विषय सूची पर जायें

03. अश्मरीनिदानम् - निदान - सु.

सुश्रुतसंहिता ।

अथ निदानस्थानम्‌ ।

तृतीयोऽध्यायः

अथातोऽश्मरीणां निदानं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

चतस्रोऽश्मर्यो भवन्ति; श्लेष्माधिष्ठानाः; तद्यथा- श्लेष्मणा, वातेन, पित्तेन, शुक्रेण चेति ||३||

तत्रासंशोधनशीलस्यापथ्यकारिणः प्रकुपितः श्लेष्मा मूत्रसम्पृक्तोऽनुप्रविश्य बस्तिमश्मरीं जनयति ||४||

तासां पूर्वरूपाणि- ज्वरो बस्तिपीडारोचकौ मूत्रकृच्छ्रं बस्तिशिरोमुष्कशेफसां वेदना कृच्छ्रावसादो बस्तगन्धित्वं मूत्रस्येति ||५||

यथास्ववेदनावर्णं दुष्टं सान्द्रमथाविलम् |

पूर्वरूपेऽश्मनः कृच्छ्रान्मूत्रं सृजति मानवः ||६||

अथ जातासु नाभिबस्तिसेवनीमेहनेष्वन्यतमस्मिन् मेहतो वेदना मूत्रधारासङ्गः सरुधिरमूत्रता मूत्रविकिरणं गोमेदकप्रकाशमत्याविलं ससिकतं विसृजति; धावनलङ्घनप्लवनपृष्ठयानोष्णाध्वगमनैश्चास्य वेदना भवन्ति ||७||

तत्र श्लेष्माश्मरी श्लेष्मलमन्नमभ्यवहरतोऽत्यर्थमुपलिप्याधः परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि, तस्य मूत्रप्रतिघाताद्दाल्यते भिद्यते निस्तुद्यत इव च बस्तिर्गुरुः शीतश्च भवति; अश्मरी चात्र श्वेता स्निग्धा महती कुक्कुटाण्डप्रतीकाशा मधूकपुष्पवर्णा वा भवति, तां श्लैष्मिकीमिति विद्यात् ||८||

पित्तयुतस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तां परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि, तस्य मूत्रप्रतीघातादूष्यते चूष्यते दह्यते पच्यत इव बस्तिरुष्णवातश्च भवति; अश्मरी चात्र सरक्ता पीतावभासा कृष्णा भल्लातकास्थिप्रतिमा मधुवर्णा वा भवति, तां पैत्तिकीमिति विद्यात् ||९||

वातयुतस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तां परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि, तस्य मूत्रप्रतीघातात्तीव्रा वेदना भवति, तदाऽत्यर्थं पीड्यमानो दन्तान् खादति, नाभिं पीडयति, मेढ्रं प्रमृद्नाति, पायुं स्पृशति, विशर्धते, विदहति, वातमूत्रपुरीषाणि कृच्छ्रेण चास्य मेहतो निःसरन्ति; अश्मरी चात्र श्यावा परुषा विषमा खरा कदम्बपुष्पवत्कण्टकाचिता भवति, तां वातिकीमिति विद्यात् ||१०||

प्रायेणैतास्तिस्रोऽश्मर्यो दिवास्वप्नसमशनाध्यशनशीतस्निग्धगुरुमधुराहारप्रियत्वाद्विशेषेण बालानां भवन्ति; तेषामेवाल्पबस्तिकायत्वादनुपचितमांसत्वाच्च बस्तेः सुखग्रहणाहरणा भवन्ति |

महतां तु शुक्राश्मरी शुक्रनिमित्ता भवति ||११||

मैथुनविघातादतिमैथुनाद्वा शुक्रं चलितमनिर्गच्छद्विमार्गगमनादनिलोऽभितः सङ्गृह्य मेढ्रवृषणयोरन्तरे संहरति, संहृत्य चोपशोषयति; सा मूत्रमार्गमावृणोति, मूत्रकृच्छ्रं बस्तिवेदनां वृषणयोश्च श्वयथुमापादयति, पीडितमात्रे च तस्मिन्नेव प्रदेशे प्रविलयमापद्यते; तां शुक्राश्मरीमिति विद्यात् ||१२||

भवन्ति चात्र-

शर्करा सिकता मेहो भस्माख्योऽश्मरिवैकृतम् |

अश्मर्या शर्करा ज्ञेया तुल्यव्यञ्जनवेदना ||१३||

पवनेऽनुगुणे सा तु निरेत्यल्पा विशेषतः |

सा भिन्नमूर्तिर्वातेन शर्करेत्यभिधीयते ||१४||

हृत्पीडा सक्थिसदनं कुक्षिशूलं च वेपथुः |

तृष्णोर्ध्वगोऽनिलः कार्ष्ण्यं दौर्बल्यं पाण्डुगात्रता ||१५||

अरोचकाविपाकौ तु शर्करार्ते भवन्ति च |

मूत्रमार्गप्रवृत्ता सा सक्ता कुर्यादुपद्रवान् ||१६||

दौर्बल्यं सदनं कार्श्यं कुक्षिशूलमरोचकम् |

पाण्डुत्वमुष्णवातं च तृष्णां हृत्पीडनं वमिम् ||१७||

नाभिपृष्ठकटीमुष्कगुदवङ्क्षणशेफसाम् |

एकद्वारस्तनुत्वक्को मध्ये बस्तिरधोमुखः ||१८||

बस्तिर्बस्तिशिरश्चैव पौरुषं वृषणौ गुदः |

एकसम्बन्धिनो ह्येते गुदास्थिविवराश्रिताः ||१९||

अलाब्वा इव रूपेण सिरास्नायुपरिग्रहः |

मूत्राशयो मलाधारः प्राणायतनमुत्तमम् ||२०||

पक्वाशयगतास्तत्र नाड्यो मूत्रवहास्तु याः |

तर्पयन्ति सदा मूत्रं सरितः सागरं यथा ||२१||

सूक्ष्मत्वान्नोपलभ्यन्ते मुखान्यासां सहस्रशः |

नाडीभिरुपनीतस्य मूत्रस्यामाशयान्तरात् ||२२||

जाग्रतः स्वपतश्चैव स निःस्यन्देन पूर्यते |

आमुखात्सलिले न्यस्तः पार्श्वेभ्यः पूर्यते नवः ||२३||

घटो यथा तथा विद्धि बस्तिर्मूत्रेण पूर्यते |

एवमेव प्रवेशेन वातः पित्तं कफोऽपि वा ||२४||

मूत्रयुक्तमुपस्नेहात् प्रविश्य कुरुतेऽश्मरीम् |

अप्सु स्वच्छा(स्था)स्वपि यथा निषिक्तासु नवे घटे ||२५||

कालान्तरेण पङ्कः स्यादश्मरीसम्भवस्तथा |

संहन्त्यापो यथा दिव्या मारुतोऽग्निश्च वैद्युतः ||२६||

तद्वद्बलासं बस्तिस्थमूष्मा संहन्ति सानिलः |

मारुते प्रगुणे बस्तौ मूत्रं सम्यक् प्रवर्तते |

विकारा विविधाश्चापि प्रतिलोमे भवन्ति हि ||२७||

मूत्राघाताः प्रमेहाश्च शुक्रदोषास्तथैव च |

मूत्रदोषाश्च ये केचिद्वस्तावेव भवन्ति हि ||२८||

इति सुश्रुतसंहितायां निदानस्थानेऽश्मरीनिदानां नाम तृतीयोऽध्यायः ||३||

Last updated on May 31st, 2021 at 05:23 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi