चरकसंहिता
सिद्धिस्थानम् ।
चतुर्थोऽध्याय: ।
अथात: स्नेहव्यापत्सिद्धिं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
स्नेहबस्तीन्निबोधेमान् वातपित्तकफापहान् ।
मिथ्याप्रणिहितानां च व्यापद: सचिकित्सिता: ॥३॥
दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम् ।
गुडूच्येरण्डभूतीकभार्गीवृषकरोहिषम् ॥४॥
शतावरीं सहचरं काकनासां पलांशिकम् ।
यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान् ॥५॥
चतुर्द्रोणेऽम्भस: पक्त्वा द्रोणशेषेण तेन च ।
तैलाढकं समक्षीरं जीवनीयै: पलोन्मितै: ॥६॥
अनुवासनमेतद्धि सर्ववातविकारनुत् ।
आनूपानां वसा तद्वज्जीवनीयोपसाधिता ॥७॥
शताह्वायवबिल्वाम्लै: सिद्धं तैलं समीरणे ।
सैन्धवेनाग्नितप्तेन तप्तं चानिलनुद्धृतम् ॥८॥
जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम् ।
शताह्वर्षभकौ कृष्णां काकनासां शतावरीम् ॥९॥
स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शटीं वचाम् ।
पिष्ट्वा तैलं घृतं क्षीरे साधयेत्तच्चतुर्गुणे ॥१०॥
बृंहणं वातपित्तघ्नं बलशुक्राग्निवर्धनम् ।
मूत्ररेतोरजोदोषान् हरेत्तदनुवासनम् ॥११॥
लाभतश्चन्दनाद्यैश्च पिष्टै: क्षीरचतुर्गुणम् ।
तैलपादं घृतं सिद्धं पित्तघ्नमनुवासनम् ॥१२॥
सैन्धवं मदनं कुष्ठं शताह्वां निचुलं वचाम् ।
ह्रीवेरं मधुकं भार्गीं देवदारु सकट्फलम् ॥१३॥
नागरं पुष्करं मेदां चविकां चित्रकं शटीम् ।
विडङ्गातिविषे श्यामां हरेणुं नीलिनीं स्थिराम् ॥१४॥
बिल्वाजमोदे कृष्णां च दन्तीं रास्नां च पेषयेत् ।
साध्यमेरण्डजं तैलं तैलं वा कफरोगनुत् ॥१५॥
ब्रध्नोदावर्तगुल्मार्श:प्लीहमेहाढ्यमारुतान् ।
आनाहमश्मरीं चैव हन्यात्तदनुवासनात् ॥१६॥
मदनैर्वाऽम्लसंयुक्तैर्बिल्वाद्येन गणेन वा ।
तैलं कफहरैर्वाऽपि कफघ्नं कल्पयेद्भिषक् ॥१७॥
विडङ्गैरण्डरजनीपटोलत्रिफलामृता: ।
जातीप्रवालनिर्गुण्डीदशमूलाखुपर्णिका: ॥१८॥
निम्बपाठासहचरशम्पाककरवीरका: ।
एषां क्वाथेन विपचेत्तैलमेभिश्च कल्कितै: ॥१९॥
फलबिल्वत्रिवृत्कृष्णारास्नाभूनिम्बदारुभि: ।
सप्तपर्णवचोशीरदार्वीकुष्ठकलिङ्गकै: ॥२०॥
लतागौरीशताह्वाग्निशटीचोरकपौष्करै: ।
तत् कुष्ठानि क्रिमीन् मेहानर्शांसि ग्रहणीगदम् ॥२१॥
क्लीबतां विषमाग्नित्वं मलं दोषत्रयं तथा ।
प्रयुक्तं प्रणुदत्याशु पानाभ्यङ्गानुवासनै: ॥२२॥
व्याधिव्यायामकर्माध्वक्षीणाबलनिरोजसाम् ।
क्षीणशुक्रस्य चातीव स्नेहबस्तिर्बलप्रद: ॥२३॥
पादजङ्घोरुपृष्ठांसकटीनां स्थिरतां पराम् ।
जनयेदप्रजानां च प्रजां स्त्रीणां तथा नृणाम् ॥२४॥
वातपित्तकफात्यन्नपुरीषैरावृतस्य च ।
अभुक्ते च प्रणीतस्य स्नेहबस्ते: षडापद: ॥२५॥
शीतोऽल्पो वाऽधिके वाते पित्तेऽत्युष्ण: कफे मृदु: ।
अतिभुक्ते गुरुर्वर्च:संचयेऽल्पबलस्तथा ॥२६॥
दत्तस्तैरावृत: स्नेहो न यात्यभिभवादपि ।
अभुक्तेऽनावृतत्वाच्च यात्यूर्ध्वं तस्य लक्षणम् ॥२७॥
अङ्गमर्दज्वराध्मानशीतस्तम्भोरुपीडनै: ।
पार्श्वरुग्वेष्टनैर्विद्यात् स्नेहं वातावृतं भिषक् ॥२८॥
स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकै: ।
सौवीरकसुराकोलकुलत्थयवसाधितै: ॥२९॥
निरूहैर्निर्हरेत् सम्यक् समूत्रै: पाञ्चमूलिकै: ।
ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत् ॥३०॥
दाहरागतृषामोहतमकज्वरदूषणै: ।
विद्यात् पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत् ॥३१॥
तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवै: ।
संमूर्च्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम् ॥३२॥
कषायकटुतीक्ष्णोष्णै: सुरामूत्रोपसाधितै: ।
फलतैलयुतै: साम्लैर्बस्तिभिस्तं विनिर्हरेत् ॥३३॥
छर्दिमूर्च्छारुचिग्लानिशूलनिद्राङ्गमर्दनै: ।
आमलिङ्गै: सदाहैस्तं विद्यादत्यशनावृतम् ॥३४॥
कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम् ।
विरेको मृदुरत्रामविहिता च क्रिया हिता ॥३५॥
विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहै: ।
स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदै: सवर्तिभि: ॥३६॥
श्यामाबिल्वादिसिद्धैश्च निरूहै: सानुवासनै: ।
निर्हरेद्विधिना सम्यगुदावर्तहरेण च ॥३७॥
अभुक्ते शून्यपायौ वा वेगात् स्नेहोऽतिपीडित: ।
धावत्यूर्ध्वं तत: कण्ठादूर्ध्वेभ्य: खेभ्य एत्यपि ॥३८॥
मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान् ।
तत्सिद्धतैल इष्टोऽत्र निरूह: सानुवासन: ॥३९॥
कण्ठादागच्छत: स्तम्भकण्ठग्रहविरेचनै: ।
छर्दिघ्नीभि: क्रियाभिश्च तस्य कार्यं निवर्तनम् ॥४०॥
यस्य नोपद्रवं कुर्यात् स्नेहबस्तिरनि:सृत: ।
सर्वोऽल्पो वाऽऽवृतो रौक्ष्यादुपेक्ष्य: स विजानता ॥४१॥
युक्तस्नेहं द्रवोष्णं च लघुपथ्योपसेवनम् ।
भुक्तवान् मात्रया भोज्यमनुवास्यस्त्र्यहात् त्र्यहात् ॥४२॥
धान्यनागरसिद्धं हि तोयं दद्याद्विचक्षण: ।
व्युषिताय निशां कल्यमुष्णं वा केवलं जलम् ॥४३॥
स्नेहाजीर्णं जरयति श्र्लेष्माणं तद्भिनत्ति च ।
मारुतस्यानुलोम्यं च कुर्यादुष्णोदकं नृणाम् ॥४४॥
वमने च विरेके च निरूहे सानुवासने ।
तस्मादुष्णोदकं देयं वातश्लेष्मोपशान्तये ॥४५॥
रूक्षनित्यस्तु दीप्ताग्निर्व्यायामी मारुतामयी ।
वङ्क्षणश्रोण्युदावृत्तवाताश्चार्हा दिने दिने ॥४६॥
एषां चाशु जरां स्नेहो यात्यम्बु सिकतास्विव ।
अतोऽन्येषां त्र्यहात् प्राय: स्नेहं पचति पावक: ॥४७॥
न त्वामं प्रणयेत् स्नेहं स ह्यभिष्यन्दयेद्गुदम् ।
सावशेषं च कुर्वीत वायु: शेषे हि तिष्ठति ॥४८॥
न चैव गुदकण्ठाभ्यां दद्यात् स्नेहमनन्तरम् ।
उभयस्मात् समं गच्छन् वातमग्निं च दूषयेत् ॥४९॥
स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत् ।
उत्क्लेशाग्निवधौ स्नेहान्निरूहात् पवनाद्भयम् ॥५०॥
तस्मान्निरूढ: संस्नेह्यो निरूह्यश्चानुवासित: ।
स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषनुत् ॥५१॥
कर्मव्यायामभाराध्वया(पा)नस्त्रीकर्षितेषु च ।
दुर्बले वातभग्ने च मात्राबस्ति: सदा मत: ॥५२॥
यथेष्टाहारचेष्टस्य सर्वकालं निरत्यय: ।
ह्रस्वाया: स्नेहमात्राया मात्राबस्ति: समो भवेत् ॥५३॥
बल्यं सुखोपचर्यं च सुखं सृष्टपुरीषकृत् ।
स्नेहमात्राविधानं हि बृंहणं वातरोगनुत् ॥५४॥
तत्र श्र्लोकौ–
वातादीनां शमायोक्ता: प्रवरा: स्नेहबस्तय:।
तेषां चाज्ञप्रयुक्तानां व्यापद: सचिकित्सिता: ॥५५॥
प्राग्भोज्यं स्नेहबस्तेर्यद् ध्रुवं येऽर्हास्त्र्यहाच्च ये।
स्नेहबस्तिविधिश्चोक्तो मात्राबस्तिविधिस्तथा ॥५६॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते
दृढबलसंपूरिते सिद्धिस्थाने स्नेहव्यापत्सिद्धिर्नाम
चतुर्थोऽध्याय: ॥४॥
Last updated on July 5th, 2021 at 08:58 am