विषय सूची पर जायें

45. रक्तपित्तप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

पञ्चचत्वारिंशत्तमोऽध्यायः ।

अथातो रक्तपित्तप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

क्रोधशोकभयायासविरुद्धान्नातपानलान् |
कट्वम्ललवणक्षारतीक्ष्णोष्णातिविदाहिनः ||३||

नित्यमभ्यसतो दुष्टो रसः पित्तं प्रकोपयेत् |
विदग्धं स्वगुणैः पित्तं विदहत्याशु शोणितम् ||४||

ततः प्रवर्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा |
आमाशयाद्व्रजेदूर्ध्वमधः पक्वाशयाद्व्रजेत् ||५||

विदग्धयोर्द्वयोश्चापि द्विधाभागं प्रवर्तते |
केचित् सयकृतः प्लीह्नः प्रवदन्त्यसृजो गतिम् ||६||

ऊर्ध्वं साध्यमधोयाप्यमसाध्यं युगपद्गतम् |
सदनं शीतकामित्वं कण्ठधूमायनं वमिः ||७||

लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति |
बाह्यासृग्लक्षणैस्तस्य सङ्ख्यादोषोच्छ्रितीर्विदुः ||८||

दौर्बल्यश्वासकासज्वरवमथुमदास्तन्द्रितादाहमूर्च्छा
भुक्ते चान्ने विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा |

तृष्णा कण्ठस्य भेदः शिरसि च दवनं पूतिनिष्ठीवनं च
द्वेषो भक्तेऽविपाको विरतिरपि रते रक्तपित्तोपसर्गाः ||९||

मांसप्रक्षालनाभं क्वथितमिव च यत् कर्दमाम्भोनिभं वा
मेदःपूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम् |

यत् कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारास्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति ||१०||

नादौ सङ्ग्राह्यमुद्रिक्तं यदसृग्बलिनोऽश्नतः |
तत् पाण्डुग्रहणीकुष्ठप्लीहगुल्मज्वरावहम् ||११||

अधःप्रवृत्तं वमनैरूर्ध्वगं च विरेचनैः |
जयेदन्यतरद्वाऽपि क्षीणस्य शमनैरसृक् ||१२||

अतिप्रवृद्धदोषस्य पूर्वं लोहितपित्तिनः |
अक्षीणबलमांसाग्नेः कर्तव्यमपतर्पणम् ||१३||

लङ्घितस्य ततः पेयां विदध्यात् स्वल्पतण्डुलाम् |
रसयूषौ प्रदातव्यौ सुराभिस्नेहसंस्कृतौ |
तर्पणं पाचनं लेहान् सर्पींषि विविधानि च ||१४||

द्रक्षामधुककाश्मर्यसितायुक्तं विरेचनम् |
यष्टीमधुकयुक्तं च सक्षौद्रं वमनं हितम् ||१५||

पयांसि शीतानि रसाश्च जाङ्गलाः सतीनयूषाश्च सशालिषष्टिकाः |
पटोलशेलूसुनिषण्णयूथिकावटातिमुक्ताङ्कुरसिन्दुवारजम् ||१६||

हितं च शाकं घृतसंस्कृतं सदा तथैव धात्रीफलदाडिमान्वितम् |
रसाश्च पारावतशङ्खकूर्मजास्तथा यवाग्वो विहिता घृतोत्तराः ||१७||

सन्तानिकाश्चोत्पलवर्गसाधिते क्षीरे प्रशस्ता मधुशर्करोत्तराः |
हिमाः प्रदेहा मधुरा गणाश्च ये घृतानि पथ्यानि रक्तपित्तिनाम् ||१८||

मधूकशोभाञ्जनकोविदारजैः प्रियङ्गुकायाः कुसुमैश्च चूर्णितैः |
भिषग्विदध्याच्चतुरः समाक्षिकान् हिताय लेहानसृजः प्रशान्तये ||१९||

लिह्याच्च दूर्वावटजांश्च पल्लवान् मधुद्वितीयान् सितकर्णिकस्य च |
हितं च खर्जूरफलं समाक्षिकं फलानि चान्यान्यपि तद्गुणान्यथ ||२०||

रक्तातिसारप्रोक्तांश्च योगानत्रापि योजयेत् |
शुद्धेक्षुकाण्डमापोथ्य नवे कुम्भे हिमाम्भसा ||२१||

योजायित्वा क्षिपेद्रात्रावाकाशे सोत्पलं तु तत् |
प्रातः स्रुतं क्षौद्रयुतं पिबेच्छोणितपित्तवान् ||२२||

पिबेच्छीतकषायं वा जम्ब्वाम्रार्जुनसम्भवम् |
उदुम्बरफलं पिष्ट्वा पिबेत्तद्रसमेव वा ||२३||

त्रपुषीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना |
पिबेदक्षसमं कल्कं यष्टीमधुकमेव वा ||२४||

चन्दनं मधुकं रोध्रमेवमेव समं पिबेत् |
करञ्जबीजमेवं वा सिताक्षौद्रयुतं पिबेत् ||२५||

मज्जानमिङ्गुदयस्यैवं पिबेन्मधुकसंयुतम् |
सुखोष्णं लवणं बीजं कारञ्जं दधिमस्तुना ||२६||

पिबेद्वाऽपि त्र्यहं मर्त्यो रक्तपित्ताभिपीडितः |
रक्तपित्तहराः शस्ताः षडेते योगसत्तमाः ||२७||

पथ्याश्चैवावपीडेषु घ्राणतः प्रस्रुतेऽसृजि |
अतिनिस्रुतरक्तो वा क्षौद्रयुक्तं पिबेदसृक् |
यकृद्वा भक्षयेदाजमामं पित्तसमायुतम् ||२८||

पलाशवृक्षस्वरसे विपक्वं सर्पिः पिबेत् क्षौद्रयुतं सुशीतम् |
वनस्पतीनां स्वरसैः कृतं वा सशर्करं क्षीरघृतं पिबेद्वा ||२९||

द्राक्षामुशीराण्यथ पद्मकं सिता पृथक्पलांशान्युदके समावपेत् |
स्थितं निशां तद्रुधिरामयं जयेत् पीतं पयो वाऽम्बुसमं हिताशिनः ||३०||

तुरङ्गवर्चःस्वरसं समाक्षिकं पिबेत् सिताक्षौद्रयुतं वृषस्य वा |
लिहेत्तथा वास्तुकबीजचूर्णं क्षौद्रान्वितं तण्डुलसाह्वयं वा ||३१||

लिह्याच्च लाजाञ्जनचूर्णमेकमेवं सिताक्षौद्रयुतां तुगाख्याम् |
द्राक्षां सितां तिक्तकरोहिणीं च हिमाम्बुना वा मधुकेन युक्ताम् ||३२||

पथ्यामहिंस्रां रजनीं घृतं च लिह्यात्तथा शोणितपित्तरोगी |
वासाकषायोत्पलमृत्प्रियङ्गुरोध्राञ्जनाम्भोरुहकेशराणि ||३३||

पीत्वा सिताक्षौद्रयुतानि जह्यात् पित्तासृजो वेगमुदीर्णमाशु |
गायत्रिजम्ब्वर्जुनकोविदारशिरीषरोध्राशनशाल्मलीनाम् ||३४||

पुष्पाणि शिग्रोश्च विचूर्ण्य लेहो मध्वन्वितः शोणितपित्तरोगे |
सक्षौद्रमिन्दीवरभस्मवारि करञ्जबीजं मधुसर्पिषी च ||३५||

जम्ब्वर्जुनाम्रक्वथितं च तोयं घ्नन्ति त्रयः पित्तमसृक् च योगाः |
मूलानि पुष्पाणि च मातुलुङ्ग्याः पिष्ट्वा पिबेत्तण्डुलधावनेन ||३६||

घ्राणप्रवृत्ते जलमाशु देयं सशर्करं नासिकया पयो वा |
द्राक्षारसं क्षीरघृतं पिबेद्वा सशर्करं चेक्षुरसं हिमं वा ||३७||

शीतोपचारं मधुरं च कुर्याद्विशेषतः शोणितपित्तरोगे |
द्राक्षाघृतक्षौद्रसितायुतेन विदारिगन्धादिविपाचितेन ||३८||

क्षीरेण चास्थापनमग्र्यमुक्तं हितं घृतं चाप्यनुवासनार्थम् |
प्रियङ्गुरोध्राञ्जनगैरिकोत्पलैः सुवर्णकालीयकरक्तचन्दनैः ||३९||

सिताश्वगन्धाम्बुदयष्टिकाह्वयैर्मृणालसौगन्धिकतुल्यपेषितैः |
निरूह्य चैनं पयसा समाक्षिकैर्घृतप्लुतैः शीतजलावसेचितम् ||४०||

क्षीरौदनं भुक्तमथानुवासयेद्घृतेन यष्टीमधुसाधितेन च |
अधोवहं शोणितमेष नाशयेत्तथाऽतिसारं रुधिरस्य दुस्तरम् ||४१||

विरेकयोगे त्वति चैव शस्यतेवाम्यश्च रक्ते विजिते बलान्वितः ||४२||

एवंविधा उत्तरबस्तयश्च मूत्राशयस्थे रुधिरे विधेयाः |४३|
प्रवृत्तरक्तेषु च पायुजेषु कुर्याद्विधानं खलु रक्तपैत्तम् ||४३||

विधिश्चासृग्दरेऽप्येष स्त्रीणां कार्यो विजानता |
शस्त्रकर्मणि रक्तं च यस्यातीव प्रवर्तते ||४४||

त्रयाणामपि दोषाणां शोणितेऽपि च सर्वशः |
लिङ्गान्यालोक्य कर्तव्यं चिकित्सितमनन्तरम् ||४५||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे रक्तपित्तप्रतिषेधो नाम (सप्तमोऽध्यायः, आदितः) पञ्चचत्वारिंशत्तमोऽध्यायः ||४५||

Last updated on July 8th, 2021 at 12:06 pm

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi