चरकसंहिता
विमानस्थानम् ।
तृतीयोऽध्याय: ।
अथातो जनपदोद्ध्वंसनीयं विमानं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
जनपदमण्डले पञ्चालक्षेत्रे द्विजातिवराध्युषिते काम्पिल्यराजधान्यां भगवान् पुनर्वसुरात्रेयोऽन्तेवासिगणपरिवृत: पश्चिमे घर्ममासे गङ्गातीरे वनविचारमनुविचरञ्छिष्यमाग्निवेशमब्रवीत् ॥३॥
दृश्यन्ते हि खलु सौम्य !नक्षत्रग्रहगणचन्द्रसूर्यानिलानां दिशां चाप्रकृतिभूतानामृतुवैकारिका भावा:, अचिरादितो भूरपि च न यथावद्रसवीर्यविपाकप्रभावमोषधीनां प्रतिविधास्यति, तद्वियोगाच्चातङ्कप्रायता नियता । तस्मात् प्रागुद्ध्वंसात् प्राक् च भूमेर्विरसीभावादुद्धरध्वं सौम्य ! भैषज्यानि यावन्नोपहतरसवीर्यविपाकप्रभावाणि भवन्ति । वयं चैषां रसवीर्यविपाकप्रभावानुपयोक्ष्यामहे ये चास्माननुकाङ्क्षन्ति, यांश्च वयमनुकाङ्क्षाम: । न हि सम्यगुद्धृतेषु सौम्य ! भैषज्येषु सम्यग्विहितेषु सम्यक्, चावचारितेषु जनपदोद्ध्वंसकराणां विकाराणां किंचित् प्रतीकारगौरवं भवति ॥४॥
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच–उद्धृतानि खलु भगवन् ! भैषज्यानि, सम्यग्विहितानि, सम्यगवचारितानि च; अपि तु खलु जनपदोद्ध्वंसनमेकेनैव व्याधिना युगपदसमानप्रकृत्याहारदेहबलसात्म्यसत्त्ववयसां मनुष्याणां कस्माद्भवतीति ॥५॥
तमुवाच भगवानात्रेय:–एवमसामान्यावतामप्येभिरग्निवेश ! प्रकृत्यादिभिर्भावैर्मनुष्याणां येऽन्येभावा: सामान्यास्तद्वैगुण्यात् समानकाला: समानलिङ्गाश्च व्याधयोऽभिनिर्वर्तमाना जनपदमुद्ध्वंसयन्ति । ते तु खल्विमे भावा: सामान्या जनपदेषु भवन्ति; तद्यथा-वायु:, उदकं, देश:, काल इति ॥६॥
तत्र वातमेवंविधमनारोग्यकरं विद्यात्, तद्यथा– यथर्तुविषममतिस्तिमितमतिचलमतिपरुषमतिशीतमत्युष्णमतिरूक्ष- मत्यभिष्यन्दिनमतिभैरवारावमतिप्रतिहतपरस्परगतिमतिकुण्डलिनमसात्म्यगन्धबाष्पसिकतापांशुधूमोपहतमिति (१),
उदकं तु खल्वत्यर्थविकृतगन्धवर्णरसस्पर्शं क्लेदबहुलमपक्रान्तजलचरविहङ्गमुपक्षीणजलेशयमप्रीतिकरमपगतगुणं विद्यात् (२),
देशं पुन: प्रकृतिविकृतवर्णगन्धरसस्पर्शं क्लेदबहुलमुपसृष्टं सरीसृपव्यालमशकशलभमक्षिकामूषकोलूकश्माशानिक- शकुनिजम्बूकादिभिस्तृणोलूपोपवनवन्तं प्रतानादिबहुलमपूर्ववदवपतितशुष्कनष्टशस्यं धूम्रपवनं प्रध्मातपतत्रिगणमुत्क्रुष्टश्वगण- मुद्भ्रान्तव्यथितविविधमृगपक्षिसङ्घमुत्सृष्टनष्टधर्मसत्यलज्जाचारशीलगुणजनपदं शश्वत्क्षुभितोदीर्णसलिलाशयंप्रततोल्कापात- निर्घातभूमिकम्पमतिभयारावरूपं रूक्षताम्रारुणसिताभ्रजालसंवृतार्कचन्द्रतारकमभीक्ष्णं ससंभ्रमोद्वेगमिव सत्रासरुदितमिव सतमस्कमिव गुह्यकाचरितमिवाक्रन्दितशब्दबहुलं चाहितं विद्यात् (३),
कालं तु खलु यथर्तुलिङ्गाद्विपरीतलिङ्गमतिलिङ्गं हीनलिङ्गं चाहितं व्यवस्येत् (४),
इमानेवंदोषयुक्तांश्चतुरो भावा भावाञ्जनपदोद्ध्वंसकरान् वदन्ति कुशला:, अतोऽन्यथाभूतांस्तु हितानाचक्षते ॥७॥
विगुणेष्वपि खल्वेतेषु जनपदोद्ध्वंसकरेषु भावेषु भेषजेनोपपाद्यमानानामभयं भवति रोगेभ्य इति ॥८॥
भवन्ति चात्र–
वैगुण्यमुपपन्नानां देशकालानिलाम्भसाम् ।
गरीयस्त्वं विशेषेण हेतुमत् संप्रवक्ष्यते ॥९॥
वाताज्जलं जलाद्देशं देशात् कालं स्वभावत: ।
विद्याद्दुष्परिहार्यत्वाद्गरीयस्तरमर्थवित् ॥१०॥
वाय्वादिषु यथोक्तानां दोषाणां तु विशेषवित् ।
प्रतीकारस्य सौकर्ये विद्याल्लाघवलक्षणम्॥११॥
चतुर्ष्वपि तु दुष्टेषु कालान्तेषु यदा नरा: ।
भेषजेनोपपाद्यन्ते न भवन्त्यातुरास्तदा ॥१२॥
येषां न मृत्युसामान्यं सामान्यं न च कर्मणाम् ।
कर्म पञ्चविधं तेषां भेषजं परमुच्यते ॥१३॥
रसायनानां विधिवच्चोपयोग: प्रशस्यते ।
शस्यते देहवृत्तिश्च भेषजै: पूर्वमुद्धृतै: ॥१४॥
सत्यं भूते दया दानं बलयो देवतार्चनम् ।
सद्वृत्तस्यानुवृत्तिश्च प्रशमो गुप्तिरात्मन: ॥१५॥
हितं जनपदानां च शिवानामुपसेवनम् ।
सेवनं ब्रह्मचर्यस्य तथैव ब्रह्मचारिणाम् ॥१६॥
संकथा धर्मशास्त्राणां महर्षीणां जितात्मनाम् ।
धार्मिकै: सात्त्विकैर्नित्यं सहास्या वृद्धसंमतै: ॥१७॥
इत्येतद्भेषजं प्रोक्तमायुष: परिपालनम् ।
येषामनियतो मृत्युस्तस्मिन् काले सुदारुणे ॥१८॥
इति श्रुत्वा जनपदोद्ध्वंसने कारणानि पुनरपि भगवन्तमात्रेयमग्निवेश उवाच–अथ खलु भगवन् ! कुतोमूलमेषां वाय्वादीनां वैगुण्यमुत्पद्यते ? येनोपपन्ना जनपदमुद्ध्वंसयन्तीति ॥१९॥
तमुवाच भगवानात्रेय:–सर्वेषामप्यग्निवेश ! वाय्वादीनां यद्वैगुण्यमुत्पद्यते तस्य मूलमधर्म:, तन्मूलं वाऽसत्कर्म पूर्वकृतं; तयोर्योनि: प्रज्ञापराध एव । तद्यथा–यदा वै देशनगरनिगमजनपदप्रधाना धर्ममुत्क्रम्याधर्मेण प्रजां वर्तयन्ति, तदाश्रितोपाश्रिता: पौरजनपदा व्यवहारोपजीविनश्च तमधर्ममभिवर्धयन्ति, तत: सोऽधर्म: प्रसभं धर्ममन्तर्धत्ते, ततस्तेऽन्तर्हितधर्माणो देवताभिरपि त्यज्यन्ते, तेषां तथाऽन्तर्हितधर्मणामधर्मप्रधानानामपक्रान्तदेवतानामृतवो व्यापद्यन्ते; तेन नापो यथाकालं देवो वर्षति न वा वर्षति विकृतं वा वर्षति, वाता न सम्यगभिवान्ति, क्षितिर्व्यापद्यते, सलिलान्युपशुष्यन्ति, ओषधय: स्वभावं परिहायापद्यन्ते विकृतिं, तत उद्ध्वंसन्ते जनपदा: स्पृश्याभ्यवहार्यदोषात् ॥२०॥
तथा शस्त्रप्रभवस्यापि जनपदोद्ध्वंसस्याधर्म एव हेतुर्भवति । येऽतिप्रवृद्धलोभक्रोधमोहमानास्ते दुर्बलानवमत्यात्म- स्वजनपरोपघाताय शस्त्रेण परस्परमभिक्रामन्ति, परान् वाऽभिक्रामन्ति, परैर्वाऽभिक्राम्यन्ते ॥२१॥
रक्षोगणादिभिर्वा विविधैर्भूतसङ्घैस्तमधर्ममन्यद्वाऽप्यपचारान्तरमुपलभ्याभिहन्यन्ते ॥२२॥
तथाऽभिशापप्रभवस्याप्यधर्म एव हेतुर्भवति । ये लुप्तधर्माणो धर्मादपेतास्ते गुरुवृद्धसिद्धर्षिपूज्यानवमत्याहितान्याचरन्ति; ततस्ता: प्रजा गुर्वादिभिरभिशप्ता भस्मतामुपयान्ति प्रागेवानेकपुरुषकुलविनाशाय, नियतप्रत्ययोपलम्भादनियताश्चापरे ॥२३॥
प्रागपि चाधर्मादृते नाशुभोत्पत्तिरन्यतोऽभूत् । आदिकाले ह्यदितिसुतसमौजसोऽतिविमलविपुलप्रभावा: प्रत्यक्षदेवदेवर्षि- धर्मयज्ञविधिविधाना: शैलसारसंहतस्थिरशरीरा: प्रसन्नवर्णेन्द्रिया: पवनसमबलजवपराक्रमाश्चारुस्फिचोऽभिरूपप्रमाणाकृति- प्रसादोपचयवन्त: सत्यार्जवानृशंस्यदानदमनियमतपउपवासब्रह्मचर्यव्रतपरा व्यपगतभयरागद्वेषमोहलोभक्रोधशोकमानरोगनिद्रातन्द्राश्रमक्लमालस्यपरिग्रहाश्च पुरुषा बभूवुरमितायुष: । तेषामुदारसत्त्वगुणकर्मणामचिन्त्यरसवीर्यविपाकप्रभावगुणसमुदितानि प्रादुर्बभूवु: शस्यानि सर्वगुणसमुदितत्वात् पृथिव्यादीनां कृतयुगस्यादौ । भ्रश्यति तु कृतयुगे केषांचिदत्यादानात् सांपन्निकानां सत्त्वानां शरीरगौरवमासीत्, शरीरगौरवाच्छ्रम:, श्रमादालस्यम्, आलस्यात् संचय:, संचयात् परिग्रह:, परिग्रहाल्लोभ: प्रादुरासीत् कृते । ततस्त्रेतायां लोभादभिद्रोह:, अभिद्रोहानृतवचनम्, अनृतवचनात् कामक्रोधमानद्वेषपारुष्याभिघातभयतापशोकचिन्तोद्वेगादय: प्रवृत्ता: । ततस्त्रेतायां धर्मपादोऽन्तर्धानमगमत् । तस्यान्तर्धानात् युगवर्षप्रमाणस्य पादह्रास:, पृथिव्यादेश्च गुणपादप्रणाशोऽभूत् । तत्प्रणाशकृतश्च शस्यानां स्नेहवैमल्यरसवीर्यविपाकप्रभावगुणपादभ्रंश: । ततस्तानि प्रजाशरीराणि हीयमानगुणपादैराहारविहारैरयथापूर्वमुपष्टभ्यमानान्यग्निमारुतपरीतानि प्राग्व्याधिभिर्ज्वरादिभिराक्रान्तानि । अत: प्राणिनो ह्रासमवापुरायुष:क्रमश इति ॥२४॥
भवतश्चात्र–
युगे युगे धर्मपाद: क्रमेणानेन हीयते ।
गुणपादश्च भूतानामेवं लोक: प्रलीयते ॥२५॥
संवत्सरशते पूर्णे याति संवत्सर: क्षयम् ।
देहिनामायुष: काले यत्र यन्मानमिष्यते ॥२६॥
इति विकाराणां प्रागुत्पत्तिहेतुरुक्तो भवति ॥२७॥
एवंवादिनं भगवन्तमग्निवेश उवाच-किन्नु खलु भगवन् ! नियतकालप्रमाणमायु: सर्वं न वेति ॥२८॥
तं भगवानुवाच–
इहाग्निवेश ! भूतानामायुर्युक्तिमपेक्षते ।
दैवे पुरुषकारे च स्थितं ह्यस्य बलाबलम् ॥२९॥
दैवमात्मकृतं विद्यात् कर्म यत् पौर्वदैहिकम् ।
स्मृत: पुरुषकारस्तु क्रियते यदिहापरम् ॥३०॥
बलाबलविशेषोऽस्ति तयोरपि च कर्मणो: ।
दृष्टं हि त्रिविधं कर्म हीनं मध्यममुत्तमम् ॥३१॥
तयोरुदारयोर्युक्तिर्दीर्घस्य च सुखस्य च ।
नियतस्यायुषो हेतुर्विपरीतस्य चेतरा ॥३२॥
मध्यमा मध्यमस्येष्टा कारणं शृणु चापरम् ।
दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते ॥३३॥
दैवेन चेतरत् कर्म विशिष्टेनोपहन्यते ।
दृष्ट्वा यदेके मन्यन्ते नियतं मानमायुष: ॥३४॥
कर्म किंचित् क्वचित् काले विपाके नियतं महत् ।
किंचित्त्वकालनियतं प्रत्ययै: प्रतिबोध्यते ॥३५॥
तस्मादुभयदृष्टत्वादेकान्तग्रहणमसाधु । निदर्शनमपि चात्रोदाहरिष्याम:–यदि हि नियतकालप्रमाणमायु: सर्वं स्यात्, तदाऽऽयुष्कामाणां न मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनाद्या: क्रिया इष्टयश्च प्रयोज्येरन्; नोद्भ्रान्तचण्डचपलगोगजोष्ट्रखरतुरगमहिषादय: पवनादयश्च दुष्टा: परिहार्या: स्यु:, न प्रपातगिरिविषमदुर्गाम्बुवेगा:, तथा न प्रमत्तोन्मत्तोद्भ्रान्तचण्डचपलमोहलोभाकुलमतय:, नारय:, न प्रवृद्धोऽग्नि:, च विविधविषाश्रया: सरीसृपोरगादय:, न साहसं, नादेशकालचर्या, न नरेन्द्रप्रकोप इति, एवमादयो हि भावा नाभावकरा: स्यु:, आयुष: सर्वस्य नियतकालप्रमाणत्वात् । न चानभ्यस्ताकालमरणभयनिवारकाणामकालमरणभयमागच्छेत् प्राणिनां, व्यर्थाश्चारम्भकथाप्रयोगबुद्धय: स्युर्महर्षीणां रसायनाधिकारे, नापीन्द्रो नियतायुषं शत्रुं वज्रेणाभिहन्यात्, नाश्विनावार्तं भेषजेनोपपादयेतां, न महर्षयो यथेष्टमायुस्तपसा प्राप्नुयु:, न च विदितवेदितव्या महर्षय: ससुरेशा: सम्यक् पश्येयुरुपदिशेयुराचरेयुर्वा । अपि च सर्वचक्षुषामेतत् परं यदैन्द्रं चक्षु:, इदं चाप्यस्माकं तेन प्रत्यक्षं; यथा–पुरुषसहस्राणामुत्थायोत्थायाहवं कुर्वतामकुर्वतां चातुल्यायुष्ट्वं, तथा जातमात्राणामप्रतीकारात् प्रतीकाराच्च, अविषविषप्राशिनां चाप्यतुल्यायुष्ट्वमेव, न च तुल्यो योगक्षेम उदपानघटानां चित्रघटानां चोत्सीदतां; तस्माद्धितोपचारमूलं जीवितम्, अतो विपर्ययान्मृत्यु: । अपि च देशकालात्मगुणविपरीतानां कर्मणामाहारविकाराणां च क्रमोपयोग: सम्यक्, त्याग: सर्वस्य चातियोगमिथ्यायोगानां, सर्वातियोगसंधारणम्, असंधारणमुदीर्णानां च गतिमतां, साहसानां च वर्जनम्, आरोग्यानुवृत्तौ हेतुमुपलभामहे सम्यगुपदिशाम: सम्यक् पश्यामश्चेति ॥३६॥
अत: परमग्निवेश उवाच-एवं सत्यनियतकालप्रमाणायुषां भगवन् !कथं कालमृत्युरकालमृत्युर्वा भवतीति ॥३७॥
तमुवाच भगवानात्रेय:–श्रूयतामग्निवेश ! यथा यानसमायुक्तोऽक्ष: प्रकृत्यैवाक्षगुणैरुपेत: स च सर्वगुणोपपन्नो वाह्यमानो यथाकालं स्वप्रमाणक्षयादेवावसानं गच्छेत्, तथाऽऽयु: शरीरोपगतं बलवत्प्रकृत्या यथावदुपचर्यमाणं स्वप्रमाणक्षयादेवावसानं गच्छति; स मृत्यु: काले । यथा च स एवाक्षोऽतिभाराधिष्ठितत्वाद्विषमपथादपथादक्षचक्रभङ्गाद्वाह्यवाहकदोषादणिमोक्षादनुपाङ्गात् पर्यसनाच्चान्तराऽवसानमापद्यते, तथाऽऽयुरप्ययथाबलमारम्भादयथाग्नभ्यवहरणाद्विषमाभ्यवहरणाद्विषमशरीर- न्यासादतिमैथुनादसत्संश्रयादुदीर्णवेगविनिग्रहाद्विधार्यवेगाविधारणाद्भूतविषवाय्वगन्युपतापादभिघातादाहारप्रतीकारविवर्जनाच्चान्तराऽवसानमापद्यते, स मृत्युरकाले; तथा ज्वरादीनप्यात्रुान्मिथ्योपचरितानकालमृत्यून् पश्याम इति ॥३८॥
अथाग्निवेश: पप्रच्छ – किन्नु खलु भगवन् ! ज्वरितेभ्य: पानीयमुष्णं प्रयच्छन्ति भिषजो भूयिष्ठं न तथा शीतम्, अस्ति च शीतसाध्योऽपि धातुर्ज्वरकर इति ॥३९॥
तमुवाच भगवानात्रेय:–ज्वरितस्य कायसमुत्थानदेशकालानभिसमीक्ष्य पाचनार्थं पानीयमुष्णं प्रयच्छन्ति भिषज: । ज्वरो ह्यामाशयसमुत्थ:, प्रायो भेषजानि चामाशयसमुत्थानां विकाराणां पाचनवमनापतर्पणसमर्थानि भवन्ति; पाचनार्थं च पानीयमुष्णं, तस्मादेतज्ज्वरितेभ्य: प्रयच्छन्ति भिषजो भूयिष्ठम् । तद्धि तेषां पीतं वातमनुलोमयति, अग्निं चोदर्यमुदीरयति, क्षिप्रं जरां गच्छति, श्लेष्माणं परिशोषयति, स्वल्पमपि च पीतं तृष्णाप्रशमनायोपकल्पते, तथायुक्तमपि चैतन्नात्यर्थोत्सन्नपित्ते ज्वरे सदाहभ्रमप्रलापातिसारे वा प्रदेयम्, उष्णेन हि दाहभ्रमप्रलापातिसारा भूयोऽभिवर्धन्ते, शीतेन चोपशाम्यन्तीति ॥४०॥
भवन्ति चात्र-
शीतेनोष्णकृतान् रोगाञ्छमयन्ति भिषग्विद: ।
ये तु शीतकृता रोगास्तेषामुष्णं भिषग्जितम् ॥४१॥
एवमितरेषामपि व्याधीनां निदानविपरीतं भेषजं भवति; यथा–अपतर्पणनिमित्तानां व्याधीनां नान्तरेण पूरणमस्ति शान्ति:, तथा पूरणनिमित्तानां व्याधीनां नान्तरेणापतर्पणम् ॥४२॥
अपतर्पणमपि च त्रिविधं–लङ्घनं, लङ्घनपाचनं, दोषावसेचनं चेति ॥४३॥
तत्र लङ्घनमल्पबलदोषाणां, लङ्घनेन ह्यग्निमारुतवृद्ध्या वातातपपरीतमिवाल्पमुदकमल्पो दोष: प्रशोषमापद्यते;
लङ्घनपाचने तु मध्यबलदोषाणां, लङ्घनपाचानाभ्यां हि सूर्यसंतापमारुताभ्यां पांशुभस्मावकिरणैरिव चानतिबहूदकं मध्यबलो दोष: प्रशोषमापद्यते; बहुदोषाणां पुनर्दोषावसेचनमेव कार्यं, न ह्यभिन्ने केदारसेतौ पल्वलाप्रसेकोऽस्ति, तद्वद्दोषावसेचनम् ॥४४॥
दोषावसेचनमन्यद्वा भेषजं प्राप्तकालमप्यातुरस्य नैवंविधस्य कुर्यात् । तद्यथा–अनपवादप्रतीकारस्याधनस्यापरिचारकस्य वैद्यमानिनश्चण्डस्यासूयकस्य तीव्राधर्मारुचेरतिक्षीणबलमांसशोणितस्यासाध्यारोगोपहतस्य मुमूर्षुलिङ्गान्वितस्य चेति । एवंविधं ह्यातुरमुपचरन् भिषक् पापीयसाऽयशसा योगमृच्छतीति ॥४५॥
भवन्ति चात्र–
तदात्वे चानुबन्धे वा यस्य स्यादशुभं फलम् ।
कर्मणस्तन्न कर्तव्यमेतद्बुद्धिमतां मतम् ॥४६॥
(अल्पोदकद्रुमो यस्तु प्रवात: प्रचुरातप:।
ज्ञेय: स जाङ्गलो देश: स्वल्परोगतमोऽपि च ॥४७॥
प्रचुरोदकवृक्षो यो निवातो दुर्लभातप: ।
अनूपो बहुदोषश्च, सम: साधारणो मत: ॥४८॥
तत्र श्लोका:–
पूर्वरूपाणि सामान्या हेतव: सस्वलक्षणा: ।
देशोद्ध्वंसस्य भैषज्यं हेतूनां मूलमेव च ॥४९॥
प्राग्विकारसमुत्पत्तिरायुश्च क्षयक्रम: ।
मरणं प्रति भूतानां कालाकालविनिश्चय: ॥५०॥
यथा चाकालमरणं यथायुक्तं च भेषजम् ।
सिद्धिं यात्यौषधं येषां न कुर्याद्येन हेतुना ॥५१॥
तदात्रेयोऽग्निवेशाय निखिलं सर्वमुक्तवान् ।
देशोद्ध्वंसनिमित्तीये विमाने मुनिसत्तम: ॥५२॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने जनपदोद्ध्वंसनीयविमानं नाम तृतीयोऽध्याय: ॥३॥
Last updated on June 7th, 2021 at 09:16 am