विषय सूची पर जायें

18. त्रिशोथीय - सूत्र - च.

अष्टादशोऽध्यायः ।

अथातस्त्रिशोथीयमध्यायं व्यख्यास्यामः ॥१॥

इति ह स्माह भगवानात्रेयः ॥२॥

त्रयः शोथा भवन्ति वातपित्तश्लेष्म निमित्ताः, ते पुनर्द्विविधा निजागन्तुभेदेन ॥३॥

तत्रागन्तवश्छेदनभेदनक्षणनभञ्जनपिच्छनोत्पेषणप्रहारवधबन्धनवेष्टनव्यधनपीडनादिभिर्वा भल्लातकपुष्पफलरसात्मगुप्ताशूकक्रिमि- शूकाहितपत्रलतागुल्मसंस्पशनैर्वा स्वेदनपरिसर्पणावमूत्रणैर्वा विषिणां, सविषप्राणिदंष्ट्रादन्तविषाणनखनिपातैर्वा, सागरविषवात- हिमदहनसंस्पर्शनैर्वा शोथाः समुपजायन्ते ॥४॥

ते पुनर्यथास्वं हेतुव्यञ्जनैरादावुपलभ्यन्ते निजव्यञ्जनैकदेशविपरीतैः; बन्धमन्त्रागदप्रलेपप्रतापनिर्वापणादिभिश्चोपक्रमैरुपक्रम्यमाणाः प्रशान्तिमापद्यन्ते ॥५॥

निजाः पुनः स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानामयथावत्प्रयोगान्मिथ्यासंसर्जनाद्वाछर्द्यलसकविसूचिकाश्वास- कासातिसारशोषपाण्डुरोगोदरज्वरप्रदरभगन्दरार्शोविकारातिकर्शनैर्वा कुष्ठकण्डूपिडकादिभिर्वा छर्दिक्षवथूद्गारशुक्रवातमूत्रपुरीषवेगधारणैर्वा कर्मरोगोपवासाध्वकर्शितस्य वा सहसाऽतिगुर्वम्ललवणपिष्टान्नफलशाकरागदधिहरितक मद्यमन्दकविरूढनवशूकशमीधान्यानूपौदकपिशितोपयोगान्मृत्पङ्कलोष्टभक्षणाल्लवणातिभक्षणाद्गर्भसंपीडनादामगर्भप्रपतनात्‌ प्रजातानां च मिथ्योपचारादुदीर्णदोषत्वाच्च शोफाः प्रादुर्भवन्ति; इत्युक्तः सामान्यो हेतुः ॥६॥

अयं त्वत्र विशेषः- शीतरूक्षलघुविशदश्रमोपवासातिकर्शनक्षपणादिभिर्वायुः प्रकुपितस्त्वङ्‌मांसशोणितादीन्यभिभूय शोफं

जनयति। स क्षिप्रोत्थानप्रशमो भवति, तथा श्यामारुणवर्णः प्रकृतिवर्णो वा, चलः स्पन्दनः खरपरुषभिन्नत्वग्रोमा छिद्यत इव भिद्यत इव पीड्यत इव सूचीभिरिव तुद्यते पिपीलिकाभिरिव संसृप्यते सर्षपकल्कावलिप्त इव चिमिचिमायते संकुच्यत आयम्यत इवेति वातशोथः (१)

उष्णतीक्ष्णकटुकक्षारलवणाम्लाजीर्णभोजनैरग्नन्यातपप्रतापैश्च पित्तं प्रकुपितं त्वङ्‌मांसशोणितान्यभिभूय शोथं जनयति; स क्षिप्रोत्थानप्रशमो भवति, कृष्णपीतनीलताम्रावभास उष्णो मृदुः कपिलताम्ररोमा उष्यते दूयते धूप्यते ऊष्मायते स्विद्यते क्लिद्यते न च स्पर्शमुष्णं च सुषूयत इति पित्तशोथः (२)

गुरुमधुरशीतस्निग्धैरतिस्वप्नाव्यायामदिभिश्च श्लेष्मा प्रकुपितस्त्वङ्‌मांसशोणितादीन्यभिभूय शोथं जनयति; स कृच्छ्रोत्थानप्रशमो भवति, पाण्डुश्वेतावभासो गुरुः स्निग्धः श्लेक्ष्णः स्थिरः स्त्यानः शुक्लाग्ररोमा स्पर्शोष्णसहश्चेति श्लेष्मशोथः (३)

यथास्वकारणाकृतिसंसर्गाद् द्विदोषजास्त्रयः शोथा भवन्ति; यथास्वकारणाकृतिसन्निपातात्‌ सान्निपातिक एकः, एवं सप्तविधो भेदः ॥७॥

प्रकृतिभिस्ताभिर्भिद्यमानो द्विविधस्त्रिविधश्चतुर्विधः सप्तविधोऽष्टविधश्च शोथ उपलभ्यते, पुनश्चैक एवोत्सेधसामान्यात्‌ ॥८॥

भवन्ति चात्र-

शूयन्ते यस्य गात्राणि स्वपन्तीव रुजन्ति च । पिडितान्युन्नमन्त्याशु वातशोथं तमादिशेत्‌ ॥९॥

यश्चाप्यरुणवर्णाभः शोथो नक्तं प्रणश्यति । स्नेहोष्णमर्दनाभ्यां च प्रणश्येत्‌ स च वातिकः ॥१०॥

यः पिपासाज्वरार्तस्य दूयतेऽथ विदह्यते । स्विद्यति क्लिद्यते गन्धी स पैत्तः श्वयथुः स्मृतः ॥११॥

यः पीतनेत्रवक्त्रत्वक्‌ पूर्वं मध्यात्‌ प्रशूयते । तनुत्वक्‌ चातिसारी च पित्तशोथः स उच्यते ॥१२॥

शीतः सक्तगतिर्यस्तु कण्डूमान्‌ पाण्डुरेव च । निपीडितो नोन्नमति श्वयथुः स कफात्मकः ॥१३॥

यस्य शस्त्रकुशच्छिन्नाच्छोणितं न प्रवर्तते । कृच्छ्रेण पिच्छा स्रवति स चापि कफसंभवः ॥१४॥

निदानाकृतिसंसर्गाच्छ्वयथुः स्याद् द्विदोषजः । सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रहेतुजः ॥१५॥

यस्तु पादाभिनिर्वृत्तः शोथः सर्वाङ्गगो भवेत्‌ । जन्तोः स च सुकष्टः स्यात्‌ प्रसृतः स्त्रीमुखाच्च यः ॥१६॥

यश्चापि गुह्यप्रभवः स्त्रिया वा पुरुषस्य वा । स च कष्टतमो ज्ञेयो यस्य च स्युरुपद्रवाः ॥१७॥

छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च । सप्तकोऽयं सदौर्बल्यः शोफोपद्रवसंग्रहः ॥१८॥

यस्य श्लेष्मप्रकुपितो जिह्वामूलेऽवतिष्ठते । आशु संजनयेच्छोथं जायतेऽस्योपजिह्विका ॥१९॥

यस्य श्लेष्मा प्रकुपितः काकले व्यवतिष्ठते । आशु संजनयेच्छोफं करोति गलशुण्डिकाम्‌ ॥२०॥

यस्य श्लेष्मा प्रकुपितो गलबाह्येऽवतिष्ठते । शनैः संजनयेच्छोफं गलगण्डोऽस्य जायते ॥२१॥

यस्य श्लेष्मा प्रकुपितस्तिष्ठत्यन्तर्गले स्थिरः । आशु संजनयेच्छोफं जायतेऽस्य गलग्रहः ॥२२॥

यस्य पित्तं प्रकुपितं सरक्तं त्वचि सर्पति । शोफं सरागं जनयेद्विसर्पस्तस्य जायते ॥२३॥

यस्य पित्तं प्रकुपितं त्वचि रक्तेऽवतिष्ठते । शोथं सरागं जनयेत्‌ पिडका तस्य जायते ॥२४॥

यस्य प्रकुपितं पित्तं शोणितं प्राप्य शुष्यति । तिलका पिप्लवो व्यङ्गा नीलिका तस्य जायते ॥२५॥

यस्य पित्तं प्रकुपितं शङ्खयोरवतिष्ठते । श्वयथुः शङ्खको नाम दारुणस्तस्य जायते ॥२६॥

यस्य पित्तं प्रकुपितं कर्णमूलेऽवतिष्ठते । ज्वरान्ते दुर्जयोऽन्ताय शोथस्तस्योपजायते ॥२७॥

वातः प्लीहानमुद्धूय कुपितो यस्य तिष्ठति । शनैः परितुदन्‌ पार्श्वं प्लीहा तस्याभिवर्धते ॥२८॥

यस्य वायुः प्रकुपितो गुल्मस्थानेऽवतिष्ठते । शोफं सशूलं जनयन्‌ गुल्मस्तस्योपजायते ॥२९॥

यस्य वायुः प्रकुपितः शोफशूलकरश्चरन्‌ । वङ्‌क्षणाद्वृषणौ याति वृद्धिस्तस्योपजायते ॥३०॥

यस्य वातः प्रकुपितस्त्वङ्‌मासान्तरमाश्रितः । शोथं संजनयेत्‌ कुक्षावुदरं तस्य जायते ॥३१॥

यस्य वातः प्रकुपितः कुक्षिमाश्रित्य तिष्ठति । नाधो व्रजति नाप्यूर्ध्वमानाहस्तस्य जायते ॥३२॥

रोगाश्चोत्सेधसामान्यदधिमांसार्बुदादयः । विशिष्टा नामरूपाभ्यां निर्देश्याः शोथसंग्रहे ॥३३॥ 

वातपित्तकफा यस्य युगपत्‌ कुपितास्त्रयः । जिह्वामूलेऽवतिष्ठन्ते विदहन्तः समुच्छ्रिताः ॥३४॥

जनयन्ति भृशं शोथं वेदनाश्च पृथग्विधाः । तं शीघ्रकारिणं रोगं रोहिणीति विनिर्दिशेत्‌ ॥३५॥

त्रिरात्रं परमं तस्य जन्तोर्भवति जिवितम्‌ । कुशलेन त्वनुक्रान्तः क्षिप्रं संपद्यते सुखी ॥३६॥

सन्ति ह्येवंविधा रोगाः साध्या दारुणसंमताः । ये हन्युरनुपक्रान्ता मिथ्याचारेण वा पुनः ॥३७॥

साध्याश्चाप्यपरे सन्ति व्याधयो मृदुसंमताः । यत्नायत्नकृतं येषु कर्म सिध्यत्यसंशयम्‌ ॥३८॥

असाध्याश्चापरे सन्ति व्याधयो याप्यसंज्ञिताः । सुसाध्वपि कृतं येषु कर्म यात्राकरं भवेत्‌ ॥३९॥

सन्ति चाप्यपरे रोगा येषु कर्म न सिध्यति । अपि यत्नकृतं बालैर्न तान्‌ विद्वानुपाचरेत्‌ ॥४०॥

साध्याश्चैवाप्यसाध्याश्च व्याधयो द्विविधाः स्मृताः । मृदुदारुणभेदेन ते भवन्ति चतुर्विधाः ॥४१॥

त एवापरिसंख्येया भिद्यमाना भवन्ति हि । रुजावर्णसमुत्थानस्थानसंस्थाननामभिः ॥४२॥

व्यवस्थाकरणं तेषां यथास्थूलेषु संग्रहः । तथा प्रकृतिसामान्यं विकारेषूपदिश्यते ॥४३॥

विकारनामाकुशलो न जिह्रीयात्‌ कदाचन । न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः ॥४४॥

स एव कुपितो दोषः समुत्थानविशेषतः । स्थानान्तरगतश्चैव जनयत्यामयान्‌ बहून्‌  ॥४५॥

तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च । समुत्थानविशेषांश्च बुद्‌ध्वा कर्म समाचरेत्‌ ॥४६॥

यो ह्येतत्‌ त्रितयं ज्ञात्वा कर्माण्यारभते भिषक्‌ । ज्ञानपूर्वं यथान्यायं स कर्मसु न मुह्यति ॥४७॥

नित्याः प्राणभृतां देहे वातपित्तकफास्त्रयः । विकृताः प्रकृतिस्था वा तान्‌ बुभुत्सेत पण्डितः ॥४८॥

 उत्साहोच्छ्वासनिःश्वासचेष्टा धातुगतिः समा । समो मोक्षो गतिमतां वायोः कर्माविकारजम्‌ ॥४९॥

दर्शनं पक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम्‌ । प्रभा प्रसादो मेधा च पित्तकर्माविकारजम्‌ ॥५०॥

स्नेहो बन्धः स्थिरत्वं च गौरवं वृषता बलम्‌ । क्षमा धृतिरलोभश्च कफकर्माविकारजम्‌ ॥५१॥

वाते पित्ते कफे चैव क्षीणे लक्षणमुच्यते । कर्मणः प्राकृताद्धानिर्वृद्धिर्वाऽपि विरोधिनाम्‌ ॥५२॥

दोषप्रकृतिवैशेष्यं नियतं वृद्धिलक्षणम्‌ । दोषाणां प्रकृतिर्हानिर्वृद्धिश्चैवं परीक्ष्यते ॥५३॥

तत्र श्लोकाः –

संख्यां निमित्तं रूपाणि शोथानां साध्यतां न च । तेषां तेषां विकाराणां शोथांस्तांस्ताश्चं पूर्वजान्‌ ॥५४॥

विधिभेदं विकाराणां त्रिविधं बोध्यसंग्रहम्‌ । प्राकृतं कर्म दोषाणां लक्षणं हानिवृद्धिषु ॥५५॥

वीतमोहरजोदोषलोभमानमदस्पृहः । व्याख्यातवांस्त्रिशोथीये रोगाध्याये पुनर्वसुः ॥५६॥

इत्याग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने रोगचतुष्के त्रिशोथीयो नामाष्टादशोऽध्यायः ॥१८॥

Last updated on May 31st, 2021 at 06:50 pm

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi