चरकसंहिता
कल्पस्थानम् ।
अष्टमोऽध्याय: ।
अथातश्चतुरङ्गुलकल्पं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
आरग्वधो राजवृक्ष: शम्पाकश्चतुरङ्गुल: ।
प्रग्रह: कृतमालश्च कर्णिकारोऽवघातक: ॥३॥
ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु ।
राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतल: ॥४॥
बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे ।
योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुल: ॥५॥
फलकाले फलं तस्य ग्राह्यं परिणतं च यत् ।
तेषां गुणवतां भारं सिकतासु निधापयेत् ॥६॥
सप्तरात्रात् समुद्धृत्य शोषयेदातपे भिषक् ।
ततो मज्जानमुद्धृत्य शुचौ भाण्डे निधापयेत् ॥७॥
द्राक्षारसयुतं दद्याद्दाहोदावर्तपीडिते ।
चतुर्वर्षमुखे बाले यावद्द्वादशवार्षिके ॥८॥
चतुरङ्गुलमज्ज्ञस्तु प्रसृतं वाऽथवाऽञ्जलिम् ।
सुरामण्डेन संयुक्तमथवा कोलसीधुना ॥९॥
दधिमण्डेन वा युक्तं रसेनामलकस्य वा ।
कृत्वा शीतकषायं तं पिबेत् सौवीरकेण वा ॥१०॥
त्रिवृतो वा कषायेण मज्ज्ञ: कल्कं तथा पिबेत् ।
तथा बिल्वकषायेण लवणक्षौद्रसंयुतम् ॥११॥
कषायेणाथवा तस्य त्रिवृच्चूर्णं गुडान्वितम् ।
साधयित्वा शनैर्लेहं लेहयेन्मात्रया नरम् ॥१२॥
चतुरङ्गुलसिद्धाद्वा क्षीराद्यदुदियाद्घृतम् ।
मज्ज्ञ: कल्केन धात्रीणां रसे तत्साधितं पिबेत् ॥१३॥
तदेव दशमूलस्य कुलत्थानां यवस्य च ।
कषाये साधितं सर्पि: कल्कै: श्यामादिभि: पिबेत् ॥१४॥
दन्तीक्वाथेऽञ्जलिं मज्ज्ञ: शम्पाकस्य गुडस्य च ।
दत्त्वा मासार्धमासस्थमरिष्टं पाययेत च ॥१५॥
यस्य यत् पानमन्नं च हृद्यं स्वाद्वथ वा कटु ।
लवणं वा भवेत्तेन युक्तं दद्याद्विरेचनम् ॥१६॥
तत्र श्लोका:–
द्राक्षारसे सुरासीध्वोर्दध्नि चामलकीरसे ।
सौवीरके कषाये च त्रिवृतो बिल्वकस्य च ॥१७॥
लेहेऽरिष्टे घृते द्वे च योगा द्वादश कीर्तिता: ।
चतुरङ्गुलकल्पेऽस्मिन् सुकुमारा: सुखोदया: ॥१८॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते
कल्पस्थाने चतुरङ्गुलकल्पो
नामाष्टमोऽध्याय: ॥८॥
Last updated on July 2nd, 2021 at 09:51 am