विषय सूची पर जायें

03. कास चिकित्सा - चिकित्सा - अ.हृ"

अष्टाङ्गहृदये (चिकित्सितस्थानम्‌)

कासचिकित्सितं तृतीयोऽध्यायः।

अथातः कासचिकित्सितं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

केवलानिलजं कासं स्नेहैरादावुपाचरेत्‌।

वातघ्नसिद्धैः स्निग्धैश्च पेयायूषरसादिभिः॥१॥

लेहैर्धूमैस्तथाऽभ्यङ्गस्वेदसेकावगाहनैः।

बस्तिभिर्बद्धविड्‌वातं, सपित्तं तूर्ध्वभक्तिकैः॥२॥

घृतैः क्षीरैश्च, सकफं जयेत्स्नेहविरेचनैः।

गुडूचीकण्टकारीभ्यां पृथक्त्रिंशत्पलाद्रसे॥३॥

प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः।

क्षाररास्नावचाहिङ्गुपाठायष्ट्याह्वधान्यकैः॥४॥

द्विशाणैः सर्पिषः प्रस्थं पञ्चकोलयुतैः पचेत्‌।

दशमूलस्य निर्यूहे पीतो मण्डानुपायिना॥५॥

स कासश्वासहृत्पार्श्वग्रहणीरोगगुल्मनुत्‌।

द्रोणेऽपां साधयेद्रास्नादशमूलशतावरीः॥६॥

पलोन्मिता द्विकुडवं कुलत्थं बदरं यवम्‌।

तुलार्धं चाजमांसस्य तेन साध्यं घृताढकम्‌॥७॥

 समक्षीरं पलांशैश्च जीवनीयैः समीक्ष्य तत्‌।

प्रयुक्तं वातरोगेषु पाननावनबस्तिभिः॥८॥

पञ्चकासान्‌ शिरःकम्पं योनिवङ्‌क्षणवेदनाम्‌।

सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलान्‌ जयेत्‌॥९॥

विदार्यादिगणक्वाथकल्कसिद्धं च कासजित्‌।

अशोकबीजक्षवकजन्तुघ्नाञ्जनपद्मकैः॥१०॥

सबिडैश्च घृतं सिद्धं तच्चूर्णं वा घृतप्लुतम्‌।

लिह्यात्पयश्चानु पिबेदाजं कासातिपीडितः॥११॥

विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम्‌।

भार्गी क्षारश्च तच्चूर्णं पिबेद्वा घृतमात्रया॥१२॥

सकफेऽनिलजे कासे श्वासहिध्माहताग्निषु।

दुरालभां शृङ्गबेरं शठीं द्राक्षां सितोपलाम्‌॥१३॥

लिह्यात्कर्कटशृङ्गीं च कासे तैलेन वातजे।

दुस्पर्शां पिप्पलीं मुस्तां भार्गीं कर्कटकीं शठीम्‌॥१४॥

पुराणगुडतैलाभ्यां चूर्णितान्यवलेहयेत्‌।

तद्वत्सकृष्णां शुण्ठीं च सभार्गीं तद्वदेव च॥१५॥

पिबेच्च कृष्णां कोष्णेन सलिलेन ससैन्धवाम्‌।

मस्तुना ससितां शुण्ठीं दध्ना वा कणरेणुकाम्‌॥१६॥

पिबेद्बदरमज्ज्ञो वा मदिरादधिमस्तुभिः।

अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम्‌॥१७॥

कासी सपीनसो धूमं स्नैहिकं विधिना पिबेत्‌।

हिध्माश्वासोक्तधूमांश्च क्षीरमांसरसाशनः॥१८॥

ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्‌।

रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान्‌॥१९॥

यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः।

रास्नाजाजीपृथक्पर्णीपलाशशठिपौष्करैः॥२०॥

सिद्धां स्निग्धाम्ललवणां पेयामनिलजे पिबेत्‌।

कटीहृत्पार्श्वकोष्ठार्तिश्वासहिध्माप्रणाशनीम्‌॥२१॥

दशमूलरसे तद्वत्‌ पञ्चकोलगुडान्विताम्‌।

पिबेत्पेयां समतिलां क्षैरेयीं वा ससैन्धवाम्‌॥२२॥

मात्स्यकौक्कुटवाराहैर्मांसैर्वा साज्यसैन्धवाम्‌।

वास्तुको वायसीशाकं कासघ्न: सुनिषण्णकः॥२३॥

कण्टकार्याः फलं पत्रं बालं शुष्कं च मूलकम्‌।

स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः॥२४॥

दधिमस्त्वारनालाम्लफलाम्बुमदिराः पिबेत्‌।

पित्तकासे तु सकफे वमनं सर्पिषा हितम्‌॥२५॥

तथा मदनकाश्मर्यमधुकक्वथितैर्जलैः।

फलयष्ट्याह्वकल्कैर्वा विदारीक्षुरसाप्लुतैः॥२६॥

पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम्‌।

युञ्ज्याद्विरेकाय युतां घनश्लेष्मणि तिक्तकैः॥२७॥

हृतदोषो हिमं स्वादु स्निग्धं संसर्जनं भजेत्‌।

घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम्‌॥२८॥

लेहः पैत्ते सिताधात्रीक्षौद्रद्राक्षाहिमोत्पलैः।

सकफे साब्दमरिचः, सघृतः सानिले हितः॥२९॥

मृद्वीकार्धशतं त्रिंशत्पिप्पलीः शर्करापलम्‌।

लेहयेन्मधुना गोर्वा क्षीरपस्य शकृद्रसम्‌॥३०॥

त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः।

लाजमुस्ताशठीरास्नाधात्रीफलबीभीतकैः॥३१॥

शर्कराक्षौद्रसर्पिर्भिर्लेहो हृद्रोगकासहा।

मधुरैर्जाङ्गलरसैर्यवश्यामाककोद्रवाः॥३२॥

मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः।

घनश्लेष्मणि लेहाश्च तिक्तका मधुसंयुताः॥३३॥

शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः।

शर्कराम्भोऽनुपानार्थं द्राक्षेक्षुस्वरसाः पयः॥३४॥

काकोलीबृहतीमेदाद्वयैः सवृषनागरैः।

पित्तकासे रसक्षीरपेयायूषान्‌ प्रकल्पयेत्‌॥३५॥

द्राक्षां कणां पञ्चमूलं तृणाख्यां च पचेज्जले।

तेन क्षीरं शृतं शीतं पिबेत्समधुशर्करम्‌॥३६॥

साधितां तेन पेयां वा सुशीतां मधुनाऽन्विताम्‌।

शठीह्रीबेरबृहतीशर्कराविश्वभेषजम्‌॥३७॥

पिष्ट्वा रसं पिबेत्पूतं वस्त्रेण घृतमूर्च्छितम्‌।

मेदां विदारीं काकोलीं स्वयंगुप्ताफलं बलाम्‌॥३८॥

शर्करां जीवकं मुद्‌गमाषपर्ण्यौ दुरालभाम्‌।

कल्कीकृत्य पचेत्सर्पिः क्षीरेणाष्टगुणेन तत्‌॥३९॥

पानभोजनलेहेषु प्रयुक्तं पित्तकासजित्‌।

लिह्याद्वा चूर्णमेतेषां कषायमथवा पिबेत्‌॥४०॥

कफकासी पिबेदादौ सुरकाष्ठात्‌ प्रदीपितात्‌।

स्नेहं परिस्रुतं व्योषयवक्षारावचूर्णितम्‌॥४१॥

 स्निग्धं विरेचयेदूर्ध्वमधो मूर्ध्नि च युक्तितः।

तीक्ष्णैर्विरेकैर्बलिनं संसर्गीं चास्य योजयेत्‌॥४२॥

यवमुद्गकुलत्थान्नैरुष्णरूक्षैः कटूत्कटैः।

कासमर्दकवार्ताकव्याघ्रीक्षारकणान्वितैः॥४३॥

धान्वबैलरसैः स्नैहैस्तिलसर्षपनिम्बजैः।

दशमूलाम्बु घर्माम्बु मद्यं मध्वम्बु वा पिबेत्‌॥।४४॥

मूलैः पौष्करशम्याकपटोलैः संस्थितं निशाम्‌।

पिबेद्वारि सहक्षौद्रं कालेष्वन्नस्य वा त्रिषु॥४५॥

पिप्पली पिप्पलीमूलं शृङ्गबेरं बिभीतकम्‌।

शिखिकुक्कुटपिच्छानां मषी क्षारो यवोद्भवः॥४६॥

विशाला पिप्पलीमूलं त्रिवृता च मधुद्रवाः।

कफकासहरा लेहास्त्रयः श्लोकार्धयोजिताः॥४७॥

मधुना मरिचं लिह्यान्मधुनैव च जोङ्गकम्‌।

पृथग्रसांश्च मधुना व्याघ्रीवार्ताकभृङ्गजान्‌॥४८॥

कासघ्नस्याश्वशकृतः सुरसस्यासितस्य च।

देवदारुशठीरास्नाकर्कटाख्यादुरालभाः॥४९॥

पिप्पली नागरं मुस्तं पथ्या धात्री सितोपला।

लाजाः सितोपला सर्पिः शृङ्गी धात्रीफलोद्भवा॥५०॥

मधुतैलयुता लेहास्त्रयो वातानुगे कफे।

द्वे पले दाडिमादष्टौ गुडाद्व्याेषात्पलत्रयम्‌॥५१॥

रोचनं दीपनं स्वर्यं पीनसश्वासकासजित्‌।

गुडक्षारोषणकणादाडिमं श्वासकासजित्‌॥५२॥

क्रमात्पलद्वयार्धाक्षकर्षार्धाक्षपलोन्मितम्‌।

पिबेज्ज्वरोक्तं पथ्यादि सशृङ्गीकं च पाचनम्‌॥५३॥

अथवा दीप्यकत्रिवृद्विशालाघनपौष्करम्‌।

सकणं क्वथितं मूत्रे कफकासी जलेऽपि वा॥५४॥

तैलभृष्टं च वैदेहीकल्काक्षं ससितोपलम्‌।

पाययेत्कफकासघ्नं कुलत्थसलिलाप्लुतम्‌॥५५॥

दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्‌।

पुष्कराह्वशठीबिल्वसुरसाव्योषहिङ्गुभिः॥५६॥

पेयानुपानं तत्सर्ववातश्लेष्मामयापहम्‌।

निर्गुण्डीपत्रनिर्याससाधितं कासजिद्घृतम्‌॥५७॥

घृतं रसे विडङ्गानां व्योषगर्भं च साधितम्‌॥५७.१.२॥

पुनर्नवशिवाटिकासरलकासमर्दामृता-

पटोलबृहतीफणिज्जकरसैः पयः संयुतैः।

घृतं त्रिकटुना च सिद्धमुपयुज्य सञ्जायते।

न कासविषमज्वरक्षयगुदाङ्कुरेभ्यो भयम्‌॥५८॥

समूलफलपत्रायाः कण्टकार्या रसाढके॥५९॥

घृतप्रस्थं बलाव्योषविडङ्गशठिदाडिमैः।

सौवर्चलयवक्षारमूलामलकपौष्करैः॥६०॥

वृश्चीवबृहतीपथ्यायवानीचित्रकर्धिभिः।

मृद्वीकाचव्यवर्षाभूदुरालम्भाम्लवेतसैः॥६१॥

शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत्‌।

कल्कैस्तत्सर्वकासेषु श्वासहिध्मासु चेष्यते॥६२॥

कण्टकारिघृतं चैतत्कफव्याधिविनाशनम्‌।

पचेद्व्याघ्रीतुलां क्षुण्णां वहेऽपामाढकस्थिते॥६३॥

क्षिपेत्‌ पूते तु सञ्चूर्ण्य व्योषरास्नामृताग्निकान्‌।

शृङ्गीभार्गीघनग्रन्थिधन्वयासान्‌ पलार्धकान्‌॥६४॥

सर्पिषः षोडशपलं चत्वारिंशत्पलानि च।

मत्स्यण्डिकायाः शुद्धायाः पुनश्च तदधिश्रयेत्‌॥६५॥

दर्वीलेपिनि शीते च पृथक्‌ द्विकुडवं क्षिपेत्‌।

पिप्पलीनां तवक्षीर्या माक्षिकस्यानवस्य च॥६६॥

लेहोऽयं गुल्महृद्रोगदुर्नामश्वासकासजित्‌।

शमनं च पिबेद्धूमं शोधनं बहले कफे॥६७॥

मनःशिलालमधुकमांसीमुस्तेङ्गुदीत्वचः।

धूमं कासघ्नविधिना पीत्वा क्षीरं पिबेदनु॥६८॥

निष्ठ्यूतान्ते गुडयुतं कोष्णं धूमो निहन्ति सः।

वातश्लेष्मोत्तरान्‌ कासानचिरेण चिरन्तनान्॥६९॥

