विषय सूची पर जायें

10. ग्रहणी दोष चिकित्सा - चिकित्सा - अ.हृ"

अष्टाङ्गहृदये (चिकित्सितस्थानम्‌)

ग्रहणीदोषचिकित्सितं दशमोऽध्यायः।

अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

ग्रहणीमाश्रितं दोषमजीर्णवदुपाचरेत्‌।

अतीसारोक्तविधिना तस्यामं च विपाचयेत्‌॥१॥

अन्नकाले यवाग्वादि पञ्चकोलादिभिर्युतम्‌।

वितरेत्पटुलघ्वन्नं पुनर्योगांश्च दीपनान्‌॥२॥

दद्यात्सातिविषां पेयामामे साम्लां सनागराम्‌।

पानेऽतीसारविहितं वारि तक्रं सुरादि च॥३॥

ग्रहणीदोषिणां तक्रं दीपनग्राहिलाघवात्‌।

पथ्यं, मधुरपाकित्वान्न च पित्तप्रदूषणम्‌॥४॥

कषायोष्णविकाशित्वाद्रूक्षत्वाच्च कफे हितम्‌।

वाते स्वाद्वम्लसान्द्रत्वात्सद्यस्कमविदाहि तत्‌॥५॥

चतुर्णां प्रस्थमम्लानां त्र्यूषणाच्च, पलत्रयम्‌।

लवणानां च चत्वारि शर्करायाः पलाष्टकम्‌॥६॥

तच्चूर्णं शाकसूपान्नरागादिष्ववचारयेत्‌।

कासाजीर्णारुचिश्वासहृत्पाण्डुप्लीहगुल्मनुत्‌॥७॥

नागरातिविषामुस्तं पाक्यमामहरं पिबेत्‌।

उष्णाम्बुना वा तत्कल्कं नागरं वाऽथवाऽभयाम्‌॥८॥

ससैन्धवं वचादिं वा तद्वन्मदिरयाऽथवा।

वर्चस्यामे सप्रवाहे पिबेद्वा दाडिमाम्बुना॥९॥

बिडेन लवणं पिष्टं बिल्वचित्रकनागरम्‌।

सामे कफानिले कोष्ठरुक्करे कोष्णवारिणा॥१०॥

कलिङ्गहिङ्‌ग्वतिविषावचासौवर्चलाभयम्‌।

छर्दिहृद्रोगशूलेषु पेयमुष्णेन वारिणा॥११॥

पथ्यासौवर्चलाजाजीचूर्ण मरिचसंयुतम्‌।

पिप्पलीं नागरं पाठां सारिवां बृहतीद्वयम्‌॥१२॥

चित्रकं कौटजं क्षारं तथा लवणपञ्चकम्‌।

चूर्णीकृतं दधिसुरातन्मण्डोष्णाम्बुकाञ्जिकैः॥१३॥

पिबेदग्निविवृद्ध्यर्थं कोष्ठवातहरं परम्‌।

पटूनि पञ्च द्वौ क्षारौ मरिचं पञ्चकोलकम्‌॥१४॥

दीप्यकं हिङ्गु गुलिका बीजपूररसे कृता।

कोलदाडिमतोये वा परं पाचनदीपनी॥१५॥

तालीसपत्रचविकामरिचानां पलं पलम्‌।

कृष्णातन्मूलयोर्द्वे द्वे पले शुण्ठी पलत्रयम्‌॥१६॥

चतुर्जातमुशीरं च कर्षांशं श्लक्ष्णचूर्णितम्‌।

गुडेन वटकान्‌ कृत्वा त्रिगुणेन सदा भजेत्‌॥१७॥

मद्ययूषरसारिष्टमस्तुपेयापयोनुपः।

वातश्लेष्मात्मनां छर्दिग्रहणीपार्श्वहृद्रुजाम्‌॥१८॥

ज्वरश्वयथुपाण्डुत्वगुल्मपानात्ययार्शसाम्‌।

प्रसेकपीनसश्वासकासानां च निवृत्तये॥१९॥

अभयां नागरस्थाने दद्यात्तत्रैव विड्‌ग्रहे।

छर्द्यादिषु च पैत्तेषु चतुर्गुणसितान्विताः॥२०॥

पक्वेन वटकाः कार्या गुडेन सितयाऽपि वा।

परं हि वह्निसम्पर्काल्लघिमानं भजन्ति ते॥२१॥

अथैनं परिपक्वामं मारुतग्रहणीगदम्‌।

दीपनीययुतं सर्पिः पाययेदल्पशो भिषक्‌॥२२॥

किञ्जित्सन्धुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम्‌।

हं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत्‌॥२३॥

तत एरण्डतैलेन सर्पिषा तैल्वकेन वा।

सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत्‌॥२४॥

शुद्धरूक्षाशयं बद्धवर्चस्कं चानुवासयेत्‌।

दीपनीयाम्लवातघ्नसिद्धतैलेन तं ततः॥२५॥

निरूढं च विरिक्तं च सम्यक्चाप्यनुवासितम्‌।

लघ्वन्नप्रतिसंयुक्तं सर्पिरभ्यासयेत्पुनः॥२६॥

पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः।

रास्नाक्षारद्वयाजाजीविडङ्गशठिभिर्घृतम्‌॥२७॥

शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्रकस्य च।

शुष्कमूलककोलाम्लचुक्रिकादाडिमस्य च॥२८॥

तक्रमस्तुसुरामण्डसौवीरकतुषोदकैः।

काञ्जिकेन च तत्पक्वमग्निदीप्तिकरं परम्‌॥२९॥

शूलगुल्मोदरश्वासकासानिलकफापहम्‌।

सबीजपूरकरसं सिद्धं वा पाययेद्घृतम्‌॥३०॥

तैलमभ्यञ्जनार्थं सिद्धमेभिश्चलाऽपहम्‌।

एतेषामौषधानां वा पिबेच्चूर्णं सुखाम्बुना॥३१॥

वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते।

अग्नेर्निर्वापकं पित्तं रेकेण वमनेन वा॥३२॥

हत्वा तिक्तलघुग्राहिदीपनैरविदाहिभिः।

अन्नैः सन्धुक्षयेदग्निं चूर्णैः स्नेहैश्च तिक्तकैः॥३३॥

पटोलनिम्बत्रायन्तीतिक्तातिक्तकपर्पटम्‌।

कुटजत्वक्फलं मूर्वा मधुशिग्रुफलं वचा॥३४॥

दार्वीत्वक्पद्मकोशीरयवानीमुस्तचन्दनम्‌।

सौराष्ट्र्यतिविषाव्योषत्वगेलापत्रदारु च॥३५॥

चूर्णितं मधुना लेह्यं पेयं मद्यैर्जलेन वा।

हृत्पाण्डुग्रहणीरोगगुल्मशूलारुचिज्वरान्‌॥३६॥

कामलां सन्निपातं च मुखरोगांश्च नाशयेत्‌।

भूनिम्बकटुकामुस्तात्र्यूषणेन्द्रयवान्‌ समान्‌॥३७॥

द्वौ चित्रकाद्वत्सकत्वग्भागान्‌ षोडश चूर्णयेत्‌।

गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत्‌॥३८॥

कामलाज्वरपाण्डुत्वमेहारुच्यतिसारजित्‌।

नागरातिविषामुस्तापाठाबिल्वं रसाञ्जनम्‌॥३९॥

कुटजत्वक्फलं तिक्ता धातकी च कृतं रजः।

क्षौद्रतण्डुलवारिभ्यां पैत्तिके ग्रहगणीगदे॥४०॥

प्रवाहिकार्शोगुदरुग्रक्तोत्थानेषु चेष्यते।

चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम्‌॥४१॥

षड्‌ग्रन्थासारिवास्फोतासप्तपर्णाटरूषकान्‌।

पटोलोदुम्बराश्वत्थवटप्लक्षकपीतनान्‌॥४२॥

कटुकां रोहिणीं मुस्तां निम्बं च द्विपलांशकान्‌।

द्रोणेऽपां साधयेत्तेन पचेत्सर्पिः पिचून्मितैः॥४३॥

किराततिक्तेन्द्रयववीरामागधिकोत्पलैः।

पित्तग्रहण्यां तत्पेयं कुष्ठोक्तं तिक्तकं च यत्‌॥४४॥

ग्रहण्यां श्लेष्मदुष्टायां तीक्ष्णैः प्रच्छर्दने कृते।

कट्वम्ललवणक्षारैः क्रमादग्निं विवर्धयेत्‌॥४५॥

पञ्चकोलाभयाधान्यपाठागन्धपलाशकैः।

बीजपूरप्रगाढैश्च सिद्धैः पेयादि कल्पयेत्‌॥४६॥

द्रोणं मधूकपुष्पाणां विडङ्गं च ततोऽर्धतः।

चित्रकस्य ततोऽर्धं च तथा भल्लातकाढकम्‌॥४७॥

मञ्जिष्ठाऽष्टपलं चैतज्जलद्रोणत्रये पचेत्‌।

द्रोणशेषं शृतं शीतं मध्वर्धाढकसंयुतम्‌॥४८॥

एलामृणालागुरुभिश्चन्दनेन च रूषिते।

कुम्भे मासं स्थितं जातमासवं तं प्रयोजयेत्‌॥४९॥

ग्रहणीं दीपयत्येष बृंहणः पित्तरक्तनुत्‌।

शोषकुष्ठकिलासानां प्रमेहाणां च नाशनः॥५०॥

मधूकपुष्पस्वरसं शृतमर्धक्षयीकृतम्‌।

क्षौद्रपादयुतं शीतं पूर्ववत्सन्निधापयेत्‌॥५१॥

तत्पिबन्‌ ग्रहणीदोषान्‌ जयेत्सर्वान्‌ हिताशनः।

तद्वद्‌द्राक्षेक्षुखर्जूरस्वरसानासुतान्‌ पिबेत्‌॥५२॥

हिङ्गुतिक्तावचामाद्रीपाठेन्द्रयवगोक्षुरम्‌।

पञ्चकोलं च कर्षांशं पलांशं पटुपञ्चकम्‌॥५३॥

घृततैलद्विकुडवे दध्न प्रस्थद्वये च तत्‌।

आपोश्य क्वाथयेदग्नौ मृदावनुगते रसे॥५४॥

अन्तर्धूमं ततो दग्ध्वा चूर्णीकृत्य घृताप्लुतम्‌।

पिबेत्पाणितलं तस्मिन्‌ जीर्णे स्यान्मधुराशनः॥५५॥

वातश्लेष्मामयान्‌ सर्वान्‌ हन्याद्विषगरांश्च सः।

भूनिम्बं रोहिणीं तिक्तां पटोलं निम्बपर्पटम्‌॥५६॥

दग्ध्वा माहिषमूत्रेण पिबेदग्निविवर्धनम्‌।

द्वे हरिद्रे वचा कुष्ठं चित्रकः कटुरोहिणी॥५७॥

मुस्ता च छागमूत्रेण सिद्धः क्षारोऽग्निवर्धनः।

चतुष्पलं सुधाकाण्डात्‌ त्रिपलं लवणत्रयात्‌॥५८॥

वार्ताककुडवं चार्कादष्टौ द्वे चित्रकात्पले।

दग्ध्वा रसेन वार्ताकाद्गुटिका भोजनोत्तराः॥५९॥

भुक्तमन्नं पचन्त्याशु कासश्वासार्शसां हिताः।

विसूचिकाप्रतिश्यायहृद्रोगशमनाश्च ताः॥६०॥

मातुलुङ्गशठीरास्नाकटुत्रयहरीतकी।

स्वर्जिकायावशूकाख्यौ क्षारौ पञ्चपटूनि च॥६१॥

सुखाम्बुपीतं तच्चूर्णं बलवर्णाग्निवर्धनम्‌।

श्लैष्मिके ग्रहणीदोषे सवाते तैर्घृतं पचेत्‌॥६२॥

धान्वन्तरं षट्‌पलं च भल्लातकघृताभयम्‌।

बिडकाचोषलवणस्वर्जिकायावशूकजान्‌॥६३॥

सप्तलां कण्टकारीं च चित्रकं चैकतो दहेत्‌।

सप्तकृत्वः स्रुतस्यास्य क्षारस्यार्धाढके पचेत्‌॥६४॥

आढकं सर्पिषः पेयं तदग्निबलवृद्धये।

निचये पञ्चकर्माणि युञ्ज्याच्चैतद्यथाबलम्‌॥६५॥

प्रसेके श्लैष्मिकेऽल्पाग्नेर्दीपनं रूक्षतिक्तकम्‌।

योज्यं कृशस्य व्यत्यासात्स्निग्धरूक्षं कफोदये॥६६॥

क्षीणक्षामशरीरस्य दीपनं स्नेहसंयुतम्‌।

दीपनं बहुपित्तस्य तिक्तं मधुरकैर्युतम्‌॥६७॥

स्नेहोऽम्ललवणैर्युक्तो बहुवातस्य शस्यते।

स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्‌॥६८॥

नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि।

योऽल्पाग्नित्वात्कफे क्षीणे वर्चः पक्वमपि श्लथम्‌॥६९॥

मुञ्चेत्पट्वौषधयुतं स पिबेदल्पशो घृतम्‌।

तेन स्वमार्गमानीतः स्वकर्मणि नियोजितः॥७०॥

समानो दीपयत्यग्निमग्नेः सन्धुक्षको हि सः।

पुरीषं यश्च कृच्छ्रेण कठिनत्वाद्विमुञ्चति॥७१॥

स घृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत्‌।

रौक्ष्यान्मन्देऽनले सर्पिस्तैलं वा दीपनैः पिबेत्‌॥७२॥

क्षारचूर्णासवारिष्टान्‌ मन्दे स्नेहातिपानतः।

उदावर्तात्तु योक्तव्या निरूहस्नेहबस्तयः॥७३॥

दोषातिवृद्ध्या मन्देऽग्नौ संशुद्धोऽन्नविधिं चरेत्‌।

व्याधिमुक्तस्य मन्देऽग्नौ सर्पिरेव तु दीपनम्‌॥७४॥

अध्वोपवासक्षामत्वैर्यवाग्वा पाययेद्घृतम्‌।

अन्नावपीडितं बल्यं दीपनं बृंहणं च तत्‌॥७५॥

दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान्नरान्‌।

प्रसहानां रसैः साम्लैर्भोजयेत्पिशिताशिनाम्‌॥७६॥

लघूष्णकटुशोधित्वाद्‌ दीपयन्त्याशु तेऽनलम्‌।

मांसोपचितमांसत्वात्परं च बलवर्धनाः॥७७॥

स्नेहासवसुरारिष्टचूर्णक्वाथहिताशनैः।

सम्यक्‌ प्रयुक्तैर्देहस्य बलमग्नेश्च वर्धते॥७८॥

दीप्तो यथैव स्थाणुश्च बाह्योऽग्निः सारदारुभिः।

सस्नेहैर्जायते तद्वदाहारैः कोष्ठगोऽनलः॥७९॥

नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्‌।

यथा निरिन्धनो वह्निरल्पो वाऽतीन्धनावृतः॥८०॥

यदा क्षीणे कफे पित्तं स्वस्थाने पवनानुगम्‌।

प्रवृद्धं वर्धयत्यग्निं तदाऽसौ सानिलोऽनलः॥८१॥

पक्त्वाऽन्नमाशु धातूंश्च सर्वानोजश्च सङ्क्षिपन्।

मारयेत्स्यात्स ना स्वस्थो भुक्ते जीर्णे तु ताम्यति॥८२॥

तृट्‌कासदाहमूर्च्छाद्या व्याधयोऽत्यग्निसम्भवाः।

तमत्यग्निं गुरुस्निग्धमन्दसान्द्रहिमस्थिरैः॥८३॥

अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः।

मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत्‌॥८४॥

निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत्‌।

कृशरां पायसं स्निग्धं पैष्टिकं गुडवैकृतम्‌॥८५॥

अश्नीयादौदकानूपपिशितानि भृतानि च।

मत्स्यान्‌ विशेषतः श्लक्ष्णान्‌ स्थिरतोयचराश्च ये॥८६॥

आविकं सुभृतं मांसमद्यादत्यग्निवारणम्‌।

पयः सहमधूच्छिष्टं घृतं वा तृषितः पिबेत्‌॥८७॥

गोधूमचूर्णं पयसा बहुसर्पिः परिप्लुतम्‌॥

आनूपरसयुक्तान्‌ वा स्नेहांस्तैलविवर्जितान्‌॥८८॥

श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्‌।

असकृत्पित्तहरणं पायसप्रतिभोजनम्‌॥८९॥

यत्किञ्चिद्गुरु मेद्यं च श्लेष्मकारि च भोजनम्‌।

सर्वं तदत्यग्निहितं भुक्त्वा च स्वपनं दिवा॥९०॥

आहारमग्निं  पचति दोषानाहारवर्जितः।

धातून्‌ क्षीणेषु दोषेषु जीवितं धातुसङ्‌क्षये॥९१॥

एतत्प्रकृत्यैव विरुद्धमन्नं

संयोगसंस्कारवशेन चेदम्‌।

इत्याद्यविज्ञाय यथेष्टचेष्टाश्चरन्ति

यत्साऽग्निबलस्य शक्तिः॥९२॥

तस्मादग्निं पालयेत्सर्वयत्नै-

स्तस्मिन्नष्टे याति ना नाशमेव।

दोषैर्ग्रस्ते ग्रस्यते रोगसङ्घै-

र्युक्ते तु स्यान्नीरुजो दीर्घजीवी॥९३॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने ग्रहणीदोषचिकित्सितं नाम दशमोऽध्यायः॥१०॥

Last updated on August 23rd, 2021 at 11:21 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi