चरकसंहिता
कल्पस्थानम् ।
चतुर्थोऽध्याय: ।
अथातो धामार्गवकल्पं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
कर्कोटकी कोठफला महाजालिनिरेव च ।
धामार्गवस्य पर्याया राजकोशातकी तथा ॥३॥
गरे गुल्मोदरे कासे वाते श्लेष्माशयस्थिते ।
कफे च कण्ठवक्त्रस्थे कफसंचयजेषु च ॥४॥
रोगेष्वेषु प्रयोज्यं स्यात् स्थिराश्च गुरवश्च ये ।
फलं पुष्पं प्रवालं च विधिना तस्य संहरेत् ॥५॥
प्रवालस्वरसं शुष्कं कृत्वा च गुलिका: पृथक् ।
कोविदारादिभि: पेया: कषायैर्मधुकस्य च ॥६॥
पुष्पादिषु पयोयोगाश्चत्वार: पञ्चमी सुरा ।
पूर्ववत् जीर्णशुष्काणामत: कल्प: प्रवक्ष्यते ॥७॥
मधुकस्य कषायेण बीजकण्ठोद्धृतं फलम् ।
सगुडं व्युषितं रात्रिं कोविदारादिभिस्तथा ॥८॥
दद्याद्गुल्मोदरार्तेभ्यो ये चाप्यन्ये कफामया: ।
दद्यादन्नेन संयुक्तं छर्दिहृद्रोगशान्तये ॥९॥
चूर्णैर्वाऽप्युत्पलादीनि भावितानि प्रभूतश: ।
रसक्षीरयवाग्वादितृप्तो घ्रात्वा वमेत् सुखम् ॥१०॥
चूर्णीकृतस्य वर्तिं वा कृत्वा बदरसंमिताम् ।
विनीयाञ्जलिमात्रे तु पिबेद्गोऽश्वशकृद्रसे ॥११॥
पृषतर्ष्यकुरङ्गाह्वगजोष्ट्राश्वतराविके ।
श्वदंष्ट्रखरखड्गानां चैवं पेया शकृद्रसे ॥१२॥
जीवकर्षभकौ वीरामात्मगुप्तां शतावरीम् ।
काकोलीं श्रावणीं मेदां महामेदां मधूलिकाम् ॥१३॥
एकैकशोऽभिसंचूर्ण्य सह धामार्गवेण ते ।
शर्करामधुसंयुक्ता लेहा हृद्दाहकासिनाम् ॥१४॥
सुखोदकानुपाना: स्यु: पित्तोष्मसहिते कफे ।
धान्यतुम्बुरुयूषेण कल्क: सर्वविषापह: ॥१५॥
जात्या: सौमनसायिन्या रजन्याश्चोरकस्य च ।
वृश्चीरस्य महाक्षुद्रसहाहैमवतस्य च ॥१६॥
बिम्ब्या: पुनर्नवाया वा कासमर्दस्य वा पृथक् ।
एकं धामार्गवं द्वे वा कषाये परिमृद्य तु ॥१७॥
पूतं मनोविकारेषु पिबेद्वमनमुत्तमम् ।
तच्छृतक्षीरजं सर्पि: साधितं वा फलादिभि: ॥१८॥
तत्र श्लोकौ–
पल्लवे नव चत्वार: क्षीर एक: सुरासवे ।
कषाये विंशति: कल्के दश द्वौ च शकृद्रसे ॥१९॥
अन्न एकस्तथा घ्रेये दश लेहास्तथा घृतम् ।
कल्पे धामार्गवस्योक्ता: षष्टिर्योगा महर्षिणा ॥२०॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते
कल्पस्थाने धामार्गवकल्पो नाम चतुर्थोऽध्याय: ॥४॥
Last updated on July 2nd, 2021 at 08:59 am