चरकसंहिता
सिद्धिस्थानम् ।
तृतीयोऽध्याय: ।
अथातो बस्तिसूत्रीयां सिद्धिं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
कृतक्षणं शैलवरस्य रम्ये
स्थितं धनेशायतनस्य पार्श्वे ।
महर्षिसङ्घैर्वृतमग्निवेश:
पुनर्वसुं प्राञ्जलिरन्वपृच्छत् ॥३॥
बस्तिर्नरेभ्य: किमपेक्ष्य दत्त:
स्यात् सिद्धिमान् किम्मयमस्य नेत्रम् ।
कीदृक्प्रमाणाकृति किङ्गुणं च
केभ्यश्च किंयोनिगुणश्च बस्ति: ॥४॥
निरूहकल्प: प्रणिधानमात्रा
स्नेहस्य का वा शयने विधि: क: ।
के बस्तय: केषु हिता इतीदं
श्रुत्वोत्तरं प्राह वचो महर्षि: ॥५॥
समीक्ष्य दोषौषधदेशकालसात्म्याग्निसत्त्वादिवयोबलानि
बस्ति: प्रयुक्तो नियतं गुणाय
स्यात् सर्वकर्माणि च सिद्धिमन्ति ॥६॥
सुवर्णरूप्यत्रपुताम्ररीतिकांस्यास्थिशस्त्रद्रुमवेणुदन्तै:
नलैर्विषाणैर्मणिभिश्च तैस्तैर्नेत्राणि कार्याणि
सु(त्रि)कर्णिकानि ॥७॥
षड्द्वादशाष्टाङ्गुलसंमितानि
षड्विंशतिद्वादशवर्षजानाम् ।
स्युर्मुद्गकर्कन्धुसतीनवाहिच्छिद्राणि वर्त्याऽपिहितानि चैव ॥८॥
यथावयोऽङ्गुष्ठकनिष्ठिकाभ्यां
मूलाग्रयो: स्यु: परिणाहवन्ति ।
ऋजूनि गोपुच्छसमाकृतीनि
श्लक्ष्णानि च स्युर्गुडिकामुखानि ॥९॥
स्यात् कर्णिकैकाऽग्रचतुर्थभागे
मूलाश्रिते बस्तिनिबन्धने द्वे ।
जारद्गवो माहिषहारिणौ वा
स्याच्छौकरो बस्तिरजस्य वाऽपि ॥१०॥
दृढस्तनुर्नष्टसिरो विगन्ध:
कषायरक्त: सुमृदु: सुशुद्ध: ।
नृणां वयो वीक्ष्य यथानुरूपं
नेत्रेषु योज्यस्तु सुबद्धसूत्र: ॥११॥
बस्तेरलाभे प्लवजो गलो वा
स्यादङ्कपाद: सुघन: पटो वा ।
आस्थापनार्हं पुरुषं विधिज्ञ:
समीक्ष्य पुण्येऽहनि शुक्लपक्षे ॥१२॥
प्रशस्तनक्षत्रमुहूर्तयोगे
जीर्णान्नमेकाग्रमुपक्रमेत ।
बलां गुडूचीं त्रिफलां सरास्नां
द्वे पञ्चमूले च पलोन्मितानि ॥१३॥
अष्टौ फलान्यर्धतुलां च मांसाच्छागात् पचेदप्सु चतुर्थशेषम् ।
पूतं यवानीफलबिल्वकुष्ठवचाशताह्वाघनपिप्पलीनाम् ॥१४॥
कल्कैर्गुडक्षौद्रघृतै: सतैलैर्युतं सुखोष्णैस्तु पिचुप्रमाणै: ।
गुडात् पलं द्विप्रसृतां तु मात्रां
स्नेहस्य युक्त्या मधु सैन्धवं च ॥१५॥
प्रक्षिप्य बस्तौ मथितं खजेन
सुबद्धमुच्छ्वास्य च निर्वलीकम् ।
अङ्गुष्ठमध्येन मुखं पिधाय
नेत्राग्रसंस्थामपनीय वर्तिम् ॥१६॥
तैलाक्तगात्रं कृतमूत्रविट्कं
नातिक्षुधार्तं शयने मनुष्यम् ।
समेऽथवेषन्नतशीर्षके वा
नात्युच्छ्रिते स्वास्तरणोपपन्ने ॥१७॥
सव्येन पार्श्वेन सुखं शयानं
कृत्वर्जुदेहं स्वभुजोपधानम् ।
सङ्कोच्य सव्येतरदस्य सक्थि
वामं प्रसार्य प्रणयेत्ततस्तम् ॥१८॥
स्निग्धे गुदे नेत्रचतुर्थभागं
स्निग्धं शनैऋज्वनु पृष्ठवंशम् ।
अकम्पनावेपनलाघवादीन्
पाण्योर्गुणाश्चांपि विदर्शयंस्तम् ॥१९॥
प्रपीड्य चैकग्रहणेन दत्तं
नेत्रं शनैरेव ततोऽपकर्षेत् ।
तिर्यक् प्रणीते तु न याति धारा
गुदे व्रण: स्याच्चलिते तु नेत्रे ॥२०॥
दत्त: शनैर्नाशयमेति बस्ति:
कण्ठं प्रधावत्यतिपीडितश्च ।
शीतस्त्वतिस्तकरो विदाहं
मूर्च्छां च कुर्यादतिस्तमात्रमुष्ण: ॥२१॥
स्निग्धोऽतिजाड्यं पवनं तु रूक्षस्तन्वल्पमात्रालवणस्त्वयोगम् ।
करोति मात्राभ्यधिकोऽतियोगं
क्षामं तु सान्द्र: सुचिरेण चैति ॥२२॥
दाहातिसारौ लवणोऽति कुर्यात्तस्मात् सुयुक्तं सममेव दद्यात् ।
पूर्वं हि दद्यान्मधु सैन्धवं तु
स्नेहं विनिर्मथ्य ततोऽनु कल्कम् ॥२३॥
विमथ्य संयोज्य पुनर्द्रवैस्तं
बस्तौ निदध्यान्मथितं खजेन ।
वामाश्रये हि ग्रहणीगुदे च
तत् पार्श्वसंस्थस्य सुखोपलब्धि: ॥२४॥
लीयन्त एवं वलयश्च तस्मात्
सव्यं शयानोऽर्हति बस्तिदानम् ।
विड्वातवेगो यदि चार्धदत्ते
निष्कृष्य मुक्ते प्रणयेदशेषम् ॥२५॥
उत्तानदेहश्च कृतोपधान:
स्याद्वीर्यमाप्नोति तथाऽस्य देहम् ।
एकोऽपकर्षत्यनिलं स्वमार्गात्
पित्तं द्वितीयस्तु कफं तृतीय: ॥२६॥
प्रत्यागते कोष्णजलावसिक्त:
शाल्यन्नमद्यात्तनुना रसेन ।
जीर्णे तु सायं लघु चाल्पमात्रं
भुक्तोऽनुवास्य: परिबृंहणार्थम् ॥२७॥
निरूहपादांशसमेन तैलेनाम्लानिलघ्नोषधसाधितेन ।
दत्त्वा स्फिचौ पाणितलेन हन्यात्
स्नेहस्य शीघ्रागमरक्षणार्थम् ॥२८॥
ईषच्च पादाङ्गुलियुग्ममाञ्छेदुत्तानदेहस्य तलौ प्रमृज्यात् ।
स्नेहेन पार्ष्ण्यङ्गुलिपिण्डिकाश्च
ये चास्य गात्रावयवा रुगार्ता: ॥२९॥
तांश्चावमृद्नीत सुखं ततश्च
निद्रामुपासीत कृतोपधान: ।
भागा: कषायस्य तु पञ्च, पित्ते
स्नेहस्य षष्ठ: प्रकृतौ स्थिते च ॥३०॥
वाते विवृद्धे तु चतुर्थभागो,
मात्रा निरूहेषु कफेऽष्टभाग: ।
निरूहमात्रा प्रसृतार्धमाद्ये वर्षे ततोऽर्धप्रसृताभिवृद्धि: ॥३१॥
आद्वादशात् स्यात् प्रसृताभिवृद्धिरष्टादशाद् द्वादशत: परं स्यु: ।
आसप्ततेस्तद्विहितं प्रमाणमत: परं षोडशवद्विधेयम् ॥३२॥
निरूहमात्रा प्रसृतप्रमाणा
बाले च वृद्धे च मृदुर्विशेष: ।
नात्युच्छ्रितं नाप्यतिनीचपादं
सपादपीठं शयनं प्रशस्तम् ॥३३॥
प्रधानमृद्वास्तरणोपपन्नं
प्राक्शीर्षकं शुक्लपटोत्तरीयम् ।
भोज्यं पुनर्व्याधिमवेक्ष्य तद्वत्
प्रकल्पयेद्यूषपयोरसाद्यै: ॥३४॥
सर्वेषु विद्याद्विधिमेतमाद्यं वक्ष्यामि बस्तीनत उत्तरीयान् ।
द्विपञ्चमूलस्य रसोऽम्लयुक्त:
सच्छागमांसस्य सपूर्वपेष्य: ॥३५॥
त्रिस्नेहयुक्त: प्रवरो निरूह:
सर्वानिलव्याधिहर: प्रदिष्ट: ।