तमकः कफकासे तु स्याच्चेत्पित्तानुबन्धजः।

पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत्‌॥७०॥

कफानुबन्धे पवने कुर्यात्कफहरां क्रियाम्‌।

पित्तानुबन्धयोर्वातकफयोः पित्तनाशिनीम्‌॥७१॥

वातश्लेष्मात्मके शुष्के स्निग्धमार्द्रे विरूक्षणम्‌।

कासे कर्म सपित्ते तु कफजे तिक्तसंयुतम्‌॥७२॥

उरस्यन्तःक्षते सद्यो लाक्षां क्षौद्रयुतां पिबेत्‌।

क्षीरेण शालीन्‌ जीर्णेऽद्यात्क्षीरेणैव सशर्करान्‌॥७३॥

पार्श्वबस्तिसरुक्चाल्पपित्ताग्निस्तां सुरायुताम्‌।

भिन्नविट्‌कः समुस्तातिविषापाठां सवत्सकाम्‌॥७४॥

लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयं गणं सिताम्‌।

त्वक्क्षीरीं समितं क्षीरे पक्त्वा दीप्तानलः पिबेत्‌॥७५॥

इक्ष्वारिकाबिसग्रन्थिपद्मकेसरचन्दनैः।

शृतं पयो मधुयुतं सन्धानार्थं पिबेत्क्षती॥७६॥

यवानां चूर्णमामानां क्षीरे सिद्धं घृतान्वितम्‌।

ज्वरदाहे सिताक्षौद्रसक्तून्वा पयसा पिबेत्‌॥७७॥

कासवांस्तु पिबेत्सर्पिर्मधुरौषधसाधितम्‌।

गुडोदकं वा क्वथितं सक्षौद्रमरिचं हितम्‌॥७८॥

चूर्णमामलकानां वा क्षीरे पक्वं घृतान्वितम्‌।

रसायनविधानेन पिप्पलीर्वा प्रयोजयेत्‌॥७९॥

कासी पर्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः।

मधूकमधुकद्राक्षात्वक्क्षीरीपिप्पलीबलाः॥८०॥

त्रिजातमर्धकर्षांशं पिप्पल्यर्धपलं सिता।

द्राक्षा मधूकं खर्जूरं पलांशं श्लक्ष्णचूर्णितम्‌॥८१॥

मधुना गुटिका घ्नन्ति ता वृष्याः पित्तशोणितम्‌।

कासश्वासारुचिच्छर्दिमूर्च्छाहिध्मामदभ्रमान्‌॥८२॥

क्षतक्षयस्वरभ्रंशप्लीहशोषाढ्यमारुतान्‌।

रक्तनिष्ठीवहृत्पार्श्वरुक्पिपासाज्वरानपि॥८३॥

वर्षाभूशर्करारक्तशालितण्डुलजं रजः।

रक्तष्ठीवी पिबेत्सिद्धं द्राक्षारसपयोघृतैः॥८४॥

मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम्‌।

यथास्वं मार्गविसृते रक्ते कुर्याच्च भेषजम्‌॥८५॥

मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम्‌।

क्षामः क्षीणः क्षतोरस्को मन्दनिद्रोऽग्निदीप्तिमान्‌॥८६॥

शृतक्षीरसरेणाद्यात्सघृतक्षौद्रशर्करम्‌।

शर्करायवगोधूमं जीवकर्षभकौ मधु॥८७॥

शृतक्षीरानुपानं वा लिह्यात्क्षीणः क्षतः कृशः।

क्रव्यात्पिशितनिर्यूहं घृतभृष्टं पिबेच्च सः॥८८॥

पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम्‌।

न्यग्रोधोदुम्बराश्वत्थप्लक्षशालप्रियङ्गुभिः॥८९॥

तालमस्तकजम्बूत्वक्प्रियालैश्च सपद्मकैः।

साश्वकर्णैः शृतात्क्षीरादद्याज्जातेन सर्पिषा॥९०॥            

शाल्योदनं क्षतोरस्कः क्षीणशुक्रबलेन्द्रियः।

वातपित्तार्दितेऽभ्यङ्गो गात्रभेदे घृतैर्मतः॥९१॥

तैलैश्चानिलरोगघ्नैः पीडिते मातरिश्वना।

हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिषः॥९२॥

कुर्याद्वा वातरोगघ्नं पित्तरक्ताविरोधि यत्‌।

यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमे घृतम्‌॥९३॥

पयस्यापिप्पलीवांशीकल्कैः सिद्धं क्षते हितम्‌।

जीवनीयो गणः शुण्ठी वरी वीरा पुनर्नवा॥९४॥

बलाभार्गीस्वगुप्तर्द्धिशठीतामलकीकणाः।

शृङ्गाटकं पयस्या च पञ्चमूलं च यल्लघु॥९५॥

द्राक्षाक्षोडादि च फलं मधुरस्निग्धबृंहणम्‌।

तैः पचेत्सर्पिषः प्रस्थं कर्षांशैः श्लक्ष्णकल्कितैः॥९६॥

क्षीरधात्रीविदारीक्षुच्छागमांसरसान्वितम्‌।

प्रस्थार्धं मधुनः शीते शर्करार्धतुलारजः॥९७॥

पलार्धकं च मरिचत्वगेलापत्रकेसरम्‌।

विनीय चूर्णितं तस्माल्लिह्यान्मात्रां यथाबलम्‌॥९८॥

अमृतप्राशमित्येतन्नराणाममृतं घृतम्‌।

सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना॥९९॥

नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्‌।

स्त्रीप्रसक्तान्‌ कृशान्‌ वर्णस्वरहीनांश्च बृंहयेत्‌॥१००॥

कासहिध्माज्वरश्वासदाहतृष्णास्रपित्तनुत्‌।

पुत्रदं छर्दिमूर्च्छाहृद्योनिमूत्रामयापहम्‌॥१०१॥

श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम्‌।

दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम्‌॥१०२॥

पालिकानि पचेत्तेषां रसे क्षीरचतुर्गुणे।

कल्कैः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः॥१०३॥

शतावर्यर्द्धिमृद्वीकाशर्कराश्रावणीबिसैः।

प्रस्थः सिद्धो घृताद्वातपित्तहृद्रोगशूलनुत्‌॥१०४॥

मूत्रकृच्छ्रप्रमेहार्शः कासशोषक्षयापहः।

धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः॥१०५॥

मधुकाष्टपलद्राक्षाप्रस्थक्वाथे पचेद्घृतम्‌।

पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले॥१०६॥

पृथगष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत्‌।

समसक्तु क्षतक्षीणरक्तगुल्मेषु तद्धितम्‌॥१०७॥

धात्रीफलविदारीक्षुजीवनीयरसाद्घृतात्‌।

गव्याजयोश्च पयसोः प्रस्थं प्रस्थं विपाचयेत्‌॥१०८॥

सिद्धशीते सिताक्षौद्रं द्विप्रस्थं विनयेत्ततः।

यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम्‌॥१०९॥

वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम्‌।

घृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत्‌॥११०॥

लीढं निर्वापयेत्पित्तमल्पत्वाद्धन्ति नानलम्‌।

आक्रामत्यनिलं पीतमूष्माणं निरुणद्धि च॥१११॥

क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु।

त्वक्क्षीरीशर्करालाजचूर्णैः स्त्यानानि योजयेत्‌॥११२॥

सर्पिर्गुडान्‌ समध्वंशान्‌ कृत्वा दद्यात्पयोऽनु च।

रेतो वीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात्‌॥११३॥

वीतत्वगस्थिकूष्माण्डतुलां स्विन्नां पुनः पचेत्‌।

घट्टयन्‌ सर्पिषः प्रस्थे क्षौद्रवर्णेऽत्र च क्षिपेत्‌॥११४॥

खण्डाच्छतं कणाशुण्ठ्योर्द्विपलं जीरकादपि।

त्रिजातधान्यमरिचं पृथगर्धपलांशकम्‌॥११५॥

अवतारितशीते च दत्वा क्षौद्रं घृतार्धकम्‌।

खजेनामथ्य च स्थाप्यं तन्निहन्त्युपयोजितम्‌॥११६॥

कासहिध्माज्वरश्वासरक्तपित्तक्षतक्षयान्‌।

उरःसन्धानजननं मेधास्मृतिबलप्रदम्‌॥११७॥

अश्विभ्यां विहितं हृद्यं कूष्माण्डकरसायनम्‌।

पिबेन्नागबलामूलस्यार्धकर्षाभिवर्धितम्‌॥११८॥

पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक्‌।

एष प्रयोगः पुष्ट्यायुर्बलवर्णकरः परम्‌॥११९॥

मण्डूकपर्ण्याः कल्पोऽयं यष्ट्या विश्वौषधस्य च।

पादशेषं जलद्रोणे पचेन्नागबलातुलाम्‌॥।१२०॥

तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत्‌।

पलार्धिकैश्चातिबलाबलायष्टीपुनर्नवैः॥१२१॥

प्रपौण्डरीककाश्मर्यप्रियालकपिकच्छुभिः।

अश्वगन्धासिताभीरुमेदायुग्मत्रिकण्टकैः॥१२२॥

काकोलीक्षीरकाकोलीक्षीरशुक्लाद्विजीरकैः।

मृणालबिसखर्जूरशृङ्गाटककसेरुकैः॥१२३॥

एतन्नागबलासर्पिः पित्तरक्तक्षतक्षयान्‌।

जयेत्तृड्‌भ्रमदाहांश्च बलपुष्टिकरं परम्‌॥१२४॥

वर्ण्यमायुष्यमोजस्यं वलीपलितनाशनम्‌।

उपयुज्य च षण्मासान्‌ वृद्धोऽपि तरुणायते॥१२५॥

दीप्तेऽग्नौ विधिरेष स्यात्‌ मन्दे दीपनपाचनः।

यक्ष्मोक्तः क्षतिनां शस्तो, ग्राही शकृति तु द्रवे॥१२६॥

दशमूलं स्वयंगुप्तां शङ्खपुष्पीं शठीं बलाम्‌।

हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान्‌॥१२७॥

भार्गीं पुष्करमूलं च द्विपलांशं यवाढकम्‌।

हरीतकीशतं चैकं जलपञ्चाढके पचेत्‌॥१२८॥

यवस्वेदे कषायं तं पूतं तच्चाभयाशतम्‌।

पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात्‌॥१२९॥

तैलात्सपिप्पलीचूर्णात्सिद्धशीते च माक्षिकात्‌।

लेहं द्वे चाभये नित्यमतः खादेद्रसायनात्‌॥१३०॥

तद्वलीपलितं हन्याद्वर्णायुर्बलवर्धनम्‌।

पञ्चकासान्‌ क्षयं श्वासं सहिध्मं विषमज्वरम्‌॥१३१॥

मेहगुल्मग्रहण्यर्शोहृद्रोगारुचिपीनसान्‌।

अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम्‌॥१३२॥

दशमूलं बलां मूर्वां हरिद्रे पिप्पलीद्वयम्‌।

पाठाश्वगन्धापामार्गस्वगुप्तातिविषामृताः॥१३३॥

बालबिल्वं त्रिवृद्दन्तीमूलं पत्रं च चित्रकात्‌।

पयस्यां कुटजं हिंस्रां पुष्पं सारं च बीजकात्‌॥१३४॥

बोटस्थविरभल्लातविकङ्कतशतावरीः।

पूतीकरञ्जशम्याकचन्द्रलेखासहाचरम्‌॥१३५॥

सौभाञ्जनकनिम्बत्वगिक्षुरं च पलांशकम्‌।

पथ्यासहस्रं सशतं यवानां चाढकद्वयम्‌॥१३६॥

पचेदष्टगुणे तोये यवस्वेदेऽवतारयेत्‌।

पूते क्षिपेत्सपथ्ये च तत्र जीर्णगुडात्तुलाम्‌॥१३७॥

