चरकसंहिता
शारीरस्थानम्
प्रथमोऽध्याय: ।
अथात: कतिधापुरुषीयं शारीरं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
कतिधा पुरुषो धीमन् ! धातुभेदेन भिद्यते ।
परुष: कारणं कस्मात्, प्रभव: पुरुषस्य क: ॥३॥
किमज्ञो ज्ञ:, स नित्य: किं किमनित्यो निदर्शित: ।
प्रकृति: का, विकारा: के, किं लिङ्गं पुरुषस्य च ॥४॥
निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम् ।
वदन्त्यात्मानमात्मज्ञा: क्षेत्रज्ञं साक्षिणं तथा ॥५॥
निष्क्रियस्य क्रिया तस्य भगवन् ! विद्यते कथम् ।
स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते ॥६॥
वशी यद्यसुखै: कस्माद्भावैराक्रम्यते बलात् ।
सर्वा: सर्वगतत्वाच्च वेदना: किं न वेत्ति स: ॥७॥
न पश्यति विभु: कस्माच्छैलकुड्यतिरस्कृतम् ।
क्षेत्रज्ञ: क्षेत्रमथवा किं पूर्वमिति संशय: ॥८॥
ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञो हि न युज्यते ।
क्षेत्रं च यदि पूर्वं स्यात् क्षेत्रज्ञ: स्यादशाश्वत: ॥९॥
साक्षिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते ।
स्यात् कथं चाविकारस्य विशेषो वेदनाकृत: ॥१०॥
अथ चार्तस्य भगवंस्तिसृणां कां चिकित्सति ।
अतीतां वेदनां वैद्यो वर्तमानां भविष्यतीम् ॥११॥
भविष्यन्त्या असंप्राप्तिरतीताया अनागम: ।
सांप्रतिक्या अपि स्थानं नास्त्यर्ते: संशयो ह्यत: ॥१२॥
कारणं वेदनानां किं, किमधिष्ठानमुच्यते ।
क्व चैता वेदना: सर्वा निवृत्तिं यान्त्यशेषत: ॥१३॥
सर्ववित् सर्वसंन्यासी सर्वसंयोगनि:सृत: ।
एक: प्रशान्तो भूतात्मा कैर्लिङ्गैरुपलभ्यते ॥१४॥
इत्यग्निवेशस्य वच: श्रुत्वा मतिमतां वर: ।
सर्वं यथावत् प्रोवाच प्रशान्तात्मा पुनर्वसु: ॥१५॥
खादयश्चेतनाषष्ठा धातव: पुरुष: स्मृत: ।
चेतनाधातुरप्येक: स्मृत: पुरुषसंज्ञक: ॥१६॥
पुनश्च धातुभेदेन चतुर्विंशतिक: स्मृत: ।
मनो दशेन्द्रियाण्यर्था: प्रकृतिश्चाष्टधातुकी ॥१७॥
लक्षणं मनसो ज्ञानस्याभावो भाव एव च ।
सति ह्यात्मेन्द्रियार्थानां सन्निकर्षे न वर्तते ॥१८॥
वैवृत्त्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्तते ।
अणुत्वमथ चैकत्वं द्वौ गुणौ मनस: स्मृतौ ॥१९॥
चिन्त्यं विचार्यमूह्यं च ध्येयं संकल्प्यमेव च ।
यत्किंचिन्मनसो ज्ञेयं तत् सर्वं ह्यर्थसंज्ञकम् ॥२०॥
इन्द्रियाभिग्रह: कर्म मनस: स्वस्य निग्रह: ।
ऊहो विचारश्च, तत: परं बुद्धि: प्रवर्तते ॥२१॥
इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते ।
कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा ॥२२॥
जायते विषये तत्र या बुद्धिर्निश्चयात्मिका ।
व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम् ॥२३॥
एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु ।
पञ्च कर्मानुमेयानि येभ्यो बुद्धि: प्रवर्तते ॥२४
हस्तौ पादौ गुदोपस्थं वागिन्द्रियमथापि च ।
कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि ॥२५॥
पायूपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे ।
जिह्वा वागिन्द्रियं वाक् च सत्या ज्योतिस्तमोऽनृता ॥२६॥
महाभूतानि खं वायुरग्निराप: क्षितिस्तथा ।
शब्द: स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणा: ॥२७॥
तेषामेकगुण: पूर्वो गुणवृद्धि: परे परे ।
पूर्व: पूर्वगुणश्चैव क्रमशो गुणिषु स्मृत: ॥२८॥
खरद्रवचलोष्णत्वं भूजलानिलतेजसाम् ।
आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम् ॥२९॥
लक्षणं सर्वमेवैतत् स्पर्शनेन्द्रियगोचरम् ।
स्पर्शनेन्द्रियविज्ञेय: स्पर्शो हि सविपर्यय: ॥३०॥
गुणा: शरीरे गुणिनां निर्दिष्टाश्चिह्नमेव च ।
अर्था: शब्दादयो ज्ञेया गोचरा विषया गुणा: ॥३१॥
या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धि: प्रवर्तते ।
याति सा तेन निर्देशं मनसा च मनोभवा ॥३२॥
भेदात् कार्येन्द्रियार्थानां बह्व्यो वै बुद्धय: स्मृता: ।
आत्मेन्द्रियमनोर्थानामेकैका सन्निकर्षजा ॥३३॥
अङ्गुल्यङ्गुष्ठतलजस्तन्त्रीवीणानखोद्भव: ।
दृष्ट: शब्दो यथा बुद्धिर्दृष्टा संयोगजा तथा ॥३४॥
बुद्धिन्द्रियमनोर्थानां विद्याद्योगधरं परम् ।
चतुर्विंशतिको ह्येष राशि: पुरुषसंज्ञक: ॥३५॥
रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्तवान् ।
ताभ्यां निराकृताभ्यां तु सत्त्ववृद्ध्या निवर्तते ॥३६॥
अत्र कर्म फलं चात्र ज्ञानं चात्र प्रतिष्ठितम् ।
अत्र मोह: सुखं दु:खं जीवितं मरणं स्वता ॥३७॥
एवं यो वेद तत्त्वेन स वेद प्रलयोदयौ ।
पारंपर्यं चिकित्सां च ज्ञातव्यं यच्च किंचन ॥३८॥
भास्तम: सत्यमनृतं वेदा: कर्म शुभाशुभम् ।
न स्यु: कर्ता च बोद्धा च पुरुषो न भवेद्यदि ॥३९॥
नाश्रयो न सुखं नार्तिर्न गतिर्नागतिर्न वाक् ।
न विज्ञानं न शास्त्राणि न जन्म मरणं न च ॥४०॥
न बन्धो न च मोक्ष: स्यात् पुरुषो न भवेद्यदि ।
कारणं पुरुषस्तस्मात् कारणज्ञैरुदाहृत: ॥४१॥
न चेत् कारणमात्मा स्याद्भादय: स्युरहेतुका: ।
न चैषु संभवेज् ज्ञानं न च तै: स्यात् प्रयोजनम् ॥४२॥
कृतं मृद्दण्डचक्रैश्च कुम्भकारादृते घटम् ।
कृतं मृत्तृणकाष्ठैश्च गृहकाराद्विना गृहम् ॥४३॥
यो वदेत् स वदेद्देहं संभूय करणै: कृतम् ।
विना कर्तारमज्ञानाद्युक्त्यागमबहिष्कृत: ॥४४॥
कारणं पुरुष: सर्वै: प्रमाणैरुपलभ्यते ।
येभ्य: प्रमेयं सर्वेभ्य आगमेभ्य: प्रमीयते ॥४५॥
न ते तत्सदृशास्त्वन्ये पारंपर्यसमुत्थिता: ।
सारूप्याद्ये त एवेति निर्दिश्यन्ते नवा नवा: ॥४६॥
भावास्तेषां समुदयो निरीश: सत्त्वसंज्ञक: ।
कर्ता भोक्ता न स पुमानिति केचिप्त्वस्थिता: ॥४७॥
तेषामन्यै: कृतस्यान्ये भावा भावैर्नवा: फलम् ।
भुञ्जते सदृशा: प्राप्तं यैरात्मा नोपदिश्यते ॥४८॥
करणान्यान्यता दृष्टा कर्तु: कर्ता स एव तु ।
कर्ता हि करणैर्युक्त: कारणं सर्वकर्मणाम् ॥४९॥
निमेषकालाद्भावानां काल: शीघ्रतरोऽत्यये ।
भग्नानां न पुनर्भाव: कृतं नान्यमुपैति च ॥५०॥
मतं तत्त्वविदामेतद्यस्मात्तस्मात् स कारणम् ।
क्रियोपभोगे भूतानां नित्य: पुरुषसंज्ञक: ॥५१॥
अहङ्कर: फलं कर्म देहान्तरगति: स्मृति: ।
विद्यते सति भूतानां कारणे देहमन्तरा ॥५२॥
प्रभवो न ह्यनादित्वाद्विद्यते परमात्मन: ।
पुरुषो राशिसंज्ञस्तु मोहेच्छाद्वेषकर्मज: ॥५३॥
आत्मा ज्ञ: करणैर्योगाज् ज्ञानं त्वस्य प्रवर्तते ।
करणानामवैमल्यादयोगाद्वा न वर्तते ॥५४॥
पश्यतोऽपि यथाऽऽदर्शे संक्लिष्टे नास्ति दर्शनम् ।
तत्त्वं जले वा कलुषे चेतस्युपहते तथा ॥५५॥
करणानि मनो बुद्धिर्बुद्धिकर्मेन्द्रियाणि च ।
कर्तु: संयोगजं कर्म वेदना बुद्धिरेव च ॥५६॥
नैक: प्रवर्तते कर्तुं भूतात्मा नाश्नुते फलम् ।
संयोगाद्वर्तते सर्वं तमृते नास्ति किञ्चन ॥५७॥
न ह्येको वर्तते भावो वर्तते नाप्यहेतुक: ।
शीघ्रगत्वात्स्वभावात्त्वभावो न व्यतिवर्तते ॥५८॥
अनादि: पुरुषो नित्यो विपरीतस्तु हेतुज: ।
सदकारणवन्नित्यं दृष्टं हेतुजमन्यथा ॥५९॥
तदेव भावादग्राह्यं नित्यत्व न कुतश्चन ।
भावाज्ज्ञेयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा ॥६०॥
अव्यक्तमात्मा क्षेत्रज्ञ: शाश्वतो विभुरव्यय: ।
तस्माद्यदन्यत्तप्त्क्तं, वक्ष्यते चापरं द्वयम् ॥६१॥
व्यक्तमैन्द्रियकं चैव गृह्यते तद्यदिन्द्रियै: ।
अतोऽन्यत् पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियम् ॥६२॥
खादिनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टम: ।
भूतप्रकृतिरुद्दिष्टा विकाराश्चैव षोडश ॥६३॥
बुद्धिन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च ।
समनस्काश्च पञ्चार्था विकारा इति संज्ञिता: ॥६४॥
इति क्षेत्रं समुद्दिष्टं सर्वमव्यक्तवर्जितम् ।
अव्यक्तमस्य क्षेत्रस्य क्षेत्रज्ञमृषयो विदु: ॥६५॥
जायते बुद्धिरव्यक्ताद्बुद्ध्याऽहमिति मन्यते ।
परं खादीन्यहङ्कारादुत्पद्यन्ते यथाक्रमम् ॥६६॥
तत: संपूर्णसर्वाङ्गो जातोऽभ्युदित उच्यते ।
पुरुष: प्रलये चेष्टै: पुनर्भावैर्वियुज्यते ॥६७॥
अव्यक्ताद्वयक्ततां याति व्यक्तादव्यक्ततां पुन: ।
रजस्तमोभ्यामाविष्टश्चक्रवत् परिवर्तते ॥६८॥
येषां द्वन्द्वे परा सक्तिरहङ्करपराश्च ये ।
उदयप्रलयौ तेषां न तेषां ये त्वतोऽन्यथा ॥६९॥
प्राणापानौ निमेषाद्या जीवनं मनसो गति: ।
इन्द्रियान्तरसंचार: प्रेरणं धारणं च यत् ॥७०॥
देशान्तरगति: स्वप्ने पञ्चत्वग्रहणं तथा ।
दृष्टस्य दक्षिणेनाक्ष्णा सव्येनावगमस्तथा ॥७१॥
इच्छा द्वेष: सुखं दु:खं प्रयत्नश्चेतना धृति: ।
बुद्धि: स्मृतिरहङ्करो लिङ्गानि परमात्मन: ॥७२॥
यस्मात् समुपलभ्यन्ते लिङ्गान्येतानि जीवत: ।
न मृतस्यात्मलिङ्गानि तस्मादाहुर्महर्षय: ॥७३॥
शरीरं हि गते तस्मिञ् शून्यागारमचेतनम् ।
पञ्चभूतावशेषत्वात् पञ्चत्वं गतमुच्यते ॥७४॥
अचेतनं क्रियावच्च मनश्चेतयिता पर: ।
युक्तस्य मनसा तस्य निर्दिश्यन्ते विभो: क्रिया: ॥७५॥
चेतनावान् यतश्चात्मा तत: कर्ता निरुच्यते ।
अचेतनत्वाच्च मन: क्रियावदपि नोच्यते ॥७६॥
यथास्वेनात्मनाऽऽत्मानं सर्व: सर्वासु योनिषु ।
प्राणैस्तन्त्रयते प्राणी नह्यन्योऽस्त्यस्य तन्त्रक: ॥७७॥
वशी तत् कुरुते कर्म यत् कृत्वा फलमश्नुते ।
वशी चेत: समाधत्ते वशी सर्वं निरस्यति ॥७८॥
देही सर्वगतोऽप्यात्मा स्वे स्वे संस्पर्शनेन्द्रिये ।
सर्वा: सर्वाश्रयस्थास्तु नात्माऽतो वेत्ति वेदना: ॥७९॥
विभुत्वमत एवास्य यस्मात् सर्वगतो महान् ।
मनसश्च समाधानात् पश्यत्यात्मा तिरस्कृतम् ॥८०॥
नित्यानुबन्धं मनसा देहकर्मानुपातिना ।
सर्वयोनिगतं विद्यादेकयोनावपि स्थितम् ॥८१॥
आदिर्नास्त्यात्मन: क्षेत्रपारंपर्यमनादिकम् ।
अतस्तयोरनादित्वात् किं पूर्वमिति नोच्यते ॥८२॥
ज्ञ: साक्षीत्युच्यते नाज्ञ: साक्षी त्वात्मा यत: स्मृत: ।
सर्वे भावा हि सर्वेषां भूतानामात्मसाक्षिका: ॥८३॥
नैक: कदाचिद्भूतात्मा लक्षणैरुपलभ्यते ।
विशेषोऽनुपलभ्यस्य तस्य नैकस्य विद्यते ॥८४॥
संयोगपुरुषस्येष्टो विशेषो वेदनाकृत: ।
वेदना यत्र नियता विशेषस्तत्र तत्कृत: ॥८५॥
चिकित्सति भिषक् सर्वास्त्रिकाला वेदना इति ।
यया युक्त्या वदन्त्येके सा युक्तिरुपधार्यताम् ॥८६॥
पुनस्तच्छिरस: शूलं ज्वर: स पुनरागत: ।
पुन: स कासो बलवांश्छर्दि: सा पुनरागता: ॥८७॥
एभि: प्रसिद्धवचनैरतीतागमनं मतम् ।
कालश्चायमतीतानामर्तीनां पुनरागत: ॥८८॥
तमर्तिकालमुद्दिश्य भेषजं यत् प्रयुज्यते ।
अतीतानां प्रशमनं वेदनानां तदुच्यते ॥८९॥
आपस्ता: पुनरागुर्मा याभि: शस्यं पुरा हतम् ।
यथा प्रक्रियते सेतु: प्रतिकर्म तथाऽऽश्रये ॥९०॥
पूर्वरूपं विकाराणां दृष्ट्वा प्रादुर्भविष्यताम् ।
या क्रिया क्रियते सा च वेदनां हन्त्यनागताम् ॥९१॥
पारंपर्यानुबन्धस्तु दु:खानां विनिवर्तते ।
सुखहेतूपचारेण सुखं चापि प्रवर्तते ॥९२॥
न समा यान्ति वैषम्यं विषमा: समतां न च ।
हेतुभि: सदृशा नित्यं जायन्ते देहधातव: ॥९३॥
युक्तिमेतां पुरस्कृत्य त्रिकालां वेदनां भिषक् ।
हन्तीत्युक्तं चिकित्सा तु नैष्ठिकी या विनोपधाम् ॥९४॥
उपधा हि परो हेतुर्दु:खदु:खाश्रयप्रद: ।
त्याग: सर्वोपधानां च सर्वदु:खव्यपोहक: ॥९५॥
कोषकारो यथा ह्यंशूनुपादत्ते वधप्रदान् ।
उपादत्ते तथाऽर्थेभ्यस्तृष्णामज्ञ: सदाऽऽतुर: ॥९६॥
यस्त्वग्निकल्पानर्थाञ् ज्ञो ज्ञात्वा तेभ्यो निवर्तते ।
अनारम्भादसंयोगात्तं दु:खं नोपतिष्ठते ॥९७॥
धीधृतिस्मृतिविभ्रंश: संप्राप्ति: कालकर्मणाम् ।
असात्म्यार्थागमश्चेति ज्ञातव्या दु:खहेतव: ॥९८॥
विषमाभिनिवेशो यो नित्यानित्ये हिताहिते ।
ज्ञेय: स बुद्धिविभ्रंश: समं बुद्धिर्हि पश्यति ॥९९॥
विषयप्रवणं सत्त्वं धृतिभ्रंशान्न शक्यते ।
नियन्तुमहितादर्थाद्धृतिर्हि नियमात्मिका ॥१००॥
तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मन: ।
भ्रश्यते स स्मृतिभ्रंश: स्मर्तव्यं हि स्मृतौ स्थितम् ॥१०१॥
धीधृतिस्मृतिविभ्रष्ट: कर्म यत् कुरुतेऽशुभम् ।
प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम् ॥१०२॥
उदीरणं गतिमतामुदीर्णानां च निग्रह: ।
सेवनं साहसानां च नारीणां चातिसेवनम् ॥१०३॥
कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम् ।
विनयाचारलोपश्च पूज्यानां चाभिधर्षणम् ॥१०४॥
ज्ञातानां स्वयमर्थानामहितानां निषेवणम् ।
परमौन्मादिकानां च प्रत्ययानां निषेवणम् ॥१०५॥
अकालादेशसंचारौ मैत्री संक्लिष्टकर्मभि: ।
इन्द्रियोपक्रमोक्तस्य सद्वृत्तस्य च वर्जनम् ॥१०६॥
ईर्ष्यामानभयक्रोधलोभमोहमदभ्रमा: ।
तज्जं वा कर्म यत् क्लिष्टं यद्देहकर्म च ॥१०७॥
यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम् ।
प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम् ॥१०८॥
बुद्ध्या विषमविज्ञानं विषमं च प्रवर्तनम् ।
प्रज्ञापराधं जानीयान्मनसो गोचरं हि तत् ॥१०९॥
निर्दिष्टा कालसंप्राप्तिर्व्याधीनां व्याधिसंग्रहे ।
चयप्रकोपप्रशमा: पित्तादीनां यथा पुरा ॥११०॥
मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतव: ।
जीर्णभुक्तप्रजीर्णान्नकालकालस्थितिश्च या ॥१११॥
पूर्वमध्यापराह्णाश्च रात्र्या यामास्त्रयश्च ये ।
एषु कालेषु नियता ये रोगास्ते च कालजा: ॥११२॥
अन्येद्युष्को व्द्यहग्राही तृतीयकचतुर्थकौ ।
स्वे स्वे काले प्रवर्तन्ते काले ह्येषां बलागम: ॥११३॥
एते चान्ये च ये केचित् कालजा विविधा गदा: ।
अनागते चिकित्स्यास्ते बलकालौ विजानता ॥११४॥
कालस्य परिणामेन जरामृत्युनिमित्तजा:
रोगा: स्वाभाविका दृष्टा: स्वभावो निष्प्रतिक्रिय: ॥११५॥
निर्दिष्टं दैवशब्देन कर्म यत् पौर्वदेहिकम् ।
हेतुस्तदपि कालेन रोगाणामुपलभ्यते ॥११६॥
न हि कर्म महत् किञ्चित् फलं यस्य न भुज्यते ।
क्रियाघ्ना: कर्मजारोगा: प्रशमं यान्ति तत्क्षयात् ॥११७॥
अत्युग्रशब्दश्रवणाच्छ्रवणात् सर्वशो न च ।
शब्दानां चातिहीनानां भवन्ति श्रवणाज्जडा: ॥११८॥
परुषोद्भीषणाशस्ताप्रियव्यसनसूचकै: ।
शब्दै: श्रवणसंयोगो मिथ्यासंयोग उच्यते ॥११९॥
असंस्पर्शोऽतिसंस्पर्शो हीनसंस्पर्श एव च ।
स्पृश्यानां संग्रहेणोक्त: स्पर्शनेन्द्रियबाधक: ॥१२०॥
यो भूतविषवातानामकालेनागतश्च य: ।
स्नेहशीतोष्णसंस्पर्शो मिथ्यायोग: स उच्यते ॥१२१॥
रूपाणां भास्वतां दृष्टिर्विनश्यत्यतिदर्शनात् ।
दर्शनाच्चातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात् ॥१२२॥
द्विष्टभैरवबीभत्सदूरातिश्लिष्टदर्शनात्
तामसानां च रूपाणां मिथ्यासंयोग उच्यते ॥१२३॥
अत्यादानमनादानमोकसात्म्यादिभिश्च यत् ।
रसानां विषमादानमल्पादानं च दूषणम् ॥१२४॥
अतिमृद्वतितीक्ष्णानां गन्धानामुपसेवनम् ।
असेवनं सर्वशश्च घ्राणेन्द्रियविनाशनम् ॥१२५॥
पूतिभूतविषद्विष्टा गन्धा ये चाप्यनार्तवा: ।
तैर्गन्धैर्घ्राणसंयोगो मिथ्यायोग: स उच्यते ॥१२६॥
इत्यसात्म्यार्थसंयोगस्त्रिविधो दोषकोपन: ।
असात्म्यमिति तद्विद्याद्यन्न याति सहात्मताम् ॥१२७॥
मिथ्यातिहीनयोगेभ्यो यो व्याधिरुपजायते ।
शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियको बुधै: ॥१२८॥
वेदनानामशान्तानामित्येते हेतव: स्मृता: ।
सुखहेतु: समस्त्वेक: समयोग: सुदुर्लभ: ॥१२९॥
नेन्द्रियाणि न चैवार्था: सुखदु:खस्य हेतव: ।
हेतुस्तु सुखदु:खस्य योगो दृष्टश्चतुर्विध: ॥१३०॥
सन्तीन्द्रियाणि सन्त्यर्था योगो न च न चास्ति रुक् ।
न सुखं, कारणं तस्माद्योग एव चतुर्विध: ॥१३१॥
नात्मेन्द्रियं मनो बुद्धिं गोचरं कर्म वा विना ।
सुखदु:खं, यथा यच्च बोद्धव्यं तत्तथोच्यते ॥१३२॥
स्पर्शनेन्द्रियसंस्पर्श: स्पर्शो मानस एव च ।
द्विविध: सुखदु:खानां वेदनानां प्रवर्तक: ॥१३३॥
इच्छाद्वेषात्मिका तृष्णा सुखदु:खात् प्रवर्तते ।
तृष्णा च सुखदु:खानां कारणं पुनरुच्यते ॥१३४॥
उपादत्ते हि सा भावान् वेदनाश्रयसंज्ञकान् ।
स्पृश्यते नानुपादाने नास्पृष्टो वेत्ति वेदना: ॥१३५॥
वेदनानामधिष्ठानं मनो देहश्च सेन्द्रिय: ।
केशलोमनखाग्रान्नमलद्रवगुणैर्विना ॥१३६॥
योगे मोक्षे च सर्वासां वेदनानामवर्तनम् ।
मोक्षे निवृत्तिर्नि:शेषा योगो मोक्षप्रवर्तक: ॥१३७॥
आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते ।
सुखदु:खमनारम्भादात्मस्थे मनसि स्थिरे ॥१३८॥
निवर्तते तदुभयं वशित्वं चोपजायते ।
सशरीरस्य योगज्ञास्तं योगमृषयो विदु: ॥१३९॥
आवेशश्चेतसो ज्ञानमर्थानां छन्दत: क्रिया ।
दृष्टि: श्रोत्रं स्मृति: कान्तिरिष्टतश्चाप्यदर्शनम् ॥१४०॥
इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम् ।
शुद्धसत्त्वसमाधानात्तत् सर्वमुपजायते ॥१४१॥
मोक्षो रजस्तमोऽभावात् बलवत्कर्मसंक्षयात् ।
वियोग: सर्वसंयोगैरपुनर्भव उच्यते ॥१४२॥
सतामुपासनं सम्यगसतां परिवर्जनम् ।
व्रतचर्योपवासौ च नियमाश्च पृथग्विधा: ॥१४३॥
धारणं धर्मशास्त्राणां विज्ञानं विजने रति: ।
विषयेष्वरतिर्मोक्षे व्यवसाय: परा धृति: ॥१४४॥
कर्मणामसमारम्भ: कृतानां च परिक्षय: ।
नैष्क्रम्यमनहङ्कर: संयोगे भयदर्शनम् ॥१४५॥
मनोबुद्धिसमाधानमर्थतत्त्वपरीक्षणम् ।
तत्त्वस्मृतेरुपस्थानात् सर्वमेतत् प्रवर्तते ॥१४६॥
स्मृति: सत्सेवनाद्यैश्च धृत्यन्तैरुपजायते ।
स्मृत्वा स्वभावं भावानां स्मरन् दु:खात् प्रमुच्यते ॥१४७॥
वक्ष्यन्ते कारणान्यष्टौ स्मृतिर्यैरुपजायते ।
निमित्तरूपग्रहणात् सादृश्यात् सविपर्ययात् ॥१४८॥
सत्त्वानुबन्धादभ्यासाज्ज्ञानयोगात् पुन: श्रुतात् ।
दृष्टश्रुतानुभूतानां स्मरणात् स्मृतिरुच्यते ॥१४९॥
एतत्तदेकमयनं मुक्तैर्मोक्षस्य दर्शितम् ।
तत्त्वस्मृतिबलं, येन गता न पुनरागता: ॥१५०॥
अयनं पुनराख्यातमेतद्योगस्य योगिभि: ।
संख्यातधर्मै: सांख्यैश्च मुक्तैर्मोक्षस्य चायनम् ॥१५१॥
सर्वं कारणवद्दु:खमस्वं चानित्यमेव च ।
न चात्मकृतकं तद्धि तत्र चोत्पद्यते स्वता ॥१५२॥
यावन्नोत्पद्यते सत्या बुद्धिर्नैतदहं यया ।
नैतन्ममेति विज्ञाय ज्ञ: सर्वमतिवर्तते ॥१५३॥
तस्मिश्चरमसंन्यासे समूला: सर्ववेदना: ।
ससंज्ञाज्ञानविज्ञाना निवृत्तिं यान्त्यशेषत: ॥१५४॥
अत: परं ब्रह्मभूतो नोपलभ्यते ।
नि:सृत: सर्वभावेभ्यश्चिह्नं यस्य न विद्यते ॥
ज्ञानं ब्रह्माविदां चात्र भूतात्मा नाज्ञस्तज्ज्ञातुमर्हति ॥१५५॥
तत्र श्लोक:–
प्रश्ना: पुरुषमाश्रित्य त्रयोविंशतिरुत्तमा: ।
कतिधापुरुषीयेऽस्मिन्निर्णीतास्तत्त्वदर्शिना ॥१५६॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने कतिधापुरुषीयं शारीरं
नाम प्रथमोऽध्याय: ॥१॥
Last updated on May 21st, 2021 at 11:39 am