स्थिरादिवर्गस्य बलापटोलत्रायन्तिकैरण्डयवैर्युतस्य ॥३६॥
प्रस्थो रसाच्छागरसार्धयुक्त:
साध्य: पुन: प्रस्थसमस्तु यावत् ।
प्रियङ्गुकृष्णाघनकल्कयुक्त:
सतैलसर्पिर्मधुसैन्धवश्च ॥३७॥
स्याद्दीपनो मांसबलप्रदश्च
चक्षुर्बलं चापि ददाति बस्ति: ।
एरण्डमूलं त्रिपलं पलाशा
ह्रस्वानि मूलानि च यानि पञ्च ॥३८॥
रास्नाश्वगन्धातिबलागुडूचीपुनर्नवारग्वधदेवदारु ।
भागा: पलांशा मदनाष्टयुक्ता
जलद्विकंसे क्वथितेऽष्टशेषे ॥३९॥
पेष्या: शताह्वा हपुषा प्रियङ्गु:
सपिप्पलीकं मधुकं बला च ।
रसाञ्जनं वत्सकबीजमुस्तं
भागाक्षमात्रं लवणांशयुक्तम् ॥४०॥
समाक्षिकस्तैलयुत: समूत्रो
बस्तिर्नृणां दीपनलेखनीय: ।
जङ्घोरुपादत्रिकपृष्ठशूलं
कफावृतिं मारुतनिग्रहं च ॥४१॥
विण्मूत्रवातग्रहणं सशूलमाध्मानतामश्मरिशर्करे च ।
आनाहमर्शोग्रहणीप्रदोषानेरण्डबस्ति: शमयेत् प्रयुक्त: ॥४२॥
चतुष्पले तैलघृतस्य भृष्टाच्छागाच्छतार्धो दधिदाडिमाम्ल: ।
रस: सपेष्यो बलमांसवर्णरेतोग्निदश्चान्ध्यशिरोर्तिशस्त: ॥४३॥
जलद्विकंसेऽष्टपलं पलाशात्
पक्त्वा रसोऽर्धाढकमात्रशेष: ।
कल्कैर्वचामागधिकापलाभ्यां
युक्त: शताह्वाद्विपलेन चापि ॥४४॥
ससैन्धव: क्षौद्रयुत: सतैलो
देयो निरूहो बलवर्णकारी ।
आनाहपार्श्वामययोनिदोषान्
गुल्मानुदावर्तरुजं च हन्यात् ॥४५॥
यष्ट्याह्वयस्याष्टपलेन सिद्धं
पय: शताह्वाफलपिप्पलीभि: ।
युक्तं ससर्पिर्मधु वातरक्तवैस्वर्यवीसर्पहितो निरूह: ॥४६॥
यष्ट्याह्वलोध्राभयचन्दनैश्च
शृतं पयोऽग्र्यं कमलोत्पलैश्च ।
सशर्करं क्षौद्रयुतं सुशीतं
पित्तामयान् हन्तिं सजीवनीयम् ॥४७॥
द्विकार्षिकाश्चन्दनपद्मकर्धियष्ट्याह्वरास्नावृषसारिवाश्च ।
सलोध्रमज्जिष्ठमथाप्यनन्ताबलास्थिरादितृणपञ्चमूलम् ॥४८॥
तोये समुत्क्वाथ्य रसेन तेन
शृतं पयोऽर्धाढकमम्बुहीनम् ।
जीवन्तिमेदर्धिशतावरीभिर्वीराद्विकाकोलिकशेरुकाभि: ॥४९।
सितोपलाजीवकपद्मरेणुप्रपौण्डरीकै: कमलोत्पलैश्च ।
लोध्रात्मगुप्तामधुकैर्विदारीमुञ्जातकै: केशरचन्दनैश्च ॥५०॥
पिष्टैर्घृतक्षौद्रयुतैर्निरूहं
ससैन्धवं शीतलमेव दद्यात् ।
प्रत्यागते धन्वरसेन शालीन्
क्षीरेण वाऽद्यात् परिषिक्तगात्र: ॥५१॥
दाहातिसारप्रदरास्रपित्तहृत्पाण्डुरोगान् विषमज्वरं च ।
सगुल्ममूत्रग्रहकामलादीन्
सर्वामयान् पित्तकृतान्निहन्ति ॥५२॥
द्राक्षादिकाश्मर्यमधूकसेव्यै:
ससारिवाचन्दनशीतपाक्यै: ।
पय: शृतं श्रावणिमुद्गपर्णीतुगात्मगुप्तामधुयष्टिकल्कै: ॥५३॥
गोधूमचूर्णैश्च तथाऽक्षमात्रै:
सक्षौद्रसर्पिर्मधुयष्टितैलै: ।
पथ्याविदारीक्षुरसैर्गुडेन
बस्तिं युतं पित्तहरं विदध्यात् ॥५४॥
हृन्नाभिपार्श्वोत्तमदेहदाहे
दाहेऽन्तरस्थे च सकृच्छ्रमूत्रे ।
क्षीणे क्षते रेतसि चापि नष्टे
पैत्तेऽतिसारे च नृणां प्रशस्त: ॥५५॥
कोषातकारग्वधदेवदारुशार्ङ्गेष्टमूर्वाकुटजार्कपाठा:।
पक्त्वा कुलत्थान् बृहतीं च तोये
रसस्य तस्य प्रसृता दश स्यु: ॥५६॥
तान् सर्षपैलामदनै: सकुष्ठैरक्षप्रमाणै: प्रसृतैश्च युक्तान् ।
फलाह्वतैलस्य समाक्षिकस्य
क्षारस्य तैलस्य च सार्षपस्य ॥५७॥
दद्यान्निरूहं कफरोगिणे ज्ञो
मन्दाग्नये चाप्यशनद्विषे च ।
पटोलपथ्यामरदारुभिर्वा
सपिप्पलीकै: क्वथितैर्जलेऽग्नौ ॥५८॥
द्विपञ्चमूले त्रिफलां सबिल्वां
फलानि गोमूत्रयुत: कषाय:
कलिङ्गपाठाफलमुस्तकल्क:
ससैन्धव: क्षारयुत: सतैल: ॥५९॥
निरूहमुख्य: कफजान् विकारान्
सपाण्डुरोगालसकामदोषान् ।
हन्यात्तथा मारुतमूत्रसङ्गं
बस्तेस्तथाऽऽटोपमथापि घोरम् ॥६०॥
रास्नामृतैरण्डविडङ्गदार्वीसप्तच्छदोशीरसुराह्वनिम्बै: ।
शम्पाकभूनिम्बपटोलपाठातिक्ताखुपर्णीदशमूलमुस्तै: ॥६१॥
त्रायन्तिकाशिग्रुफलत्रिकैश्च
क्वाथ: सपिण्डीतकतोयमूत्र: ।
यष्ट्याह्वकृष्णाफलिनीशताह्वारसाञ्जनश्वेतवचाविडङ्गै: ॥६२॥
कलिङ्गपाठाम्बुदसैन्धवैश्च
कल्कै: ससर्पिर्मधुतैलमिश्र: ।
अयं निरूह: क्रिमिकुष्ठमेहब्रध्नोदराजीर्णकफातुरेभ्य: ॥६३॥
रूक्षौषधैरप्यपतर्पितेभ्य
एतेषु रोगेष्वपि सत्सु दत्त: ।
निहत्य वातं ज्वलनं प्रदीप्य
विजित्य रोगाश्चं बलं करोति ॥६४॥
पुनर्नवैरण्डवृषाश्मभेदवृश्चीरभूतीकबलापलाशा: ।
द्विपञ्चमूलं च पलांशिकानि
क्षुण्णानि धौतानि फलानि चाष्टौ ॥६५॥
बिल्वं यवान् कोलकुलत्थधान्यफलानि चैव प्रसृतोन्मितानि ।
पयोजलद्वयाढकवच्छृतं तत्
क्षीरावशेषं सितवस्त्रपूतम् ॥६६॥
वचाशताह्वामरदारुकुष्ठयष्ट्याह्वसिद्धार्थकपिप्पलीनाम् ।
कल्कैर्यवान्या मदनैश्च युक्तं
नात्युष्णशीतं गुडसैन्धवाक्तम् ॥६७॥
क्षौद्रस्य तैलस्य च सर्पिषश्च
तथैव युक्तं प्रसृतैस्त्रिभिश्च ।
दद्यान्निरूहं विधिना विविज्ञ:
स सर्वसंसर्गकृतामयघ्न: ॥६८॥
स्निग्धोष्ण एक: पवने समांसो
द्वौ स्वादुशीतौ पयसा च पित्ते ।
त्रय: समूत्रा: कटुकोष्णतीक्ष्णा:
कफे निरूहा न परं विधेया: ॥६९॥
रसेन वाते प्रतिभोजनं स्यात्
क्षीरेण पित्ते तु कफे च यूषै: ।
तथाऽनुवास्येषु च बिल्वतैलं
स्याज्जीवनीयं फलसाधितं च ॥७०॥
इतीदमुक्तं निखिलं यथावद्बस्तिप्रदानस्य विधानमग्र्यम् ।
योऽधीत्य विद्वानिह बस्तिकर्म
करोति लोके लभते स सिद्धिम् ॥७१॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते
दृढबलसंपूरिते सिद्धिस्थाने बस्तिसूत्रीयसिद्धिर्नाम
तृतीयोऽध्याय: ॥३॥
Last updated on July 5th, 2021 at 07:20 am