तैलाज्यधात्रीरसतः प्रस्थं प्रस्थं ततः पुनः।

अधिश्रयेन्मृदावग्नौ दर्वीलेपेऽवतार्य च॥१३८॥

शीते प्रस्थद्वयं क्षौद्रात्पिप्पलीकुडवं क्षिपेत्‌।

चूर्णीकृतं त्रिजाताच्च त्रिपलं निखनेत्ततः॥१३९॥

धान्ये पुराणकुम्भस्थं मासं खादेच्च पूर्ववत्‌।

रसायनं वसिष्ठोक्तमेतत्पूर्वगुणाधिकम्‌॥१४०॥

स्वस्थानां निष्परीहारं सर्वर्तुषु च शस्यते।

पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात्पले॥१४१॥

कुडवांशानि वृक्षाम्लं दाडिमं पत्रमार्जकात्‌।

एकैकां मरिचाजाज्योर्धान्यकाद्‌ द्वे चतुर्थिके॥१४२॥

शर्करायाः पलान्यत्र दश द्वे च प्रदाययेत्‌।

कृत्वा चूर्णमतो मात्रामन्नपानेषु दापयेत्‌॥१४३॥

रुच्यं तद्दीपनं बल्यं पार्श्वार्तिश्वासकासजित्‌।

एकां षोडशिकां धान्याद्‌ द्वे द्वे चाजाजिदीप्यकात्‌॥१४४॥

ताभ्यां दाडिमवृक्षाम्ले द्विर्द्विः सौर्वचलात्पलम्‌।

शुण्ठ्याः कर्षं दधित्थस्यमध्यात्पञ्च पलानि च॥१४५॥

तच्चूर्णं षोडशपलैः शर्कराया विमिश्रयेत्‌।

षाडवोऽयं प्रदेयः स्यादन्नपानेषु पूर्ववत्‌॥१४६॥

विधिश्च यक्ष्मविहितो यतावस्थं क्षते हितः।

निवृत्ते क्षतदोषे तु कफे वृद्धे उरः शिरः॥१४७॥

दाल्यते कासिनो यस्य स ना धूमान्‌ पिबेदिमान्‌।

द्विमेदाद्विबलायष्टीकल्कैः क्षौमे सुभाविते॥१४८॥

वर्तिं कृत्वा पिबेद्धूमं जीवनीयघृतानुपः।

मनःशिलापलाशाजगन्धात्वक्क्षीरिनागरैः॥१४९॥

तद्वदेवानुपानं तु शर्करेक्षुगुडोदकम्‌।

पिष्ट्वा मनःशिलां तुल्यामार्द्रया वटशुङ्ग्या॥।१५०॥

ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनम्‌।

क्षयजे बृंहणं पूर्वं कुर्यादग्नेश्च वर्धनम्‌॥१५१॥

बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम्‌।

शम्याकेन त्रिवृतया मृद्वीकारसयुक्तया॥१५२॥

तिल्वकस्य कषायेण विदारीस्वरसेन च।

सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम्‌॥१५३॥

पित्ते कफे धातुषु च क्षीणेषु क्षयकासवान्‌।

घृतं कर्कटक्षीरद्विबलासाधितं पिबेत्‌॥१५४॥

विदारीभिः कदम्बैर्वा तालसस्यैश्च साधितम्‌।

घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे॥१५५॥

शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्‌क्षणे।

घृतमण्डेन लघुनाऽनुवास्यो मिश्रकेण वा॥१५६॥

जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः।

क्रमशः प्रसहास्तद्वत्प्रयोज्याः पिशिताशिनः॥१५७॥

औष्ण्यात्प्रमाथिभावाच्च स्रोतोभ्ययावयन्ति ते।

कफं शुद्धैश्च तैः पुष्टिं कुर्यात्सम्यग्‌ वहन्‌ रसः॥१५८॥

चविकात्रिफलाभार्गीदशमूलैः सचित्रकैः।

कुलत्थपिप्पलीमूलपाठाकोलयवैर्जले॥१५९॥

शृतैर्नागरदुःस्पर्शापिप्पलीशठिपौष्करैः।

पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत्‌॥१६०॥

सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च।

दत्त्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः॥१६१॥

कासमर्दाभयामुस्तापाठाकट्‌फलनागरैः।

पिप्पल्या कटुरोहिण्या काश्मर्या सुरसेन च॥१६२॥

अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके।

पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम्‌॥१६३॥

वृषव्याघ्रीगुडूचीनां पत्रमूलफलाङ्कुरात्‌।

रसकल्कैर्घृतं पक्वं हन्ति कासज्वरारुचीः॥१६४॥

द्विगुणे दाडिमरसे सिद्धं वा व्योषसंयुतम्‌।

पिबेदुपरि भुक्तस्य यवक्षारयुतं नरः॥१६५॥

पिप्पलीगुडसिद्धं वा छागक्षीरयुतं घृतम्‌।

एतान्यग्निविवृद्ध्यर्थं सर्पींषि क्षयकासिनाम्‌॥१६६॥

स्युर्दोषबद्धकण्ठोरःस्रोतसां च विशुद्धये।

प्रस्थोन्मिते यवक्वाथे विंशतिं विजयाः पचेत्‌॥१६७॥

स्विन्ना मृदित्वा तास्तस्मिन्पुराणात्षट्‌पलं गुडात्‌।

पिप्पल्या द्विपलं कर्षं मनोह्वाया रसाञ्जनात्‌॥१६८॥

दत्त्वाऽर्धाक्षं पचेद्भूयः स लेहः श्वासकासजित्‌।

श्वाविधां सूचयो दग्धाः सघृतक्षौद्रशर्कराः॥१६९॥

श्वासकासहरा, बर्हिपादौ वा मधुसर्पिषा।

एरण्डपत्रक्षारं वा व्योषतैलगुडान्वितम्‌॥१७०॥

लेहयेत्‌, क्षारमेवं वा सुरसैरण्डपत्रजम्‌।

लिह्यात्‌ त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा॥१७१॥

पद्मकं त्रिफला व्योषं विडङ्गं देवदारु च।

बला रास्ना च तच्चूर्णं समस्तं समशर्करम्‌॥१७२॥

खादेन्मधुघृताभ्यां वा लिह्यात्कासहरं परम्‌।

तद्वन्मरिचचूर्णं वा सघृतक्षौद्रशर्करम्‌॥१७३॥

पथ्याशुण्ठीघनगुडैर्गुटिकां धारयेन्मुखे।

सर्वेषु श्वासकासेषु, केवलं वा बिभीतकम्‌॥१७४॥

पत्रकल्कं घृतभृष्टं तिल्वकस्य सशर्करम्‌।

पेया वोत्कारिका छर्दितृट्‌कासामातिसारजित्‌॥१७५॥

कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः।

सगौरामलकः साम्लः सर्वकासभिषग्जितम्‌॥१७६॥

वातघ्नौषधनिःक्वाथे क्षीरं यूषान्‌ रसानपि।

वैष्किरान्‌ प्रातुदान्‌ बैलान्‌ दापयेत्क्षयकासिने॥१७७॥

क्षतकासे च ये धूमाः सानुपाना निदर्शिताः।

क्षयकासेऽपि ते योज्या वक्ष्यते यच्च यक्ष्मणि॥१७८॥

बृंहणं दीपनं चाग्ने: स्रोतसां च विशोधनम्‌।

व्यत्यासात्क्षयकासिभ्यो बल्यं सर्वं प्रशस्यते॥१७९॥

सन्निपातोद्भवो घोरः क्षयकासो यतस्ततः।

यथादोषबलं तस्य सन्निपातहितं हितम्‌॥१८०॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग-

हृदयसंहितायां चतुर्थे चिकित्सितस्थाने कासचिकित्सितं नाम तृतीयोऽध्यायः॥३॥

Last updated on August 18th, 2021 at 11:45 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi