विषय सूची पर जायें

35. मुखमण्डिकाप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

पञ्चत्रिंशत्तमोऽध्यायः ।

अथातो मुखमण्डिकाप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

कपित्थबिल्वतर्कारीवांशीगन्धर्वहस्तकाः |
कुबेराक्षी च योज्याः स्युर्बालानां परिषेचने ||३||

स्वरसैर्भृङ्गवृक्षाणां तथाऽजहरिगन्धयोः |
तैलं वसां च संयोज्य पचेदभ्यञ्जने शिशोः ||४||

मधूलिकायां पयसि तुगाक्षीर्यां गणे तथा |
मधुरे पञ्चमूले च कनीयसि घृतं पचेत् ||५||

वचा सर्जरसः कुष्ठं सर्पिश्चोद्धूपनं हितम् |
धारयेदपि जिह्वाश्च चाषचीरल्लिसर्पजाः ||६||

वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा |
मनःशिलां चोपहरेद्गोष्ठमध्ये बलिं तथा ||७||

पायसं सपुरोडाशं बल्यर्थमुपसंहरेत् |
मन्त्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम् ||८||

अलङ्कृता रूपवती सुभगा कामरूपिणी |
गोष्ठमध्यालयरता पातु त्वां मुखमण्डिका ||९||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे मुखमण्डिकाप्रतिषेधो नाम(नवमोऽध्यायः, आदितः) पञ्चत्रिंशत्तमोऽध्यायः ||३५||

Last updated on July 8th, 2021 at 11:59 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi