विषय सूची पर जायें

30. शकुनीप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

त्रिंशत्तमोऽध्यायः।

अथातः शकुनीप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

शकुन्यभिपरीतस्य कार्यो वैद्येन जानता |
वेतसाम्रकपित्थानां निष्क्वाथः परिषेचने ||३||

कषायमधुरौस्तैलं कार्यमभ्यञ्जने शिशोः |
मधुकोशीरह्रीबेरसारिवोत्पलपद्मकैः ||४||

रोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम् |
व्रणेषूक्तानि चूर्णानि पथ्यानि विविधानि च ||५||

स्कन्दग्रहे धूपनानि तानीहापि प्रयोजयेत् |
शतावरीमृगैर्वारुनागदन्तीनिदिग्धिकाः ||६||

लक्ष्मणां सहदेवां च बृहतीं चापि धारयेत् |
तिलतण्डुलकं माल्यं हरितालं मनःशिला ||७||

बलिरेष करञ्जेषु निवेद्यो नियतात्मना |
निष्कुटे च प्रयोक्तव्यं स्नानमस्य यथाविधि ||८||

स्कन्दापस्मारशमनं घृतं चापीह पूजितम् |
कुर्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः ||९||

अन्तरीक्षचरा देवी सर्वालङ्कारभूषिता |
अयोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु ||१०||

दुर्दर्शना महाकाया पिङ्गाक्षी भैरवस्वरा |
लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु ||११||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शकुनीप्रतिषेधो नाम (चतुर्थोऽध्यायः, आदितः) त्रिंशोऽध्यायः ||३०||

Last updated on July 8th, 2021 at 11:54 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi