धवर्णमक्लिष्टं क्रियास्वक्षि गतक्लमम् |
छिन्नेऽर्मणि भवेत् सम्यग्यथास्वमनुपद्रवम् ||१९||
सिराजाले सिरा यास्तु कठिनास्ताश्च बुद्धिमान् |
उल्लिखेन्मण्डलाग्रेण बडिशेनावलम्बिताः ||२०||
सिरासु पिडका जाता या न सिध्यन्ति भेषजैः |
अर्मवन्मण्डलाग्रेण तासां छेदनमिष्यते ||२१||
रोगयोश्चैतयोः कार्यमर्मोक्तं प्रतिसारणम् |
विधिश्चापि यथादोषं लेखनद्रव्यसम्भृतः ||२२||
सन्धौ संस्वेद्य शस्त्रेण पर्वणीकां विचक्षणः |
उत्तरे च त्रिभागे च बडिशेनावलम्बिताम् ||२३||
छिन्द्यात्ततोऽर्धमग्रे, स्यादश्रुनाडी ह्यतोऽन्यथा |
प्रतिसारणमत्रापि सैन्धवक्षौद्रमिष्यते ||२४||
लेखनीयानि चूर्णानि व्याधिशेषस्य भेषजम् |
शङ्खं समुद्रफेनं च मण्डूकीं च समुद्रजाम् ||२५||
स्फटिकं कुरुविन्दं च प्रवालाश्मन्तकं तथा |
वैदूर्यं पुलकं मुक्तामयस्ताम्ररजांसि च ||२६||
समभागानि सम्पिष्य सार्धं स्रोतोञ्जनेन तु |
चूर्णाञ्जनं कारयित्वा भाजने मेषशृङ्गजे ||२७||
संस्थाप्योभयतः कालमञ्जयेत् सततं बुधः |
अर्माणि पिडकां हन्यात् सिराजालानि तेन वै ||२८||
अर्शस्तथा यच्च नाम्ना शुष्कार्शोऽर्बुदमेव च |
अभ्यन्तरं वर्त्मशया विधानं तेषु वक्ष्यते ||२९||
वर्त्मोपस्वेद्य निर्भुज्य सूच्योत्क्षिप्य प्रयत्नतः |
मण्डलाग्रेण तीक्ष्णेन मूले भिन्द्याद्भिषग्वरः ||३०||
ततः सैन्धवकासीसकृष्णाभिः प्रतिसारयेत् |
स्थिते च रुधिरे वर्त्म दहेत् सम्यक् शलाकया ||३१||
क्षारेणावलिखेच्चापि व्याधिशेषो भवेद्यदि |
तीक्ष्णैरुभयतोभागैस्ततो दोषमधिक्षिपेत् ||३२||
वितरेच्च यथादोषमभिष्यन्दक्रियाविधिम् |
शस्त्रकर्मण्युपरते मासं च स्यात् सुयन्त्रितः ||३३||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे छेद्यरोगप्रतिषेधो नाम पञ्चदशोऽध्यायः ||१५||
Last updated on July 8th, 2021 at 11:43 am