अष्टाङ्गहृदये (चिकित्सितस्थानम्)
रक्तपित्तचिकित्सितं द्वितीयोऽध्यायः।
अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
ऊर्ध्वगं बलिनोऽवेगमेकदोषानुगं नवम्।
रक्तपित्तं सुखे काले साधयेन्निरुपद्रवम्॥१॥
अधोगं यापयेद्रक्तं यच्च दोषद्वयानुगम्।
शान्तं शान्तं पुनः कुप्यन्मार्गान्मार्गान्तरं च यत्॥२॥
अतिप्रवृत्तं मन्दाग्नेस्त्रिदोषं द्विपथं त्यजेत्।
ज्ञात्वा निदानमयनं मलावनुबलौ बलम्॥३॥
देशकालद्यवस्थां च रक्तपित्ते प्रयोजयेत्।
लङ्घनं बृंहणं वाऽऽदौ शोधनं शमनं तथा॥४॥
सन्तर्पणोत्थं बलिनो बहुदोषस्य साधयेत्।
ऊर्ध्वभागं विरेकेण वमनेन त्वधोगतम्॥५॥
शमनैर्बृंहणैश्चान्यल्लङ्घ्यबृंह्यानवेक्ष्य च।
ऊर्ध्वं प्रवृत्ते शमनौ रसौ तिक्तकषायकौ॥६॥
उपवासश्च निःशुण्ठीषडङ्गोदकपायिनः।
अधोगे रक्तपित्ते तु बृंहणो मधुरो रसः॥७॥
ऊर्ध्वगे तर्पणं योज्यं प्राक् च पेया त्वधोगते।
अश्नतो बलिनोऽशुद्धं न धार्यं तद्धि रोगकृत्॥८॥
धारयेदन्यथा शीघ्रमग्निवच्छीघ्रकारि तत्।
त्रिवृच्छ्यामाकषायेण कल्केन च सशर्करम्॥९॥
साधयेद्विधिवल्लेहं लिह्यात्पाणितलं ततः।
त्रिवृता त्रिफला श्यामा पिप्पली शर्करा मधु॥१०॥
मोदकः सन्निपातोर्ध्वरक्तशोफज्वरापहः।
त्रिवृत्समसिता तद्वत् पिप्पलीपादसंयुता॥११॥
वमनं फलसंयुक्तं तर्पणं ससितामधु।
ससितं वा जलं क्षौद्रयुक्तं वा मधुकोदकम्॥१२॥
क्षीरं वा रसमिक्षोर्वा शुद्धस्यानन्तरो विधिः।
यथास्वं मन्थपेयादिः प्रयोज्यो रक्षता बलम्॥१३॥
मन्थो ज्वरोक्तो द्राक्षादिः, पित्तघ्नैर्वा फलैः कृतः।
मधुखर्जूरमृद्वीकापरूषकसिताम्भसा॥१४॥
मन्थो वा पञ्चसारेण सघृतैर्लाजसक्तुभिः।
दाडिमामलकाम्लो वा मन्दाग्न्यम्लाभिलाषिणाम्॥१५॥
कमलोत्पलकञ्जल्कपृश्निपर्णीप्रियङ्गुकाः।
उशीरं शाबरं रोध्रं शृङ्गबेरं कुचन्दनम्॥१६॥
ह्रीबेरं धातकीपुष्पं बिल्वमध्यं दुरालभा।
अर्धार्धैर्विहिताः पेया वक्ष्यन्ते पादयौगिकाः॥१७॥
भूनिम्बसेव्यजलदा मसूराः पृश्निपर्ण्यपि।
विदारिगन्धा मुद्गाश्च बला सर्पिर्हरेणुकाः॥१८॥
जाङ्गलानि च मांसानि शीतवीर्याणि साधयेत्।
पृथक्पृथग्जले तेषां यवागूः कल्पयेद्रसे॥१९॥
शीताः सशर्कराक्षौद्रास्तद्वन्मांसरसानपि।
ईषदम्लाननम्लान् वा घृतभृष्टान् सशर्करान् ॥२०॥
शूकशिम्बीभवं धान्यं रक्ते शाकं च शस्यते।
अन्नस्वरूपविज्ञाने यदुक्तं लघु शीतलम्॥२१॥
पूर्वोक्तमम्बु पानीयं पञ्चमूलेन वा शृतम्।
लघुना शृतशीतं वा मध्वम्भो वा फलाम्बु वा॥२२॥
शशः सवास्तुकः शस्तो विबन्धे तित्तिरिः पुनः।
उदुम्बरस्य निर्यूहे साधितो मारुतेऽधिके॥२३॥
प्लक्षस्य बर्हिणस्तद्वन्न्यग्रोधस्य च कुक्कुटः।
यत्किञ्चिद्रक्तपित्तस्य निदानं तच्च वर्जयेत्॥२४॥
वासारसेन फलिनीमृद्रोध्राञ्जनमाक्षिकम्॥
पित्तासृक् शमयेत्पीतं, निर्यासो वाऽटरूषकात्॥२५॥
शर्करामधुसंयुक्तः केवलो वा, शृतोऽपि वा।
वृषः सद्यो जयत्यस्रं, स ह्यस्य परमौषधम्॥२६॥
पटोलमालतीनिम्बचन्दनद्वयपद्मकम्।
रोध्रो वृषस्तन्दुलीयः कृष्णा मृन्मदयन्तिका॥२७॥
शतावरी गोपकन्या काकोल्यौ मधुयष्टिका।
रक्तपित्तहराः क्वाथास्त्रयः समधुशर्कराः॥२८॥
पलाशवल्कक्वाथो वा सुशीतः शर्करान्वितः।
लिह्याद्वा मधुसर्पिर्भ्यां गवाश्वशकृतो रसम्॥२९॥
सक्षौद्रं ग्रथिते रक्ते लिह्यात्पारावताच्छकृत्।
अतिनिःस्रुतरक्तश्च क्षौद्रेण रुधिरं पिबेत्॥३०॥
जाङ्गलं, भक्षयेद्वाऽऽजमामं पित्तयुतं यकृत्।
चन्दनोशीरजलदलाजमुद्गकणायवैः॥३१॥
बलाजले पर्युषितैः कषायो रक्तपित्तहा।
प्रसादश्चन्दनाम्भोजसेव्यमृद्भृष्टलोष्टजः॥३२॥
सुशीतः ससिताक्षौद्रः शोणितातिप्रवृत्तिजित्।
आपोथ्य वा नवे कुम्भे प्लावयेदिक्षुगण्डिकाः॥३३॥
स्थितं तद्गुप्तमाकाशे रात्रिं प्रातः स्रुतं जलम्।
मधुमद्विकचाम्भोजकृतोत्तंसं च तद्गुणम्॥३४॥
ये च पित्तज्वरे चोक्ताः कषायास्तांश्च योजयेत्।
कषायैर्विविधैरेभिर्दीप्तेऽग्नौ विजिते कफे॥३५॥
रक्तपित्तं न चेच्छाम्येत्तत्र वातोल्बणे पयः।
युञ्ज्याच्छागं शृतं, तद्वद्गव्यं पञ्चगुणेऽम्भसि॥३६॥
पञ्चमूलेन लघुना शृतं वा ससितामधु।
जीवकर्षभकद्राक्षाबलागोक्षुरनागरैः॥३७॥
पृथक्पृथक्शृतं क्षीरं सघृतं सितयाऽथवा।
गोकण्टकाभीरुशृतं पर्णिनीभिस्तथा पयः॥३८॥
हन्त्याशु रक्तं सरुजं विशेषान्मूत्रमार्गगम्।
विण्मार्गगे विशेषेण हितं मोचरसेन तु॥३९॥
वटप्ररोहैः शुङ्गैर्वा शुण्ठ्युदीच्योत्पलैरपि।
रक्तातिसारदुर्नामचिकित्सां चात्र कल्पयेत्॥४०॥
पीत्वा कषायान् पयसा भुञ्जीत पयसैव च।
कषाययोगैरेभिर्वा विपक्वं पाययेद् घृतम्॥४१॥
समूलमस्तकं क्षुण्णं वृषमष्टगुणेऽम्भसि।
पक्त्वाऽष्टांशावशेषेण घृतं तेन विपाचयेत्॥४२॥
तत्पुष्पगर्भं तच्छीतं सक्षौद्रं पित्तशोणितम्।
पित्तगुल्मज्वरश्वासकासहृद्रोगकामलाः॥४३॥
तिमिरभ्रमवीसर्पस्वरसादांश्च नाशयेत्।
पलाशवृन्तस्वरसे तद्गर्भं च घृतं पचेत्॥४४॥
सक्षौद्रं तच्च रक्तघ्नं, तथैव त्रायमाणया।
रक्ते सपिच्छे सकफे ग्रथिते कण्ठमार्गगे॥४५॥
लिह्यान्माक्षिकसर्पिर्भ्यां क्षारमुत्पलनालजम्।
पृथक्पृथक् तथाऽम्भोजरेणुश्यामामधूकजम्॥४६॥
गुदागमे विशेषेण शोणिते बस्तिरिष्यते।
घ्राणगे रुधिरे शुद्धे नावनं चानुषेचयेत्॥४७॥
कषाययोगान् पूर्वोक्तान् क्षीरेक्ष्वादिरसाप्लुतान्।
क्षीरादीन्ससितांस्तोयं केवलं वा जलं हितम्॥४८॥
रसो दाडिमपुष्पाणामाम्रास्थ्नः शाड्वलस्य वा।
कल्पयेच्छीतवर्गं च प्रदेहाभ्यञ्जनादिषु॥४९॥
यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम्।
रक्तपित्ते हितं तच्च क्षतक्षीणे हितं च यत्॥५०॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग
हृदयसंहितायां चतुर्थे चिकित्सितस्थाने रक्तपित्त-
चिकित्सितं नाम द्वितीयोऽध्यायः॥२॥
Last updated on August 18th, 2021 at 06:42 am